अध्यायः 033
धृतराष्ट्रेण रात्रौ विदुरानयनम् ॥ 1 ॥ चिन्तया प्रजागरङ्गतेन धृतराष्ट्रेण दुर्योधनादिसुखोपायप्रश्ने विदुरेण नीतिकथनपूर्वकम् पाण्डवेभ्यो राज्यदानस्य तदुपायत्वकथनम् ॥ 2 ॥
वैशम्पायन उवाच KK05-03-033-001
द्वाःस्थं प्राह महाप्राज्ञो धृतराष्ट्रो महीपतिः । KK05-03-033-001a
विदुरं द्रष्टुमिच्छामि तमिहानय मा चिरम् ॥ KK05-03-033-001c
प्रहितो धृतराष्ट्रेण दूतः क्षत्तारमब्रवीत् । KK05-03-033-002a
ईश्वरस्त्वां महाराजो महाप्राज्ञ दिदृक्षति ॥ KK05-03-033-002c
एवमुक्तस्तु विदुरः प्राप्य राजनिवेशनम् । KK05-03-033-003a
अब्रवीद्धृतराष्ट्राय द्वाःस्थं मां प्रतिवेदय ॥ KK05-03-033-003c
द्वाःस्थ उवाच KK05-03-033-004
विदुरोऽयमनुप्राप्तो राजेन्द्र तव शासनात् । KK05-03-033-004a
द्रष्टुमिच्छति ते पादौ किं करोतु प्रशाधि माम् ॥ KK05-03-033-004c
धृतराष्ट्र उवाच KK05-03-033-005
प्रवेशय महाप्रज्ञं विदुरं दीर्घदर्शिनम् । KK05-03-033-005a
अहं हि विदुरस्यास्य नाकल्पो जातु दर्शने ॥ KK05-03-033-005c
द्वाःस्थ उवाच KK05-03-033-006
प्रविशान्तःपुरं क्षत्तर्महारादजस्य धीमतः । KK05-03-033-006a
न हि ते दर्शनेऽकल्पो जातु राजाऽब्रवीद्धि माम् ॥ KK05-03-033-006c
वैशम्पायन उवाच KK05-03-033-007
ततः प्रविश्य विदुरो धृतराष्ट्रनिवेशनम् । KK05-03-033-007a
अब्रवीत्प्राञ्जलिर्वाक्यं चिन्तयानं नराधिपम् ॥ KK05-03-033-007c
विदुरोऽहं महाप्राज्ञ सम्प्राप्तस्तव शासनात् । KK05-03-033-008a
यदि किञ्चन कर्तव्यमयमस्मि प्रशाधि माम् ॥ KK05-03-033-008c
धृतराष्ट्र उवाच KK05-03-033-009
सञ्जयो विदुर प्राप्तो गर्हयित्वा च मां गतः । KK05-03-033-009a
अजातशत्रोः श्वो वाक्यं सभामध्ये स वक्ष्यति ॥ KK05-03-033-009c
तस्याद्य कुरुवीरस्य न विज्ञातं वचो मया । KK05-03-033-010a
तन्मे दहति गात्राणि तदकार्षीत्प्रजागरम् ॥ KK05-03-033-010c
जाग्रतो दह्यमानस्य श्रेयो यदनुपश्यसि । KK05-03-033-011a
तद्ब्रूहि त्वं हि नस्तात धर्मार्थकुशलो ह्यसि ॥ KK05-03-033-011c
यतः प्राप्तः सञ्जयः पाण्डवेभ्यो न मे यथावन्मनसः प्रशान्तिः । KK05-03-033-012a
सर्वेन्द्रियाण्यप्रकृतिं गतानि किं वक्ष्यतीत्येव मेऽद्य प्रचिन्ता ॥ KK05-03-033-012c
'तन्मे ब्रूहि विदुर त्वं यथावन्मनीषितं सर्वमजातशत्रोः । KK05-03-033-013a
यथा च नस्तात हितं भवेच्च प्रजाश्च सर्वाः सुखिता भवेयुः ॥' KK05-03-033-013c
विदुर उवाच KK05-03-033-014
अभियुक्तं बलवता दुर्बलं हीनसाधनम् । KK05-03-033-014a
हृतस्वं कामिनं चोरमाविशन्ति प्रजागराः ॥ KK05-03-033-014c
कच्चिदेतैर्महादोषैर्न स्पृष्टोऽसि नराधिप । KK05-03-033-015a
