अध्यायः 035

विदुरेण धृतराष्ट्रम् प्रति सुधन्वविरोचनसंवादादिकथनपूर्वकम् पाण्डवेषु पुत्रतौल्येन वृत्तिविधानम् ॥ 1 ॥ धृतराष्ट्र उवाच KK05-03-035-001
ब्रूहि भूयो महाबुद्धे धर्मार्थसहितं वचः । KK05-03-035-001a
शृण्वतो नास्ति मे तृप्तिर्विचित्राणीह भाषसे ॥ KK05-03-035-001c
विदुर उवाच KK05-03-035-002
सर्वतीर्थेषु वा स्नानं सर्वभूतेषु चार्जवम् । KK05-03-035-002a
उभे त्वेते समे स्यातामार्जवं वा विशिष्यते । KK05-03-035-002c
आर्जवं प्रतिपद्यस्व पुत्रेषु सततं विभो । KK05-03-035-003a
इह कीर्तिं परां प्राप्य प्रेत्य स्वर्गमवाप्स्यसि ॥ KK05-03-035-003c
यावत्कीर्तिर्मनुष्यस्य पुण्या लोके प्रगीयते । KK05-03-035-004a
तावत्स पुरुषव्याघ्र स्वर्गलोके महीयते ॥ KK05-03-035-004c
अत्राप्युदाहरन्तीममितिहासं पुरातनम् । KK05-03-035-005a
विरोचनस्य संवादं केशिन्यर्थे सुधन्वना ॥ KK05-03-035-005c
स्वयंवरे स्थिता कन्या केशिनी नाम नामतः । KK05-03-035-006a
रूपेणाप्रतिमा राजन्विशिष्टपतिकाम्यया ॥ KK05-03-035-006c
विरोचनोऽथ दैतेयस्तदा तत्राजगाम ह । KK05-03-035-007a
प्राप्तुमिच्छंस्ततस्तत्र दैत्येन्द्रं प्राह केशिनी ॥ KK05-03-035-007c
केशिन्युवाच KK05-03-035-008
किं ब्राह्मणाः स्विच्छ्रेयांसो दितिजाः स्विद्विरोचन । KK05-03-035-008a
अथ केन स्म पर्यङ्कं सुधन्वा नाधिरोहति ॥ KK05-03-035-008c
विरोचन उवाच KK05-03-035-009
प्राजापत्यास्तु वै श्रेष्ठा वयं केशिनि सत्तमाः । KK05-03-035-009a
अस्माकं खल्विमे लोकाः के देवाः के द्विजातयः ॥ KK05-03-035-009c
केशिन्युवाच KK05-03-035-010
इहैवावां प्रतीक्षाव उपस्थाने विरोचन । KK05-03-035-010a
सुधन्वा प्रातरागन्ता पश्येयं वां समागतौ ॥ KK05-03-035-010c
विरोचन उवाच KK05-03-035-011
तथा भद्रे करिष्यामि यथा त्वं भीरु भाषसे । KK05-03-035-011a
सुधन्वानं च मां चैव प्रातर्द्रष्टासि सङ्गतौ ॥ KK05-03-035-011c
विदुर उवाच KK05-03-035-012
अतीतायां च शर्वर्यामुदिते सूर्यमण्डले । KK05-03-035-012a
अथाजगाम तं देशं सुधन्वा राजसत्तम । KK05-03-035-012c
विरोचनो यत्र विभो केशिन्या सहितः स्थितः ॥ KK05-03-035-012e
सुधन्वा च समागच्छत्प्राह्लादिं केशिनीं तथा । KK05-03-035-013a
समागतं द्विजं दृष्ट्वा केशिनी भरतर्षभ । KK05-03-035-013c
प्रत्युत्थायासनं तस्मै पाद्यमर्घ्यं ददौ पुनः ॥ KK05-03-035-013e
'इति होवाच वचनं विरोचनमनुत्तमम् । KK05-03-035-014a
आस्स्व तल्पे हि सौवर्णे प्राह्लादे ब्राह्मणस्त्वहम् ॥' KK05-03-035-014c
अन्वालभे हिरण्मयं प्राह्लादे ते वरासनम् । KK05-03-035-015a
