अध्यायः 038
विदुरेण धृतराष्ट्रम् प्रति नीतिकथनपूर्वकम् पाण्डवेभ्यो राज्याप्रदाने दुर्योधनस्य राज्यभ्रंशकथनम् ॥ 1 ॥
विदुर उवाच KK05-03-038-001
ऊर्ध्वं प्राणा ह्युत्क्रामन्ति यूनः स्थविर आयति । KK05-03-038-001a
प्रत्युत्थानाभिवादाभ्यां पुनस्तान्प्रतिपद्यते ॥ KK05-03-038-001c
पीठं दत्त्वा साधवेऽभ्यागताय आनीयापः परिनिर्णिज्य पादौ । KK05-03-038-002a
सुखं पृष्ट्वा प्रतिवेद्यात्मसंस्थां ततो दद्यादन्नमवेक्ष्य धीरः ॥ KK05-03-038-002c
यस्योदकं मधुपर्कं च गां च न मन्त्रवित्प्रतिगृह्णाति गेहे । KK05-03-038-003a
लोभाद्भयादथ कार्पण्यतो वा तस्यानर्थं जीवितमाहुरार्याः ॥ KK05-03-038-003c
चिकित्सकः शल्यकर्तावकीर्णी स्तेनः क्रूरो मद्यपो भ्रूणहा च । KK05-03-038-004a
सेनाजीवी श्रुतिविक्रायकश्च भृशं प्रियोऽप्यतिथिर्नोदकार्हः ॥ KK05-03-038-004c
अविक्रेयं लवणं पक्वमन्नं दधि क्षीरं मधु तैलं घृतं च । KK05-03-038-005a
तिला मांसं फलमूलानि शाकं रक्तं वासः सर्वगन्धा गुडाश्च ॥ KK05-03-038-005c
अरोषणो यः समलोष्ठाश्मकाञ्चनः प्रहीणशोको गतसन्धिविग्रहः । KK05-03-038-006a
निन्दाप्रशंसोपरतः प्रियाप्रिये त्यजन्नुदासीनवदेष भिक्षुकः ॥ KK05-03-038-006c
नीवारमूलेङ्गुदशाकवृत्तिः सुसंयतात्माग्निकार्येषु चोद्यः । KK05-03-038-007a
वने वसन्नतिथिष्वप्रमत्तो धुरन्धरः पुण्यकृदेष तापसः ॥ KK05-03-038-007c
अपकृत्य बुद्धिमतो दूरस्थोऽस्मीति नाश्वसेत् । KK05-03-038-008a
दीर्घौ बुद्धिमतो बाहू याभ्यां हिंसति हिंसितः ॥ KK05-03-038-008c
न विश्वसेदविश्वस्ते विश्वस्ते नातिविश्वसेत् । KK05-03-038-009a
विश्वासाद्भयमुत्पन्नं मूलान्यपि निकृन्तति ॥ KK05-03-038-009c
अनीर्षुर्गुप्तदारश्च संविभागी प्रियंवदः । KK05-03-038-010a
श्लक्ष्णो मधुरवाक्स्त्रीणां न चासां वशगो भवेत् ॥ KK05-03-038-010c
पूजनीया महाभागाः पुण्याश्च गृहदीप्तयः । KK05-03-038-011a
स्त्रियः श्रियो गृहस्योक्तास्तस्माद्रक्ष्या विशेषतः ॥ KK05-03-038-011c
पितुरन्तःपुरं दद्यान्मातुर्दद्यान्महानसम् । KK05-03-038-012a
गोषु चात्मसमं दद्यात्स्वयमेव कृषिं व्रजेत् । KK05-03-038-012c
भृत्यैर्वाणिज्यचारं च पुत्रैः सेवेत च द्विजान् ॥ KK05-03-038-012e
अद्भ्योऽग्निर्ब्रह्मतः क्षत्रमश्मनो लोहमुत्थितम् । KK05-03-038-013a
तेषां सर्वत्रगं तेजः स्वासु योनिषु शाम्यति ॥ KK05-03-038-013c
नित्यं सन्तः कुले जाताः पावकोपमतेजसः । KK05-03-038-014a
क्षमावन्तो निराकाराः काष्ठेऽग्निरिव शेरते ॥ KK05-03-038-014c
यस्य मन्त्रं न जानन्ति बाह्याश्चाभ्यन्तराश्च ये । KK05-03-038-015a
स राजा सर्वतश्चक्षुश्चिरमैश्वर्यमश्नुते ॥ KK05-03-038-015c
करिष्यन्न प्रभाषेत कृतान्येव तु दर्शयेत् । KK05-03-038-016a