कच्चिच्च परवित्तेषु गृद्ध्यन्न परितप्यसे ॥ KK05-03-033-015c
धृतराष्ट्र उवाच KK05-03-033-016
श्रोतुमिच्छामि ते धर्म्यं परं नैश्रेयसं वचः । KK05-03-033-016a
अस्मिन्राजर्षिवंशे हि त्वमेकः प्राज्ञसम्मतः ॥ KK05-03-033-016c
विदुर उवाच KK05-03-033-017
राजा लक्षणसम्पन्नस्त्रैलोक्यस्याधिपो भवेत् । KK05-03-033-017a
प्रेष्यस्ते प्रेषितश्चैव धृतराष्ट्र युधिष्ठिरः ॥ KK05-03-033-017c
विपरीततरश्च त्वं भागधेये न सम्मतः । KK05-03-033-018a
अर्चिषां प्रक्षयाच्चैव धर्मात्मा धर्मकोविदः ॥ KK05-03-033-018c
आनृशंस्यादनुक्रोशाद्धर्मात्सत्यात्पराक्रमात् । KK05-03-033-019a
गुरुत्वात्त्वयि सम्प्रेक्ष्य बहून्क्लेशांस्तितिक्षते ॥ KK05-03-033-019c
दुर्योधने सौबले च कर्णे दुःशासने तथा । KK05-03-033-020a
एतेष्वैश्वर्यमाधाय कथं त्वं भूतिमिच्छसि ॥ KK05-03-033-020c
आत्मज्ञानं समारम्भस्तितिक्षा धर्मनित्यता । KK05-03-033-021a
यमर्थान्नापकर्षन्ति स वै पण्डित उच्यते ॥ KK05-03-033-021c
'एकस्माद्वृक्षाद्यज्ञपात्राणि राजन्स्रुक्च द्रोणी पेठनीपीडने च । KK05-03-033-022a
एतस्माद्राजन्ब्रुवतो मे निबोध एकस्माद्वै जायतेऽसच्च सच्च ॥ KK05-03-033-022c
निषेवते प्रशस्तानि निन्दितानि न सेवते । KK05-03-033-023a
अनास्तिकः श्रद्दधान एतत्पण्डितलक्षणम् ॥ KK05-03-033-023c
क्रोधो हर्षश्च दर्पश्च ह्रीः स्तम्भो मान्यमानिता । KK05-03-033-024a
यमर्थान्नापकर्षन्ति स वै पण्डित उच्यते ॥ KK05-03-033-024c
यस्य कृत्यं न जानन्ति मन्त्रं वा मन्त्रितं परे । KK05-03-033-025a
कृतमेवास्य जानन्ति स वै पण्डित उच्यते ॥ KK05-03-033-025c
यस्य कृत्यं न विघ्नन्ति शीतमुष्णं भयं रतिः । KK05-03-033-026a
समृद्धिरसमृद्धिर्वा स वै पण्डित उच्यते ॥ KK05-03-033-026c
यस्य संसारिणी प्रज्ञा धर्मार्थावनुवर्तते । KK05-03-033-027a
कामादर्थं वृणीते यः स वै पण्डित उच्यते ॥ KK05-03-033-027c
यथाशक्ति चिकीर्षन्ति यथाशक्ति च कुर्वते । KK05-03-033-028a
किञ्चिदवमन्यन्ते नराः पण्डितबुद्धयः ॥ KK05-03-033-028c
क्षिप्रं विजानाति चिरं श्रृणोति विज्ञाय चार्थं भजते न कामात् । KK05-03-033-029a
नासम्पृष्टो व्युपयुङ्क्ते परार्थे तत्प्रज्ञानं प्रथमं पण्डितस्य ॥ KK05-03-033-029c
नाप्राप्यमभिवाञ्छन्ति नष्टं नेच्छन्ति शोचितुम् । KK05-03-033-030a
आपत्सु च न मुह्यन्ति नराः पण्डितबुद्धयः ॥ KK05-03-033-030c
निश्चित्य यः प्रक्रमते नान्तर्वसति कर्मणः । KK05-03-033-031a
अवन्ध्यकालो वश्यात्मा स वै पण्डित उच्यते ॥ KK05-03-033-031c
आर्यकर्मणि रज्यन्ते भूतिकर्माणि कुर्वते । KK05-03-033-032a
हितं च नाभ्यसूयन्ति पण्डिता भरतर्षभ ॥ KK05-03-033-032c