एकत्वमुपसम्पन्नो नत्वासेऽहं त्वया सह ॥ KK05-03-035-015c
विरोचन उवाच KK05-03-035-016
तवार्हते तु फलकं कूर्चं वाप्यथवा बृसी । KK05-03-035-016a
सुधन्वन्न त्वमर्होऽसि मया सह समासनम् ॥ KK05-03-035-016c
सुधन्वोवाच KK05-03-035-017
पितापुत्रौ सहासीतां द्वौ विप्रौ क्षत्रियावपि । KK05-03-035-017a
वृद्धौ वैश्यौ च शूद्रौ च न त्वन्यावितरेतरम् ॥ KK05-03-035-017c
पिता हि ते समासीनमुपासीतैव मामधः । KK05-03-035-018a
बालः सुखैधितो गेहे न त्वं किञ्चन बुध्यसे ॥ KK05-03-035-018c
विरोचन उवाच KK05-03-035-019
हिरण्यं च गवाश्वं च यद्वित्तमसुरेषु नः । KK05-03-035-019a
सुधन्वन्विपणे तेन प्रश्नं पृच्छाव ये विदुः ॥ KK05-03-035-019c
सुधन्वोवाच KK05-03-035-020
हिरण्यं च गवाश्वं च तवैवास्तु विरोचन । KK05-03-035-020a
प्राणयोस्तु पणं कृत्वा प्रश्नं पृच्छाव ये विदुः ॥ KK05-03-035-020c
विरोचन उवाच KK05-03-035-021
आवां कुत्र गमिष्यावः प्राणयोर्विपणे कृते । KK05-03-035-021a
न तु देवेष्वहं स्थाता न मनुष्येषु कर्हिचित् ॥ KK05-03-035-021c
सुधन्वोवाच KK05-03-035-022
पितरं ते गमिष्यावः प्राणयोर्विपणे कृते । KK05-03-035-022a
पुत्रस्यापि स हेतोर्हि प्रह्लादो नानृतं वदेत् ॥ KK05-03-035-022c
विदुर उवाच KK05-03-035-023
एवं कृतपणौ क्रुद्धौ तत्राभिजग्मतुस्तदा । KK05-03-035-023a
विरोचनसुधन्वानौ प्रह्लादौ यत्र तिष्ठति ॥ KK05-03-035-023c
प्रह्लाद उवाच KK05-03-035-024
इमौ तौ सम्प्रदृश्येते याभ्यां न चरितं सह । KK05-03-035-024a
आशीविषाविव क्रुद्धावेकमार्गाविहागतौ ॥ KK05-03-035-024c
किं वै सहैवं चरथो न पुरा चरथः सह । KK05-03-035-025a
विरोचनैतत्पृच्छामि किं ते सख्यं सुधन्वना ॥ KK05-03-035-025c
विरोचन उवाच KK05-03-035-026
न मे सुधन्वना सख्यं प्राणयोर्विपणावहे । KK05-03-035-026a
प्रह्लाद तत्त्वं पृच्छामि मा प्रश्नमनृतं वदेः ॥ KK05-03-035-026c
प्रह्लाद उवाच KK05-03-035-027
उदकं मधुपर्कं चाप्यानयन्तु सुधन्वने । KK05-03-035-027a
ब्रह्मन्नभ्यर्चनीयोऽसि श्वेता गौः पीवरी कृता ॥ KK05-03-035-027c
सुधन्वोवाच KK05-03-035-028
उदकं मधुपर्कं च प्रश्नवाचार्पितं मम । KK05-03-035-028a
प्रह्लाद त्वं तु मे तथ्यं प्रश्नं प्रब्रूहि पृच्छतः । KK05-03-035-028c
किं ब्राह्मणाः स्विच्छ्रेयांस उताहो स्विद्विरोचनः ॥ KK05-03-035-028e
प्रह्लाद उवाच KK05-03-035-029
'न कल्माषो न कपिलो न कृष्णो न च लोहितः । KK05-03-035-029a
अणीयान्क्षुरधारायाः को धर्मं वक्तुमर्हति । KK05-03-035-029c
अभिवाद्यो भवान्ब्रह्मन्साक्ष्ये चैव नियोजितः ॥' KK05-03-035-029e
