अध्यायः 034

धृतराष्ट्रेण दुर्योधनादिश्रेयस्साधनप्रश्ने विदुरेण नीतिकथनपूर्वकं युधिष्ठिराय राज्यदानस्य तत्साधनत्वकथनम् ॥ 1 ॥ धृतराष्ट्र उवाच KK05-03-034-001
जाग्रतो दह्यमानस्य यत्कार्यमनुपश्यसि । KK05-03-034-001a
तद्ब्रूहि त्वं हि नस्तात धर्मार्थकुशलः शुचिः ॥ KK05-03-034-001c
तस्माद्यथावद्विदुर प्रशाधि प्रज्ञापूर्वं सर्वमजातशत्रोः । KK05-03-034-002a
यन्मन्यसे पथ्यमदीनसत्व श्रेयस्करं ब्रूहि तद्वै कुरूणाम् ॥ KK05-03-034-002c
पापाशङ्की पापमेवानुपश्यन्पृच्छामि त्वां व्याकुलेनात्मनाहम् । KK05-03-034-003a
कवे तन्मे ब्रूहि तत्वं यथावन्मनीषितं सर्वमजातशत्रोः ॥ KK05-03-034-003c
विदुर उवाच KK05-03-034-004
शुभं वा यदि वा पापं द्वेष्यं वा यदि वा प्रियम् । KK05-03-034-004a
नापृष्टः कस्यचिद्ब्रूयाद्यः स नेच्छेत्पराभवम् ॥ KK05-03-034-004c
तस्माद्वक्ष्यामि ते राजन्हितं यत्स्यात्कुरून्प्रति । KK05-03-034-005a
वचः श्रेयस्करं धर्म्यं ब्रुवतस्तन्निबोध मे ॥ KK05-03-034-005c
मिथ्योपेतानि कर्माणि सिद्ध्येयुर्यानि भारत । KK05-03-034-006a
अनुपायप्रयुक्तानि मा स्म तेषु मनः कृथाः ॥ KK05-03-034-006c
तथैव योगविहितं यत्तु कर्म न सिध्यति । KK05-03-034-007a
उपाययुक्तं मेधावी न तत्र ग्लपयेन्मनः ॥ KK05-03-034-007c
अनुबन्धानवेक्षेत सानुबन्धेषु कर्मसु । KK05-03-034-008a
सम्प्रधार्य च कुर्वीत सहसा न समाचरेत् ॥ KK05-03-034-008c
अनुबन्धं च सम्प्रेक्ष्य विपाकं चैव कर्मणाम् । KK05-03-034-009a
उत्थानमात्मनश्चैव धीरः कुर्वीत वा न वा ॥ KK05-03-034-009c
यः प्रमाणं न जानाति स्थाने वृद्धौ तथा क्षये । KK05-03-034-010a
कोशे जनपदे दण्डे न स राज्येऽवतिष्ठते ॥ KK05-03-034-010c
यस्त्वेतानि प्रमाणानि यथोक्तान्यनुपश्यति । KK05-03-034-011a
युक्तो धर्मार्थयोर्ज्ञाने स राज्यमधिगच्छति ॥ KK05-03-034-011c
न राज्यं प्राप्तमित्येव वर्तितव्यमसाम्प्रतम् । KK05-03-034-012a
श्रियं ह्यविनयो हन्ति जरा रूपमिवोत्तमम् ॥ KK05-03-034-012c
भक्ष्योत्तमप्रतिच्छन्नं मत्स्यो बडिशमायसम् । KK05-03-034-013a
अन्नाभिलाषी ग्रसते नानुबन्धमवेक्षते ॥ KK05-03-034-013c
यच्छक्यं ग्रसितुं ग्रस्यं ग्रस्तं परिणमेच्च यत् । KK05-03-034-014a
हितं च परिणामे यत्तदाद्यं भूतिमिच्छता ॥ KK05-03-034-014c
वनस्पतेरपक्वानि फलानि प्रचिनोति यः । KK05-03-034-015a
स नाप्नोति रसं तेभ्यो बीजं चास्य विनश्यति ॥ KK05-03-034-015c
यस्तु पक्वमुपादत्ते काले परिणतं फलम् । KK05-03-034-016a
फलाद्रसं स लभते बीजाच्चैव फलं पुनः ॥ KK05-03-034-016c
यथा मधु समादत्ते रक्षन्पुष्पाणि षट्पदः । KK05-03-034-017a