धर्मकामार्थकार्याणि तथा मन्त्रो न भिद्यते ॥ KK05-03-038-016c
गिरिपृष्ठमुपारुह्य प्रासादं वा रहोगतः । KK05-03-038-017a
अरण्ये निःशलाके वा तत्र मन्त्रोऽभिधीयते ॥ KK05-03-038-017c
नासुहृत्परमं मन्त्रं भारतार्हति वेदितुम् । KK05-03-038-018a
अपण्डितो वापि सुहृत्पण्डितो वाप्यनात्मवान् ॥ KK05-03-038-018c
नापरीक्ष्य महीपालः कुर्यात्सचिवमात्मनः । KK05-03-038-019a
अमात्ये ह्यर्थलिप्सा च मन्त्ररक्षणमेव च ॥ KK05-03-038-019c
कृतानि सर्वकार्याणि यस्य पारिषदा विदुः । KK05-03-038-020a
धर्मे चार्थे च कामे च स राजा राजसत्तमः । KK05-03-038-020c
गूढमन्त्रस्य नृपतेस्तस्य सिद्धिरसंशयम् ॥ KK05-03-038-020e
अप्रशस्तानि कार्याणि यो मोहादनुतिष्ठति । KK05-03-038-021a
स तेषां विपरिभ्रंशाद्भ्रश्यते जीवितादपि ॥ KK05-03-038-021c
कर्मणां तु प्रशस्तानामनुष्ठानं सुखावहम् । KK05-03-038-022a
तेषामेवाननुष्ठानं पश्चात्तापकरं मतम् ॥ KK05-03-038-022c
अनधीत्य यथा वेदान्न विप्रः श्राद्धमर्हति । KK05-03-038-023a
एवमश्रुतषाड्गुण्यो न मन्त्रं श्रोतुमर्हति ॥ KK05-03-038-023c
स्थानवृद्धिक्षयज्ञस्य षाड्गुण्यविदितात्मनः । KK05-03-038-024a
अनवज्ञातशीलस्य स्वाधीना पृथिवी नृप ॥ KK05-03-038-024c
अमोघक्रोधहर्षस्य स्वयं कृत्वान्ववेक्षिणः । KK05-03-038-025a
आत्मप्रत्ययकोशस्य वसुदैव वसुन्धरा ॥ KK05-03-038-025c
नाममात्रेणा तुष्येत छत्रेण च महीपतिः । KK05-03-038-026a
भृत्येभ्यो विसृजेदर्थान्नैकः सर्वहरो भवेत् ॥ KK05-03-038-026c
ब्राह्मणं ब्राह्मणो वेद भर्ता वेद स्त्रियं तथा । KK05-03-038-027a
अमात्यं नृपतिर्वेद राजा राजानमेव च ॥ KK05-03-038-027c
न शत्रुर्वशमापन्नो मोक्तव्यो वध्यतां गतः । KK05-03-038-028a
न्यग्भूत्वा पर्युपासीत वध्यं हन्याद्बले सति ॥ KK05-03-038-028c
अहताद्धि भयं तस्माज्जायते नचिरादिव ॥ KK05-03-038-029ac
दैवतेषु प्रयत्नेन राजसु ब्राह्मणेषु च । KK05-03-038-030a
नियन्तव्यः सदा क्रोधो वृद्धबालातुरेषु च ॥ KK05-03-038-030c
निरर्थं कलहं प्राज्ञो वर्जयेन्मूढसेवितम् । KK05-03-038-031a
कीर्तिं च लभते लोके न चानर्थेन युज्यते ॥ KK05-03-038-031c
प्रसादो निष्फलो यस्य क्रोधश्चापि निरर्थकः । KK05-03-038-032a
न तं भर्तारमिच्छन्ति षण्ढं पतिमिव स्त्रियः ॥ KK05-03-038-032c
न बुद्धिर्धनलाभाय न जाड्यमसमृद्धये । KK05-03-038-033a
लोकपर्यायवृत्तान्तं प्राज्ञो जानाति नेतरः ॥ KK05-03-038-033c
विद्याशीलवयोवृद्धान्बुद्धिवृद्धांश्च भारत । KK05-03-038-034a
धनाभिजातवृद्धांश्च नित्यं मूढोऽवमन्यते ॥ KK05-03-038-034c
अनार्यवृत्तमप्राज्ञमसूयकमधार्मिकम् । KK05-03-038-035a