पुत्र एको मम ब्रह्मंस्त्वं च साक्षादिहास्थितः । KK05-03-035-030a
तयोर्विवदतोः प्रश्नं कथमस्मद्विधो वदेत् ॥ KK05-03-035-030c
सुधन्वोवाच KK05-03-035-031
'यदेतत्त्वं न वक्ष्यसि यदि वापि विवक्ष्यसि । KK05-03-035-031a
प्रह्लाद प्रश्नमतुलं मूर्धा ते विफलिष्यति ॥ KK05-03-035-031c
विदुर उवाच KK05-03-035-032
आदित्येन सहायान्तं प्रह्लादो हंसमब्रवीत् । KK05-03-035-032a
धृतराष्ट्र महाप्राज्ञ सर्वज्ञं सर्वदर्शिनम् ॥ KK05-03-035-032c
प्रह्लाद उवाच KK05-03-035-033
पुत्रो वाऽन्यो भवेद्ब्रह्मन्साक्ष्ये चापि भवेत्स्थितः । KK05-03-035-033a
तयोर्विवदतोर्हंस कथं धर्मः प्रवर्तते ॥ KK05-03-035-033c
हंस उवाच ' KK05-03-035-034
गां प्रदद्यादौरसाय यद्वान्यत्स्यात्प्रियं धनम् । KK05-03-035-034a
द्वयोर्विवदतो राजन्प्रश्नं सत्यं यथा वदेत् ॥ KK05-03-035-034c
प्रह्लाद उवाच KK05-03-035-035
अथ यो नैव प्रब्रूयात्सत्यं वा यदि वाऽनृतम् । KK05-03-035-035a
हंस तत्वं च पृच्छामि कियदेनः करोति सः ॥ KK05-03-035-035c
'हंस उवाच KK05-03-035-036
पृष्टो धर्मं न विब्रूयाद्गोकर्णशिथिलं चरन् । KK05-03-035-036a
धर्माद्भ्रश्यति राजंस्तु नास्य लोकोऽस्ति न प्रजाः । KK05-03-035-036c
धर्म एतान्संरुजति यथा नद्यस्तु कूलजान् । KK05-03-035-037a
ये धर्ममनुपश्यन्तस्तूष्णीं ध्यायन्त आसते ॥ KK05-03-035-037c
श्रेष्ठोऽर्धं तु हरेत्तत्र भवेत्पादश्च कर्तरि । KK05-03-035-038a
पादस्तेषु सभासत्सु यत्र निन्द्यो न निन्द्यते ॥ KK05-03-035-038c
अनेना भवति श्रेष्ठो मुच्यन्तेऽपि सभासदः । KK05-03-035-039a
कर्तारमेनो गच्छेद्वा निन्द्यो यत्र हि निन्द्यते ॥ KK05-03-035-039c
प्रह्लाद उवाच KK05-03-035-040
मोहाद्वा चैव कामाद्वा मिथ्यावादं यदि ब्रुवन् । KK05-03-035-040a
धृतराष्ट्र तत्वं पृच्छामि दुर्विवक्ता तु किं वसेत् ॥ KK05-03-035-040c
हंस उवाच ' KK05-03-035-041
यां रात्रिमधिविन्ना स्त्री यां चैवाक्षपराजितः । KK05-03-035-041a
यां च भाराभितप्ताङ्गो दुर्विवक्ता तु तां वसेत् ॥ KK05-03-035-041c
नगरे प्रतिरुद्धः सन्बहिर्द्वारे बुभुक्षितः । KK05-03-035-042a
अमित्रान्भूयसः पश्यन्दुर्विवक्ता तु तां वसेत् ॥ KK05-03-035-042c
यां च रात्रिमभिद्रुग्धो यां च मित्रे प्रियेऽनृते । KK05-03-035-043a
सर्वस्वेन च हीनो यो दुर्विवक्ता तु तां वसेत् ॥ KK05-03-035-043c
पञ्च पश्वनृते हन्ति दश हन्ति गवानृते । KK05-03-035-044a
शतमश्वानृते हन्ति सहस्रं पुरुषानृते ॥ KK05-03-035-044c
हन्ति जातानजातांश्च हिरण्यार्थेऽनृतं वदन् । KK05-03-035-045a