तद्वदर्थान्मनुष्येभ्य आदद्यादविहिंसया ॥ KK05-03-034-017c
पुष्पं पुष्पं विचिन्वीत मूलच्छेदं न कारयेत् । KK05-03-034-018a
मालाकार इवारामे न यथाङ्गारकारकः ॥ KK05-03-034-018c
किं नु मे स्यादिदं कृत्वा किं नु मे स्यादकुर्वतः । KK05-03-034-019a
इति कर्माणि सञ्चिन्त्य कुर्याद्वा पुरुषो न वा ॥ KK05-03-034-019c
अनारभ्या भवन्त्यर्थाः केचिन्नित्यं यथाऽगताः । KK05-03-034-020a
कृतः पुरुषकारोऽहि भवेद्येषु निरर्थकः ॥ KK05-03-034-020c
'अनर्थे चैव निरतमर्थे चैव पराङ्मुखम् । KK05-03-034-021a
न तं भर्तारमिच्छन्ति षण्ढं पतिमिव स्त्रियः ॥ KK05-03-034-021c
प्रसादो निष्फलो यस्य क्रोधश्चापि निरर्थकः । KK05-03-034-022a
न तं भर्तारमिच्छन्ति षण्ढं पतिमिव स्त्रियः ॥ KK05-03-034-022c
कांश्चिदर्थान्नरः प्राज्ञो लघुमूलान्महाफलान् । KK05-03-034-023a
क्षिप्रमारभते कर्तुं न दीर्घयति तादृशान् ॥ KK05-03-034-023c
ऋजु पश्यति यः सर्वं चक्षुषा नु पिबन्निव । KK05-03-034-024a
आसीनमपि तूष्णीकमनुरज्यन्ति तं प्रजाः ॥ KK05-03-034-024c
सुपुष्पितः स्यादफलः फलितः स्याद्दुरारुहः । KK05-03-034-025a
अपक्वः पक्वसङ्काशो न तु शीर्येत कर्हिचित् ॥ KK05-03-034-025c
चक्षुषा मनसा वाचा कर्मणा च चतुर्विधम् । KK05-03-034-026a
प्रसादयति यो लोकं तं लोकोऽनुप्रसीदति ॥ KK05-03-034-026c
यस्मात्त्रस्यन्ति भूतानि मृगव्याधान्मृगा इव । KK05-03-034-027a
सागरान्तामपि महीं लब्ध्वा स परिहीयते ॥ KK05-03-034-027c
पितृपैतामहं राज्यं प्राप्यापि स्वेन कर्मणा । KK05-03-034-028a
वायुरभ्रमिवासाद्य भ्रंशयत्यनये स्थितः ॥ KK05-03-034-028c
धर्ममाचरतो राज्ञः सद्भिश्चरितमादितः । KK05-03-034-029a
वसुधा वसुसम्पूर्णा वर्धते भूतिवर्धनी ॥ KK05-03-034-029c
अथ सन्त्यजतो धर्ममधर्मं चानुतिष्ठतः । KK05-03-034-030a
प्रतिसंवेष्टते भूमिरग्नौ चर्माहितं यथा ॥ KK05-03-034-030c
य एव यत्नः क्रियते परराष्ट्रविमर्दने । KK05-03-034-031a
स एव यत्नः कर्तव्यः स्वराष्ट्रपरिपालने ॥ KK05-03-034-031c
धर्मेण राज्यं विन्देत धर्मेण परिपालयेत् । KK05-03-034-032a
धर्ममूलां श्रियं प्राप्य न जहाति न हीयते ॥ KK05-03-034-032c
अप्युन्मत्तात्प्रलपतो बालाच्च परिजल्पतः । KK05-03-034-033a
सर्वतः सारमादद्यादश्मभ्य इव काञ्चनम् ॥ KK05-03-034-033c
सुव्याहृतानि महतां सुकृतानि ततस्ततः । KK05-03-034-034a
सञ्चिन्वन्धीर आसीत शिलाहारी शिलं यथा ॥ KK05-03-034-034c
गन्धेन गावः पश्यन्ति वेदैः पश्यन्ति ब्राह्मणाः । KK05-03-034-035a
चारैः पश्यन्ति राजानश्चक्षुर्भ्यामितरे जनाः ॥ KK05-03-034-035c