न हृष्यत्यात्मसम्माने नावमानेन तप्यते । KK05-03-033-033a
गाङ्गो ह्रद इवाक्षोभ्यो यः स पण्डित उच्यते ॥ KK05-03-033-033c
तत्त्वज्ञः सर्वभूतानां योगज्ञः सर्वकर्मणाम् । KK05-03-033-034a
उपायज्ञो मनुष्याणां नरः पण्डित उच्यते ॥ KK05-03-033-034c
प्रवृत्तवाक् चित्रकथ ऊहवान्प्रतिभानवान् । KK05-03-033-035a
आशु ग्रन्थस्य वक्ता च यः स पण्डित उच्यते ॥ KK05-03-033-035c
श्रुतं प्रज्ञानुगं यस्य प्रज्ञा चैव श्रुतानुगा । KK05-03-033-036a
असम्भिन्नार्यमर्यादः पण्डिताख्यां लभेत सः ॥ KK05-03-033-036c
'अर्थं महान्तमासाद्य विद्यामैश्वर्यमेव च । KK05-03-033-037a
विचरत्यसमुन्नद्धो यः स पण्डित उच्यते ' ॥ KK05-03-033-037c
अश्रुतश्च समुन्नद्धो दरिद्रश्च महामनाः । KK05-03-033-038a
अर्थांश्चाकर्मणा प्रेप्सुर्मूढ इत्युच्यते बुधैः ॥ KK05-03-033-038c
स्वमर्थं यः परित्यज्य परार्थमनुतिष्ठति । KK05-03-033-039a
मिथ्या चरति मित्रार्थे यश्च मूढः स उच्यते ॥ KK05-03-033-039c
अकामान्कामयति यः कामयानान्परित्यजेत् । KK05-03-033-040a
बलवन्तं च यो द्वेष्टि तमाहुर्मूढचेतसम् ॥ KK05-03-033-040c
अमित्रं कुरुते मित्रं मित्रं द्वेष्टि हिनस्ति च । KK05-03-033-041a
कर्म चारभते दुष्टं तमाहुर्मूढचेतसम् ॥ KK05-03-033-041c
संसारयति कृत्यानि सर्वत्र विचिकित्सते । KK05-03-033-042a
चिरं करोति क्षिप्रार्थे स मूढो भरतर्षभ ॥ KK05-03-033-042c
श्राद्धं पितृभ्यो न ददाति दैवतानि न चार्चति । KK05-03-033-043a
सुहृन्मित्रं न लभते तमाहुर्मूढचेतसम् ॥ KK05-03-033-043c
अनाहूतः प्रविशति अपृष्टो बहु भाषते । KK05-03-033-044a
अविश्वस्ते विश्वसिति मूढचेता नराधमः ॥ KK05-03-033-044c
परं क्षिपति दोषेण वर्तमानः स्वयं तथा । KK05-03-033-045a
यश्च क्रुध्यत्यनीशानः स च मूढतमो नरः ॥ KK05-03-033-045c
आत्मनो बलमाज्ञाय धर्मार्थपरिवर्जितम् । KK05-03-033-046a
अलभ्यमिच्छन्नैष्कर्म्यान्मूढबुद्धिरिहोच्यते ॥ KK05-03-033-046c
अशिष्यं शास्ति यो राजन्यश्च शिष्यं न शास्ति च । KK05-03-033-047a
कदर्यं भजते यश्च तमाहुर्मूढचेतसम् ॥ KK05-03-033-047c
एकः सम्पन्नमश्नाति वस्ते वासश्च शोभनम् । KK05-03-033-048a
योऽसंविभज्य भृत्येभ्यः को नृशंसतरस्ततः ॥ KK05-03-033-048c
एकः पापानि कुरुते फलं भुङ्क्ते महाजनः । KK05-03-033-049a
भोक्तारो विप्रमुच्यन्ते कर्ता दोषेण लिप्यते ॥ KK05-03-033-049c
एकं हन्यान्न वा हन्यादिषुर्मुक्तो धनुष्मता । KK05-03-033-050a
बुद्धिर्बुद्धिमतोत्सृष्टा हन्याद्राष्ट्रं सराजकम् ॥ KK05-03-033-050c
एकया द्वे विनिश्चित्य त्रींश्चतुर्भिर्वशे कुरु । KK05-03-033-051a
पञ्च जित्वा विदित्वा षट् सप्त हित्वा सुखी भव ॥ KK05-03-033-051c