सर्वं भूम्यनृते हन्ति मा स्म भूम्यनृतं वदेः ॥ KK05-03-035-045c
प्रह्लाद उवाच KK05-03-035-046
मत्तः श्रेयानङ्गिरा वै सुधन्वा त्विद्वरोचन । KK05-03-035-046a
मातास्य श्रेयसी मातुस्तस्मात्त्वं तेन वै जितः ॥ KK05-03-035-046c
विरोचन सुधन्वाऽयं प्राणानामीश्वरस्तव । KK05-03-035-047a
सुधन्वन्पुनरिच्छामि त्वया दत्तं विरोचनम् ॥ KK05-03-035-047c
सुधन्वोवाच KK05-03-035-048
यद्धर्ममवृणीथास्त्वं न कामादनृतं वदीः । KK05-03-035-048a
पुनर्ददामि ते पुत्रं तस्मात्प्रह्लाद दुर्लभम् ॥ KK05-03-035-048c
एष प्रह्लाद पुत्रस्ते मया दत्तो विरोचनः । KK05-03-035-049a
पादप्रक्षालनं कुर्यात्कुमार्याः सन्निधौ मम ॥ KK05-03-035-049c
विदुर उवाच KK05-03-035-050
तस्माद्राजेन्द्र भूम्यर्थे नानृतं वक्तुमर्हसि । KK05-03-035-050a
मा गमः ससुतामात्यो नाशं पुत्रार्थमब्रुवन् ॥ KK05-03-035-050c
न देवा यष्टिमादाय रक्षन्ति पशुपालवत् । KK05-03-035-051a
यं तु रक्षितुमिच्छन्ति बुद्ध्या संयोजयन्ति तम् ॥ KK05-03-035-051c
यथायथा हि पुरुषः कल्याणे कुरुते मनः । KK05-03-035-052a
तथातथाऽस्य सर्वार्थाः सिद्ध्यन्ते नात्र संशयः ॥ KK05-03-035-052c
नैनं छन्दांसि वृजिनात्तारयन्ति मायाविनं मायया वर्तमानम् । KK05-03-035-053a
नीडं शकुन्ता इव जातपक्षाश्छन्दांस्येनं प्रजहत्यन्तकाले ॥ KK05-03-035-053c
मद्यपानं कलहं पूगवैरं भार्यापत्योरन्तरं ज्ञातिभेदम् । KK05-03-035-054a
राजद्विष्टं स्त्रीपुंसयोर्विवादं वर्ज्यान्याहुर्यश्च पन्थाः प्रदुष्टः ॥ KK05-03-035-054c
सामुद्रिकं वणिजं चोरपूर्वं शलाकधूर्तं च चिकित्सकं च । KK05-03-035-055a
अरिं च मित्रं च कुशीलवं च नैतान्साक्ष्ये त्वधिकृर्वीत सप्त ॥ KK05-03-035-055c
मानाग्निहोत्रमुत मानमौनं मानेनाधीतमुत मानयज्ञः । KK05-03-035-056a
एतानि चत्वार्यभयङ्कराणि भयं प्रयच्छन्त्ययथाकृतानि ॥ KK05-03-035-056c
अगारदाही गरदः कुण्डाशी सोमविक्रयी । KK05-03-035-057a
पर्वकारश्च सूची च मित्रध्रुक्पारदारिकः ॥ KK05-03-035-057c
भ्रूणहा गुरुतल्पी च यश्च स्यात्पानपो द्विजः । KK05-03-035-058a
अतितीक्ष्णश्च कारुश्च नास्तिको वेदनिन्दकः ॥ KK05-03-035-058c
स्रुवप्रग्रहणो व्रात्यः कीनाशश्चात्मवानपि । KK05-03-035-059a
रक्षेत्युक्तश्च यो हिंस्यात्सर्वे ब्रह्महभिः समाः ॥ KK05-03-035-059c
तृणोल्कया ज्ञायते जातरूपं वृत्तेन भद्रो व्यवहारेण साधुः । KK05-03-035-060a
शूरो भयेष्वर्थकृच्छ्रेषु धीरः कृच्छ्रेष्वापत्सु सुहृदश्चारयश्च ॥ KK05-03-035-060c
जरा रूपं हरति हि धैर्यमाशा मृत्युः प्राणान्धर्मचर्यामसूया । KK05-03-035-061a