भूयांसं लभते क्लेशं या गौर्भवति दुर्दुहा । KK05-03-034-036a
अथ या सुदुघा राजन्नैव तां वितुदन्त्यपि ॥ KK05-03-034-036c
यदतप्तं प्रणमति न तत्सन्तापमर्हति । KK05-03-034-037a
यच्च स्वयं नतं दारु न तत्सन्नामयेद्बुधः ॥ KK05-03-034-037c
एतयोपमया धीरः सन्नमेत बलीयसे । KK05-03-034-038a
इन्द्राय स प्रणमते नमते यो बलीयसे ॥ KK05-03-034-038c
पर्जन्यनाथाः पशवो राजानो मन्त्रिबान्धवाः । KK05-03-034-039a
पतयो बान्धवाः स्त्रीणां ब्राह्मणा वेदबान्धवाः ॥ KK05-03-034-039c
सत्येन रक्ष्यते धर्मो विद्या योगेन रक्ष्यते । KK05-03-034-040a
मृजया रक्ष्यते रूपं कुलं वृत्तेन रक्ष्यते ॥ KK05-03-034-040c
मानेन रक्ष्यते धान्यमश्वान्रक्षेदनुक्रमात् । KK05-03-034-041a
अभीक्ष्णदर्शनाद्गावः स्त्रियो रक्ष्याः कुचेलतः ॥ KK05-03-034-041c
न कुलं वृत्तहीनस्य प्रमाणमिति मे मतिः । KK05-03-034-042a
अन्तेष्वपि हि जातानां वृत्तमेव विशिष्यते ॥ KK05-03-034-042c
य ईर्षुः परवित्तेषु रूपे वीर्ये कुलान्वये । KK05-03-034-043a
सुखसौभाग्यसत्कारे तस्य व्याधिरनन्तकः ॥ KK05-03-034-043c
अकार्यकरणाद्भीतः कार्याणां च विवर्जनात् । KK05-03-034-044a
अकाले मन्त्रभेदाच्च येन माद्येन्न तत्पिबेत् ॥ KK05-03-034-044c
विद्यामदो धनमदस्तृतीयोऽभिजनो मदः । KK05-03-034-045a
मदा एतेऽवलिप्तानामेत एव सतां दमाः ॥ KK05-03-034-045c
असन्तोऽभ्यर्थिताः सद्भिः क्वचित्कार्ये कदाचन । KK05-03-034-046a
मन्यन्ते सन्तमात्मानमसन्तमपि विश्रुतम् ॥ KK05-03-034-046c
गतिरात्मवतां सन्तः सन्त एव सतां गतिः । KK05-03-034-047a
असतां च गतिः सन्तो न त्वसन्तः सतां गतिः ॥ KK05-03-034-047c
जिता सभा वस्त्रवता मिष्टाशा गोमता जिता । KK05-03-034-048a
अध्वा जितो यानवता सर्वं शीलवता जितम् ॥ KK05-03-034-048c
शीलं प्रधानं पुरुषे तद्यस्येह प्रणश्यति । KK05-03-034-049a
न तस्य जीवितेनार्थो न धनेन न बन्धुभिः ॥ KK05-03-034-049c
आढ्यानां मांसपरमं मध्यानां गोरसोत्तरम् । KK05-03-034-050a
तैलोत्तरं दरिद्राणां भोजनं भरतर्षभ ॥ KK05-03-034-050c
सम्पन्नतरमेवान्नं दरिद्रा भुञ्जते सदा । KK05-03-034-051a
क्षुत्स्वादुतां जनयति सा चाढ्येषु सुदुर्लभा ॥ KK05-03-034-051c
प्रायेण श्रीमतां लोके भोक्तुं शक्तिर्न विद्यते । KK05-03-034-052a
जीर्यन्त्यपि हि काष्ठानि दरिद्राणां महीपते ॥ KK05-03-034-052c
अवृत्तिर्भयमन्त्यानां मध्यानां मरणाद्भयम् । KK05-03-034-053a
उत्तमानां तु मर्त्यानामवमानात्परं भयम् ॥ KK05-03-034-053c
ऐश्वर्यमदपापिष्ठा मदाः पानमदादयः । KK05-03-034-054a
ऐश्वर्यमदमत्तो हि नो पतित्वाऽवबुध्यते ॥ KK05-03-034-054c