एकं विषरसो हन्ति शस्त्रेणैकश्च वध्यते । KK05-03-033-052a
सराष्ट्रं सप्रजं हन्ति राजानं मन्त्रविप्लवः ॥ KK05-03-033-052c
एकः स्वादु न भुञ्जीत एकश्चार्थान्न चिन्तयेत् । KK05-03-033-053a
एको न गच्छेदध्वानं नैकः सुप्तेषु जागृयात् ॥ KK05-03-033-053c
एकमेवाद्वितीयं तद्यद्राजन्नावबुध्यसे । KK05-03-033-054a
सत्यं स्वर्गस्य सोपानं पारावारस्य नौरिव ॥ KK05-03-033-054c
एकः क्षमावतां दोषो द्वितीयो नोपपद्यते । KK05-03-033-055a
यदेनं क्षमया युक्तमशक्तं मन्यते जनः ॥ KK05-03-033-055c
सोऽस्य दोषो न मन्तव्यः क्षमा हि परमं बलम् । KK05-03-033-056a
क्षमा गुणो ह्यशक्तानां शक्तानां भूषणं क्षमा ॥ KK05-03-033-056c
क्षमा वशीकृतिर्लोके क्षमया किं न साध्यते । KK05-03-033-057a
शान्तिखड्गः करे यस्य किं करिष्यति दुर्जनः ॥ KK05-03-033-057c
अतृणे पतितो वह्निः स्वयमेवोपशाम्यति । KK05-03-033-058a
अक्षमावान्परं दोषैरात्मानं चैव योजयेत् ॥ KK05-03-033-058c
एको धर्मः परं श्रेयः क्षमैका शान्तिरुत्तमा । KK05-03-033-059a
विद्यैका परमा तृप्तिरहिंसैका सुखावहा ॥ KK05-03-033-059c
द्वाविमौ ग्रसते भूमिः सर्पो बिलशयानिव । KK05-03-033-060a
राजानं चाविरोद्धारं ब्राह्मणं चाप्रवासिनम् ॥ KK05-03-033-060c
द्वे कर्मणी नरः कुर्वन्नस्मिल्ँलोके विरोचते । KK05-03-033-061a
अब्रुवन्परुषं किञ्चिदसतोऽनर्चयंस्तथा ॥ KK05-03-033-061c
द्वाविमौ पुरुषव्याघ्र परप्रत्ययकारिणौ । KK05-03-033-062a
स्त्रियः कामितकामिन्यो मूर्खाः पूजितपूजकाः ॥ KK05-03-033-062c
द्वाविमौ कण्टकौ तीक्ष्णौ शरीरपरिशोषिणौ । KK05-03-033-063a
यश्चाधनः कामयते यश्च कुप्यत्यनीश्वरः ॥ KK05-03-033-063c
द्वावेव न विराजेते विपरीतेन कर्मणा । KK05-03-033-064a
गृहस्थश्च निरारम्भः कार्यवांश्चैव भिक्षुकः ॥ KK05-03-033-064c
द्वाविमौ पुरुषौ राजन्स्वर्गस्योपरि तिष्ठतः । KK05-03-033-065a
प्रभुश्च क्षमया युक्तो दरिद्रश्च प्रदानवान् ॥ KK05-03-033-065c
न्यायागतस्य द्रव्यस्य बोद्धव्यौ द्वावतिक्रमौ । KK05-03-033-066a
अपात्रे प्रतिपत्तिश्च पात्रे चाप्रतिपादनम् ॥ KK05-03-033-066c
द्वावम्भसि निवेष्टव्यौ गले बध्वा दृढां शिलाम् । KK05-03-033-067a
धनवन्तमदातारं दरिद्रं चातपस्विनम् ॥ KK05-03-033-067c
द्वाविमौ पुरुषव्याघ्र सूर्यमण्डलभेदिनौ । KK05-03-033-068a
परिव्राड्योगयुक्तश्च रणे चाभिमुखो हतः ॥ KK05-03-033-068c
त्रयो न्याया मनुष्याणां श्रूयन्ते भरतर्षभ । KK05-03-033-069a
कनीयान्मध्यमः श्रेष्ठ इति वेदविदो विदुः ॥ KK05-03-033-069c
त्रिविधाः पुरुषा राजन्नुत्तमाधममध्यमाः । KK05-03-033-070a