क्रोधः श्रियं शीलमनार्यसेवा ह्रियं कामः सर्वमेवाभिमानः ॥ KK05-03-035-061c
न क्रोधिनोऽर्थो न नृशंसस्य मित्रं क्रूरस्य न स्त्री सुखिनो न विद्या । KK05-03-035-062a
न कामिनो ह्रीरलसस्य न श्रीः सर्वं तु न स्यादनवस्थितस्य ॥ KK05-03-035-062c
श्रीर्मङ्गलात्प्रभवति प्रागल्भ्यात्सम्प्रवर्धते । KK05-03-035-063a
दाक्ष्यात्तु कुरुते मूलं संयमान्प्रतितिष्ठति ॥ KK05-03-035-063c
अष्टौ गुणाः पुरुषं दीपयन्ति प्रज्ञा च कौल्यं च दमः श्रुतं च । KK05-03-035-064a
पराक्रमश्चाबहुभाषिता च दानं यथाशक्ति कृतज्ञता च ॥ KK05-03-035-064c
एतान्गुणांस्तात महानुभावानेको गुणः संश्रयते प्रसह्य । KK05-03-035-065a
राजा यदा सत्कुरुते मनुष्यं सर्वान्गुणानेष गुणोतिभाति ॥ KK05-03-035-065c
अष्टौ नृपेमानि मनुष्यलोके स्वर्गस्य लोकस्य निदर्शनानि । KK05-03-035-066a
चत्वार्येपामन्ववेतानि सद्भिश्चत्वारि चैषामनुयान्ति सन्तः ॥ KK05-03-035-066c
यज्ञो दानमध्ययनं तपश्च चत्वार्येतान्यन्ववेतानि सद्भिः । KK05-03-035-067a
दमः सत्यमार्जवमानृशंस्यं चत्वार्येतान्यनुयान्ति सन्तः ॥ KK05-03-035-067c
इज्याध्ययनदानानि तपः सत्यं क्षमा घृणा । KK05-03-035-068a
अलोभ इति मार्गोऽयं धर्मस्याष्टविधः स्मृतः ॥ KK05-03-035-068c
तत्र पूर्वचतुर्वर्गो दम्भार्थमपि सेव्यते । KK05-03-035-069a
उत्तरश्च चतुर्वर्गो नामहात्मसु तिष्ठति ॥ KK05-03-035-069c
न सा सभा यत्र न सन्ति वृद्धा न ते वृद्धा ये न वदन्ति धर्मम् । KK05-03-035-070a
नासौ धर्मो यत्र न सत्यमस्ति न तत्सत्यं यच्छलेनानुविद्धम् ॥ KK05-03-035-070c
सत्यं रूपं श्रुतं विद्या कौल्यं शीलं बलं धनम् । KK05-03-035-071a
शौर्यं च चित्रभाष्यं च दशेमे स्वर्गयोनयः ॥ KK05-03-035-071c
पापं कुर्वन्पापकीर्तिः पापमेवाश्नुते फलम् । KK05-03-035-072a
पुण्यं कुर्वन्पापकीर्तिः पुण्यमत्यन्तमश्नुते ॥ KK05-03-035-072c
तस्मात्पापं न कुर्वीत पुरुषः शंसितव्रतः । KK05-03-035-073a
पापं प्रज्ञां नाशयति क्रियमाणं पुनः पुनः ॥ KK05-03-035-073c
नष्टप्रज्ञः पापमेव नित्यमारभते नरः । KK05-03-035-074a
पुण्यं प्रज्ञां वर्धयति क्रियमाणं पुनः पुनः ॥ KK05-03-035-074c
वृद्धप्रज्ञः पुण्यमेव नित्यमारभते नरः । KK05-03-035-075a
पुण्यं कुर्वन्पुण्यकीर्तिः पुण्यं स्थानं स्म गच्छति । KK05-03-035-075c
तस्मात्पुण्यं निषेवेत पुरुषः सुसमाहितः ॥ KK05-03-035-075e
असूयको दन्दशूको निष्ठुरो वैरकृच्छठः । KK05-03-035-076a
स कृच्छ्रं महदाप्नोति नचिरात्पापमाचरन् ॥ KK05-03-035-076c
अनसूयुः कृतप्रज्ञः शोभनान्याचरन्सदा । KK05-03-035-077a