इन्द्रियैरिन्द्रियार्थेषु वर्तमानैरनिग्रहैः । KK05-03-034-055a
तैरयं ताप्यते लोको नक्षत्राणि ग्रहैरिव ॥ KK05-03-034-055c
यो जितः पञ्चवर्गेण सहजेनात्मकर्षिणा । KK05-03-034-056a
आपदस्तस्य वर्धन्ते शुक्लपक्ष इवोडुराट् ॥ KK05-03-034-056c
अविजित्य य आत्मानममात्यान्विजिगीषते । KK05-03-034-057a
अमित्रान्वा जितामात्यः सोऽवशः परिहीयते ॥ KK05-03-034-057c
आत्मानमेव प्रथमं द्वेष्यरूपेण योजयेत् । KK05-03-034-058a
ततोऽमात्यानमित्रांश्च न मोघं विजिगीषते ॥ KK05-03-034-058c
वश्येन्द्रियं जितामात्यं धृतदण्डं विकारिषु । KK05-03-034-059a
परीक्ष्यकारिणं धीरमत्यन्तं श्रीर्निषेवते ॥ KK05-03-034-059c
रथः शरीरं पुरुषस्य राजन्नात्मा नियन्तेन्द्रियाण्यस्य चाश्वाः । KK05-03-034-060a
तैरप्रमत्तः कुशली सदश्वैर्दान्तैः सुखं याति रथीव धीरः ॥ KK05-03-034-060c
एतान्यनिगृहीतानि व्यापादयितुमप्यलम् । KK05-03-034-061a
अविधेया इवादान्ताः सरथं सारथिं हयम् ॥ KK05-03-034-061c
अनर्थमर्थतः पश्यन्नर्थं चैवाप्यनर्थतः । KK05-03-034-062a
इन्द्रियैरजितैर्बालः सुदुःखं मन्यते सुखम् ॥ KK05-03-034-062c
धर्मार्थौ यः परित्यज्य स्यादिन्द्रियवशानुगः । KK05-03-034-063a
श्रीप्राणधनदारेभ्यः क्षिप्रं स परिहीयते ॥ KK05-03-034-063c
अर्थानामीश्वरो यः स्यादिन्द्रियाणामनीश्वरः । KK05-03-034-064a
इन्द्रियाणामनैश्वर्यादैश्वार्याद्भ्रश्यते हि सः ॥ KK05-03-034-064c
आत्मनात्मानमन्विच्छेन्मनोबुद्धीन्द्रियैर्यतैः । KK05-03-034-065a
आत्मा ह्येवात्मनो बन्धुरात्मैव रिपुरात्मनः ॥ KK05-03-034-065c
बन्धुरात्मात्मनस्तस्य येनैवात्मात्मना जितः । KK05-03-034-066a
स एव नियतो बन्धुः स एव नियतो रिपुः ॥ KK05-03-034-066c
क्षुद्राक्षेणेव जालेन झषावपिहितावुरू । KK05-03-034-067a
कामश्च राजन्क्रोधश्च तौ प्रज्ञानं विलुम्पतः ॥ KK05-03-034-067c
समवेक्ष्येह धर्मार्थौ सम्भारान्योऽधिगच्छति । KK05-03-034-068a
स वै सम्भृतसम्भारः सततं सुखमेधते ॥ KK05-03-034-068c
यः पञ्चाभ्यन्तराञ्शत्रूनविजित्य मनोमयान् । KK05-03-034-069a
जिगीषति रिपूनन्यान्रिपवोऽभिभवन्ति तम् ॥ KK05-03-034-069c
दृश्यन्ते हि महात्मानो बध्यमानाः स्वकर्मभिः । KK05-03-034-070a
इन्द्रियाणामनीशत्वाद्राजानो राज्यविभ्रमैः ॥ KK05-03-034-070c
असन्त्यागात्पापकृतामपापांस्तुल्यो दण्डः स्पृशते मिश्रभावात् । KK05-03-034-071a
शुष्केणार्द्रं दह्यते मिश्रभावात्तस्मात्पापैः सह सन्धिं न कुर्यात् ॥ KK05-03-034-071c
निजानुत्पततः शत्रून्पञ्च पञ्चप्रयोजनान् । KK05-03-034-072a
यो मोहान्न निगृह्णाति तमापद्ग्रसते नरम् ॥ KK05-03-034-072c