नियोजयेद्यथावत्तांस्त्रिविधेष्वेव कर्मसु ॥ KK05-03-033-070c
त्रय एवाधना राजन्भार्या दासस्तथा सुतः । KK05-03-033-071a
यत्ते समधिगच्छन्ति यस्यैते तस्य तद्धनम् ॥ KK05-03-033-071c
हरणं च परस्वानां परदाराभिमर्शनम् । KK05-03-033-072a
सुहृदश्च परित्यागस्त्रयो दोषाः क्षयावहाः ॥ KK05-03-033-072c
त्रिविधं नरकस्येदं द्वारं नाशनमात्मनः । KK05-03-033-073a
कामः क्रोधस्तथा लोभस्तस्मादेतत्त्रयं त्यजेत् ॥ KK05-03-033-073c
वरप्रदानं राज्यं च पुत्रजन्म च भारत । KK05-03-033-074a
शत्रोश्च मोक्षणं कृच्छ्रात्त्रीणि चैकं च तत्समम् ॥ KK05-03-033-074c
भक्तं च भजमानं च तवास्मीति च वादिनम् । KK05-03-033-075a
त्रीनेताञ्छरणं प्राप्तान्विषमेऽपि न सन्त्यजेत् ॥ KK05-03-033-075c
चत्वारि राज्ञा तु महाबलेन वर्ज्यान्याहुः पण्डितस्तानि विद्यात् । KK05-03-033-076a
अल्पप्रज्ञैः सह मन्त्रं न कुर्यान्न दीर्घसूत्रैरलसैश्चारणैश्च ॥ KK05-03-033-076c
चतवारि ते तात गृहे वसन्तु श्रियाऽभिजुष्टस्य गृहस्थधर्मे । KK05-03-033-077a
वृद्धो ज्ञातिरवसन्नः कुलीनः सखा दरिद्रो भगिनी चानपत्या ॥ KK05-03-033-077c
चत्वार्याह महाराज साद्यस्कानि बृहस्पतिः । KK05-03-033-078a
पृच्छते त्रिदशेन्द्राय तानीमानि निबोध मे ॥ KK05-03-033-078c
देवतानां च सङ्कल्पमनुभावं च धीमताम् । KK05-03-033-079a
विनयं कृतविद्यानां विनाशं पापकर्मणाम् ॥ KK05-03-033-079c
चत्वारि कर्माण्यभयङ्कराणि भयं प्रयच्छन्त्ययथाकृतानि । KK05-03-033-080a
मानाग्निहोत्रमुत मानमौनं मानेनाधीतमुत मानयज्ञः ॥ KK05-03-033-080c
पञ्चाग्नयो मनुष्येण परिचर्याः प्रयत्नतः । KK05-03-033-081a
पिता माताग्निरात्मा च गुरुश्च भरतर्षभ ॥ KK05-03-033-081c
पञ्चैव पूजयल्ँलोके यशः प्राप्नोति केवलम् । KK05-03-033-082a
देवान्पितॄन्मनुष्यांश्च भिक्षूनतिथिपञ्चमान् ॥ KK05-03-033-082c
पञ्च त्वाऽनुगमिष्यन्ति यत्र यत्र गमिष्यसि । KK05-03-033-083a
मित्राण्यमित्रा मध्यस्था उपजीव्योपजीविनः ॥ KK05-03-033-083c
पञ्चेन्द्रियस्य मर्त्यस्य छिद्रं चेदेकमिन्द्रियम् । KK05-03-033-084a
ततोऽस्य स्रवति प्रज्ञा दृतेः पात्रादिवोदकम् ॥ KK05-03-033-084c
षड्दोषाः पुरुषेणेह हातव्या भूतिमिच्छता । KK05-03-033-085a
निद्रा तन्द्री भयं क्रोध आलस्यं दीर्घसूत्रता ॥ KK05-03-033-085c
षडिमान्पुरुषो जह्याद्भिन्नां नावमिवार्णवे । KK05-03-033-086a
अप्रवक्तारमाचार्यमनधीयानमृत्विजम् ॥ KK05-03-033-086c
अरक्षितारं राजानं भार्यां चाप्रियवादिनीम् । KK05-03-033-087a
ग्रामकामं च गोपालं वनकामं च नापितम् ॥ KK05-03-033-087c
षडेव तु गुणाः पुंसा न हातव्याः कदाचन । KK05-03-033-088a