अनर्थाः क्षिप्रमायान्ति वाग्दुष्टं क्रोधनं तथा ॥ KK05-03-038-035c
अविसंवादनं दानं समयस्याव्यतिक्रमः । KK05-03-038-036a
आवर्तयन्ति भूतानि सम्यक्प्रणिहिता च वाक् ॥ KK05-03-038-036c
अविसंवादको दक्षः कृतज्ञो मतिमानृजुः । KK05-03-038-037a
अपि सङ्क्षीणकोशोऽपि लभते परिवारणम् ॥ KK05-03-038-037c
धृतिः शमो दमः शौचं कारुण्यं वागनिष्ठुरा । KK05-03-038-038a
मित्राणां चानभिद्रोहः सप्तैताः समिधः श्रियः ॥ KK05-03-038-038c
असंविभागी दुष्टात्मा कृतघ्नो निरपत्रपः । KK05-03-038-039a
तादृङ्नराधिपो लोके वर्जनीयो नराधिप ॥ KK05-03-038-039c
न च रात्रौ सुखं शेते ससर्प इव वेश्मनि । KK05-03-038-040a
यः कोपयति निर्दोषं सदोषोऽभ्यन्तरं जनम् ॥ KK05-03-038-040c
येषु दुष्टेषु दोषः स्याद्योगक्षेमस्य भारत । KK05-03-038-041a
सदा प्रसादनं तेषां देवतानामिवाचरेत् ॥ KK05-03-038-041c
येऽर्थाः स्त्रीषु समायुक्ताः प्रमत्तपतितेषु च । KK05-03-038-042a
ये चानार्ये समासक्ताः सर्वे ते संशयं गताः ॥ KK05-03-038-042c
यत्र स्त्री यत्र कितवो बालो यत्रानुशासिता । KK05-03-038-043a
मज्जन्ति तेऽवशा राजन्नद्यामश्मप्लवा इव ॥ KK05-03-038-043c
प्रयोजनेषु ये सक्ता न विशेषेषु भारत । KK05-03-038-044a
तानहं पण्डितान्मन्ये विशेषा हि प्रसङ्गिनः ॥ KK05-03-038-044c
यं प्रशंसन्ति कितवा यं प्रशंसन्ति चारणाः । KK05-03-038-045a
यं प्रशंसन्ति बन्धक्यो न स जीवति मानवः ॥ KK05-03-038-045c
हित्वा तान्परमेष्वासान्पाण्डवानमितौजसः । KK05-03-038-046a
आहितं भारतैश्वर्यं त्वया दुर्योधने महत् ॥ KK05-03-038-046c
तं द्रक्ष्यसि परिभ्रष्टं तस्मात्त्वमचिरादिव । KK05-03-038-047a
ऐश्वर्यमदसम्मूढं बलिं लोकत्रयादिव ॥ ॥ KK05-03-038-047c
इति श्रीमन्महाभारते उद्योगपर्वणि प्रजागरपर्वणि अष्टत्रिंशोऽध्यायः ॥
5-38-1 आयति आगच्छति ॥ 5-38-2 निर्णिज्य प्रक्षाल्य । आत्मसंस्थां स्वस्थितिम् ॥ 5-38-4 अवकीर्णी नष्टब्रह्मचर्यः । नोदकार्ह उदकमात्रानर्होऽपि अतिथिः भृशं प्रियः ॥ 5-38-15 सर्वतश्चक्षुश्चारेः परमन्त्रं जानन् ॥ 5-38-17 निःशलाके रहसि ॥ 5-38-20 पारिषादाः सभासदः ॥ 5-38-23 षाड्गुण्यं षण्णां सन्धिविग्रहयानासनद्वैधीभावसमाश्रयाणां समूहः न श्रुतो येन सः ॥ 5-38-25 आत्मनैव प्रत्ययो ज्ञानं यस्य स्वयमेव ज्ञातकोशस्य ॥ 5-38-26 नाममात्रेणैव राजा भवेत् । भोगांस्तु भृत्यैः समानानेव भुञ्जीत ॥ 5-38-36 आवर्तयन्ति शत्रूनपि स्वीयान्कुर्वन्ति । प्रणिहिता प्रयुक्ता ॥ 5-38-37 परिवारणं परिवारान् भृत्यमित्रादीन् ॥ 5-38-38 समिधः उद्दीपिकाः ॥ 5-38-39 असंविभागी पोष्येभ्योऽदत्त्वा स्वयं भुञ्जानः ॥ 5-38-44 ये भृत्याः विशेषा आधिक्यानि । प्रसङ्गिनः प्रसङ्गः सङ्घर्षस्तत्कारिणः ॥