अनसूयार्जवं शौचं सन्तोषः प्रियवादिता । KK05-03-034-073a
दमः सत्यमनायासो न भवन्ति दुरात्मनाम् ॥ KK05-03-034-073c
आत्मज्ञानमनायासस्तितिक्षा धर्मनित्यता । KK05-03-034-074a
वाक्चैव गुप्ता दानं च नैतान्यन्त्येषु भारत ॥ KK05-03-034-074c
आक्रोशपरिवादाभ्यां विहिंसन्त्यबुधा बुधान् । KK05-03-034-075a
वक्ता पापमुपादत्ते क्षममाणो विमुच्यते ॥ KK05-03-034-075c
हिंसा बलमसाधूनां राज्ञां दण्डविधिर्बलम् । KK05-03-034-076a
शुश्रूषा तु बलं स्त्रीणां क्षमा गुणवतां बलम् ॥ KK05-03-034-076c
वाक्संयमो हि नृपते सुदुष्करतमो मतः । KK05-03-034-077a
अर्थवच्च विचित्रं च न शक्यं बहु भाषितुम् ॥ KK05-03-034-077c
अभ्यावहति कल्याणं विविधं वाक् सुभाषिता । KK05-03-034-078a
सैव दुर्भाषिता राजन्ननर्थायोपपद्यते ॥ KK05-03-034-078c
रोहते सायकैर्विद्धं वनं परशुना हतम् । KK05-03-034-079a
वाचा दुरुक्तं बीभत्सं न संरोहति वाक्क्षतम् ॥ KK05-03-034-079c
कर्णिनालीकनाराचान्निर्हरन्ति शरीरतः । KK05-03-034-080a
वाक्छल्यस्तु न निर्हर्तुं शक्यो हृदिशयो हि सः ॥ KK05-03-034-080c
वाक्सायका वदनान्निष्पतन्ति यैराहतः शोचति रात्र्यहानि । KK05-03-034-081a
परस्य नामर्मसु ते पतन्ति तान्पण्डितो नावसृजेत्परेभ्यः ॥ KK05-03-034-081c
यस्मै देवाः प्रयच्छन्ति पुरुषाय पराभवम् । KK05-03-034-082a
बुद्धिं तस्यापकर्षन्ति सोऽवाचीनानि पश्यति ॥ KK05-03-034-082c
बुद्धौ कलुषभूतायां विनाशे प्रत्युपस्थिते । KK05-03-034-083a
अनयो नयसङ्काशो हृदयान्नापसर्पति ॥ KK05-03-034-083c
सेयं बुद्धिः परीता ते पुत्राणां भरतर्षभ । KK05-03-034-084a
पाण्डवानां विरोधेन न चैनानवबुध्यसे ॥ KK05-03-034-084c
राजा लक्षणसम्पन्नस्त्रैलोक्यस्यापि यो भवेत् । KK05-03-034-085a
शिष्यस्ते शासिता सोऽस्तु धृतराष्ट्र युधिष्ठिरः ॥ KK05-03-034-085c
अतीव सर्वान्पुत्रांस्ते भागधेयपुरस्कृतः । KK05-03-034-086a
तेजसा प्रज्ञया चैव युक्तो धर्मार्थतत्त्ववित् ॥ KK05-03-034-086c
अनुक्रोशादानृशंस्याद्योऽसौ धर्मभृतां वरः । KK05-03-034-087a
गौरवात्तव राजेन्द्र बहून्क्लेशांस्तितिक्षति ॥ ॥ KK05-03-034-087c

इति श्रीमन्महाभारते उद्योगपर्वणि प्रजागरपर्वणि चतुस्त्रिंशोऽध्यायः ॥

5-34-1 दह्यमानस्य चिन्ताग्निनेति शेषः ॥ 5-34-2 अजातशत्रोः पथ्यं कुरूणाञ्च श्रेयस्करम् ॥ 5-34-3 पापाशङ्की भाविदुःखादुद्विजन् । पापं स्वकृतं पूर्वापराधं पश्यन् ॥ 5-34-6 मिथ्योपेतानि कपटद्यूतादीनि । अनुपायैः असदुपायैः प्रयुक्तानि दुःखफलानीत्यर्थः ॥ 5-34-8 अनुबन्धान् प्रयोजनानि ॥ 5-34-12 असाम्प्रतम् अयुक्तं यथा स्यात्तथा न वर्तितव्यम् ॥ 