नकृच्छ्रं महदाप्नोति सर्वत्र च विरोचते ॥ KK05-03-035-077c
प्रज्ञामेवागमयति यः प्राज्ञेभ्यः स पण्डितः । KK05-03-035-078a
प्राज्ञो ह्यवाप्य धर्मार्थौ शक्नोति सुखमेधितुम् ॥ KK05-03-035-078c
दिवसेनैव तत्कुर्याद्येन रात्रौ सुखं वसेत् । KK05-03-035-079a
अष्टमासेन तत्कुर्याद्येन वर्षाः सुखं वसेत् ॥ KK05-03-035-079c
पूर्वे वयसि तत्कुर्याद्येन वृद्धः सुखं वसेत् । KK05-03-035-080a
यावज्जीवं तु तत्कुर्याद्येन प्रेत्य सुखं वसेत् ॥ KK05-03-035-080c
जीर्णमन्नं प्रशंसन्ति भार्यां च गतयौवनाम् । KK05-03-035-081a
शूरं विजितसङ्ग्रामं गतपारं तपस्विनम् ॥ KK05-03-035-081c
धनेनाधर्मलब्धेन यच्छिद्रमपिधीयते । KK05-03-035-082a
असंवृतं तद्भवति ततोऽन्यदवदीर्यते ॥ KK05-03-035-082c
गुरुरात्मवतां शास्ता शास्ता राजा दुरात्मनाम् । KK05-03-035-083a
अन्तः प्रच्छन्नपापानां शास्ता वैवस्वतो यमः ॥ KK05-03-035-083c
ऋषीणां च नदीनां च कुलानां च महात्मनाम् । KK05-03-035-084a
प्रभवो नाधिगन्तव्यः स्त्रीणां दुश्चरितस्य च ॥ KK05-03-035-084c
द्विजातिपूजाभिरतो दाता ज्ञातिषु चार्जवी । KK05-03-035-085a
क्षत्रियः शीलभाग्राजंश्चिरं पालयते महीम् ॥ KK05-03-035-085c
सुवर्णपुष्पां पृथिवीं चिन्वन्ति पुरुषास्त्रयः । KK05-03-035-086a
शूरश्च कृतविद्यश्च यश्च जानाति सेवितुम् ॥ KK05-03-035-086c
बुद्धिश्रेष्ठानि कर्माणि बाहुमध्यानि भारत । KK05-03-035-087a
तानि जङ्घाजघन्यानि भारप्रत्यवराणि च ॥ KK05-03-035-087c
दुर्योधनेऽथ शकुनौ मूढे दुःशासने तथा । KK05-03-035-088a
कर्मे चैश्वर्यमाधाय कथं त्वं भूतिमिच्छसि ॥ KK05-03-035-088c
सर्वैर्गुणैरुपेतास्तु पाण्डवा भरतर्षभ । KK05-03-035-089a
पितृवत्त्वयि वर्तन्ते तेषु वर्तस्व पुत्रवत् ॥ ॥ KK05-03-035-089c

इति श्रीमन्महाभारते उद्योगपर्वणि प्रजागरपर्वणि पञ्चत्रिंशोऽध्यायः ॥

5-35-2 आर्जवम् अवैषम्यम् ॥ 5-35-10 इहस्थाने उपस्थाने मामुपस्थातुम् । वां दैत्यब्राह्मणौ अहं पश्येयम् ॥ 5-35-13 समागच्छत् उभयोः सम्मुखम् अगच्छत् ॥ 5-35-14 विरोचनेन सौवर्णे पीठे मया सह उपवेश्यतामिति प्रार्थितः सुधन्वा उवाच ॥ 5-35-15 अन्वालभे स्पृशाम्येव ॥ 5-35-16 फलकं काष्ठपीठम् । कूर्चम् । बृसी वर्तितदर्भमयं पीठं वा । तव अर्हते योग्यं भवति ॥ 5-35-18 उपासीत सेवते । अधः स्थित्वेति शेषः ॥ 5-35-19 प्रश्नम् आवयोः कः श्रेष्ठ इति प्रश्नम् । ये विदुस्तान् पृच्छाव ॥ 5-35-24 सह न चरितं वैरात् ॥ 5-35-27 पीवरी पुष्टा । कुता मधुपर्कार्थम् उपकल्पिता ॥ 5-35-30 नियोजितः अहमिति शेषः ॥ 5-35-39 पगच्छेदिति ड. पाठः ॥ 5-35-40 किं वसेत् कथं वसेत् ॥ 