5-34-13 मुखे मिष्टमन्ते मृत्युदं कर्म न कर्तव्यमित्यर्थः । अनुबन्धे पश्चाद्बन्धनम् ॥ 5-34-14 आद्यं भक्षणीयम् ॥ 5-34-18 अङ्गारकारको हि मूलत उत्कृत्य काष्ठं दहति । अङ्गार इङ्गालः ॥ 5-34-20 अनारभ्याः प्रबलैः सह वैरादयः । अगताः कदाचिदप्यप्राप्ताः ॥ 5-34- 23 लघुमूलान् अल्पोपायान् ॥ 5-34- 25 सुपुष्पितः वाचा चक्षुषा चानुग्रहं दर्शयन्नपि अफलः स्यात् । भृत्ये न धनेन वर्धयेत् । सफलोपि सन् दुरारुहः भृत्यवश्यो न भवेत् । अपक्व इति । अन्तर्बलहीनोऽपि बलवत्तां बहिः प्रकाशयेदेवेत्यर्थः ॥ 5-34-26 कर्मणा दानेन । लोकं भृत्यवर्गम् ॥ 5-34-29 आदितः आदिकालात् सद्भिराचरितं धर्ममाचरत इत्यन्वयः ॥ 5-34-30 प्रतिसंवेष्टते सङ्कुचति । बहुफलं न प्रयच्छतीत्यर्थः ॥ 5-34-32 न जहाति श्रियम् ॥ 5-34-34 सुव्याहृतानि पाण्डित्यवचनानि सुकृतानि तदुपदिष्टकर्माणि । शिलं कणिशाद्यर्जनम् ॥ 5-34-40 योगेन अभ्यासेन । मृजया उद्वर्तनेन ॥ 5-34-41 अनुक्रमः व्यायामशिक्षादिः । मानं द्रोणादि ॥ 5-34-42 प्रमाणं धर्मस्य कारणम् ॥ 5-34-44 अकाले इष्टसिद्धः प्राक् भीतः स्यात् । येन माद्येत् लोभादिना तन्न पिबेत् नाश्रयेत् ॥ 5-34-45 अभिजनः सहायः ॥ 5-34-51 सम्पन्नं मिष्टम् ॥ 5-34-53 शीलाभावे सत्सु अवमानो महान् क्लेश इत्याह अवृत्तीति ॥ 5-34-54 ऐश्वर्यमदः पापिष्ठो निन्दिततमो येभ्यस्ते पानमदादयो मदाः ॥ 5-34-55 इन्द्रियार्थेषु शब्दादिषु ग्रहैः सूर्यादिभिः ॥ 5-34-56 पञ्चवर्गः श्रोत्रादिगणः ॥ 5-34-58 आत्मानं मनः ॥ 5-34-61 व्यापादयितुं नाशयितुम् । अविधेयाः अवशाः ॥ 5-34-62 अर्थतोऽर्थहेतोः । अनर्थतः अन्यायतः ॥ 5-34-67 क्षुद्राक्षेण सूक्ष्मछिद्रेण प्रज्ञानं तौ नाशयतः । जालमिव महामीनावित्यर्थः ॥ 5-34-68 समवेक्ष्य अनुरुध्य । सम्भारान् जयसाधनानि ॥ 5-34-70 राजानो रावणादयः । राज्यविभ्रमैः ऐश्वर्यविलासैः । स्वकर्मभिः सीताहरणादिभिः ॥ 5-34-72 पञ्च इन्द्रियाणि पञ्चप्रयोजनानि शब्दश्रवणादीनि येषां तान् । उत्पततः उत्पथेन गच्छतः ॥ 5-34-73 अनायासः अचाञ्चल्यम् ॥ 5-34-74 तितिक्षा द्वन्द्वसहनशीलता । वाक्गुप्ता असम्बद्धप्रलापाद्रक्षिता । अन्त्येषु नीचेषु ॥ 5-34-75 आक्रोशो रूक्षभाषणम् । परिवादो निन्दा ॥ 5-34-77 वाक्संयमो नियतं वचनम् । विचित्रं चमत्कारयुक्तम् ॥ 5-34-79 बीभत्सं निन्दितं यतो न संरोहति ॥ 5-34-80 कर्णी कर्णाकृतिफलको बाणः । नालीकः नलिकया प्रक्षेप्यो बाणः । निर्हरन्ति निःसारयन्ति ॥ 5-34-81 नामर्मसु किन्तु मर्मस्वेव ॥ 5-34-82 अवाचीनानि नीचकर्माणि ॥ 5-34-85 शिष्यस्ते त्वदाज्ञाकारी । शासिता पृथिव्याः ॥ 5-34-86 भागधेये राज्यांशे पुरस्कृतः 5-34-87 अनुक्रोशात् दयालुत्वात् । आनृशंस्यात् अक्रौर्यात् ॥