5-35-41 अधिविन्ना कृतसपत्नीका स्त्री तां रात्रिं वसेत्तद्वद्दुःखं प्राप्नुयात् ॥ 5-35-44 पञ्च पूर्वजान् पश्वनृते अजादिपशुहिंसार्थमनृते उक्ते सति हन्ति नाशयति परलोकात् च्यावयति । एवमुत्तरत्र ॥ 5-35-46 अङ्गिराः सुधन्वनः पिता । त्वत् त्वत्तः ॥ 5-35-49 पादप्रक्षालनं हरिद्रया पादधावनम् । कुमार्याः केशिन्याः । विवाहे दम्पत्योः परस्परं हरिद्रया पादधावनं कुर्वन्तीति प्रसिद्धम् । अस्यैव भार्या केशिनी भवत्वित्यर्थः ॥ 5-35-50 अब्रुवन्सत्यमिति शेषः ॥ 5-35-53 छन्दांसि वेदाः 5-35-54 अन्तरं वियोगम् । विवादं वैरप्रवर्तनम् ॥ 5-35- 55 सामुद्रिकं हस्तरेखादिपरीक्षकम् । वणिजं चोरपूर्वं पूर्वं चोरः पश्चाद्विणिक्भूतः तं कूटतुलावन्तं वा । शलाकधूर्तं शलाकया पाशादिना वा शकुनादिकमुक्त्वा योऽन्यान् वञ्चयति तम् । अरिं विपरीतसाक्ष्यभयात् । मित्रं परीक्षकाणामविश्वासात् । कुशीवलं कुत्सितं शीलं वाति अनुसरतीति तम् । नर्तकीदासं विटोन्मत्तादिकं वा । 5-35-53 सत्कर्मद्वारापि तस्य साधुत्वं न मन्तव्यमित्याह मानेति । मानः लोकेषु उत्कर्षः तदर्थान्यग्निहोत्रादीनि भयदानीत्यर्थः । मौनं ध्यानम् ॥ 5-35-57 कुण्डाशी भगभक्षः । जीवति भर्तरि जाराज्जातः कुण्डस्तदन्नाशी । सोमविक्रयी प्रसिद्धः । पर्वकारः शरकृत् आयुधमात्रकर्तेत्यर्थः । सूची सूचको नक्षत्रादीनां परदोषाणाञ्च । ज्यौतिषिकः पिशुनो वा । 5-35-58 कारुः अशुचिः । नास्तिकः परलोकादिद्वेषी ॥ 5-35-59 स्रुवप्रग्रहणो ग्रामपुरोहितः । व्रात्यः अतीतोपनयनकालः पतितसावित्रीको वा । कीनाशः कर्षकः । आत्मवान्समर्थोपि यो रक्षेत्युक्तो हिंस्यात् ॥ 5-35-60 तृणोल्कया तृणज्वालया जातरूपं रूपवद्वस्तु ज्ञायतेऽन्धकारे सति । भद्रे वृषः धर्म इतियावत् । वृत्तेन शीलेन सोस्ति नास्तीति ज्ञायते । व्यवहारेण अहिंसादिप्रधानेन । कृच्छ्रेषु दुर्भिक्षादिसङ्कटेषु ॥ 5-35-63 श्रीरिति । दाक्ष्यं शीघ्रकारित्वम् ॥ 5-35-65 एष गुणो राजसत्कारः ॥ 5-35-66 इमानि वक्ष्यमाणानि । अन्ववेतानि नित्यसंवद्धानि । अनुयान्ति यत्नेन भजन्ति ॥ 5-35-71 रूपं विनयमुद्रा । श्रुतम् अध्ययनम् । विद्या देवताद्युपासनम् । चित्रभाष्यं युक्तियुक्तं वचनम् ॥ 5-35-76 दन्दशूको मर्मच्छेत्ता । निष्ठुरः अप्रियवाक् । नचिरात् शीघ्रम् ॥ 5-35-77 नकृच्छ्रं सुखम् ॥ 5-35-78 आगमयति आनयति ॥ 5-35-79 वर्षा इत्यत्यन्तसंयोगे द्वितीया ॥ 5-35-81 गतपारं प्राप्ततत्त्वम् ॥ 5-35-82 परिपाकसुखं कर्म त्वत्पुत्रा न कुर्वन्ति अन्यायेन च सुखं लिप्सन्ति तत्तु विपरीतमेवेत्याह धनेनेति ॥ 5-35-83 आत्मवतां जितचित्तानाम् । प्रच्छन्नपापो दुर्योधनः ।