सत्यं दानमनालस्यमनसूया क्षमा धृतिः ॥ KK05-03-033-088c
अर्थागमो नित्यमरोगिता च प्रिया च भार्या प्रियवादिनी च । KK05-03-033-089a
वश्यश्च पुत्रोऽर्थकरी च विद्या षड्जीवलोकस्य सुखानि राजन् ॥ KK05-03-033-089c
षण्णामात्मनि नित्यानामैश्वर्यं योऽधिगच्छति । KK05-03-033-090a
न स पापैः कुतोऽनर्थैर्युज्यते विजितेन्द्रियः ॥ KK05-03-033-090c
षडिमे षट्सु जीवन्ति सप्तमो नोपलभ्यते । KK05-03-033-091a
चोराः प्रमत्ते जीवन्ति व्याधितेषु चिकित्सकाः ॥ KK05-03-033-091c
प्रमदाः कामयानेषु यजमानेषु याजकाः । KK05-03-033-092a
राजा विवदमानेषु नित्यं मूर्खेषु पण्डिताः ॥ KK05-03-033-092c
षडिमानि विनश्यन्ति मुहूर्तमनवेक्षणात् । KK05-03-033-093a
गावः सेवा कृषिर्भार्या विद्या वृषलसङ्गतिः ॥ KK05-03-033-093c
षडेते ह्यवमन्यन्ते नित्यं पूर्वोपकारिणम् । KK05-03-033-094a
आचार्यं शिक्षिताः शिष्याः कृतदाराश्च मातरम् ॥ KK05-03-033-094c
नारीं विगतकामास्तु कृतार्थाश्च प्रयोजकम् । KK05-03-033-095a
नावं निस्तीर्णकान्तारा नातुराश्च चिकित्सकम् ॥ KK05-03-033-095c
आरोग्यमानृण्यमविप्रवासः सद्भिर्मनुष्यैः सह सम्प्रयोगः । KK05-03-033-096a
स्वप्रत्यया वृत्तिरभीतवासः षट् जीवलोकस्य सुखानि राजन् ॥ KK05-03-033-096c
ईर्षुर्घृणी नसन्तुष्टः क्रोधनो नित्यशङ्कितः । KK05-03-033-097a
परभाग्योपजीवी च षडेते नित्यदुःखिताः ॥ KK05-03-033-097c
सप्त दोषाः सदा राज्ञा हातव्या व्यसनोदयाः । KK05-03-033-098a
प्रायशो यैर्विनश्यन्ति कृतमूला अपीश्वराः ॥ KK05-03-033-098c
स्त्रियोऽक्षा मृगया पानं वाक्पारुष्यं च पञ्चमम् । KK05-03-033-099a
महच्च दण्डपारुष्यमर्थदूषणमेव च ॥ KK05-03-033-099c
अष्टौ पूर्वनिमित्तानि नरस्य विनशिष्यतः । KK05-03-033-100a
ब्राह्मणान्प्रथमं द्वेष्टि ब्राह्मणैश्च विरुध्यते ॥ KK05-03-033-100c
ब्राह्मणस्वानि चादत्ते ब्राह्मणांश्च जिघांसति । KK05-03-033-101a
रमते निन्दया चैषां प्रशंसां नाभिनन्दति ॥ KK05-03-033-101c
नैनान्स्मरति कृत्येषु याचितश्चाभ्यसूयति । KK05-03-033-102a
एतान्दोषान्नरः प्राज्ञो बुद्ध्या बुध्वा विसर्जयेत् ॥ KK05-03-033-102c
अष्टाविमानि हर्षस्य नवनीतानि भारत । KK05-03-033-103a
वर्तमानानि दृश्यन्ते तान्येव स्वसुखान्यपि ॥ KK05-03-033-103c
समागमश्च सखिभिर्महांश्चैव धनागमः । KK05-03-033-104a
पुत्रेण च परिष्वङ्गः सन्निपातश्च मैथुने ॥ KK05-03-033-104c
समये च प्रियालापः स्वयूथ्येषु समुन्नतिः । KK05-03-033-105a
अभिप्रेतस्य लाभश्च पूजा च जनसंसदि ॥ KK05-03-033-105c
अष्टौ गुणाः पुरुषं दीपयन्ति प्रज्ञा च कौल्यं च दमः श्रुतं च । KK05-03-033-106a
पराक्रमश्चाबहुभाषिता च दानं यथाशक्ति कृतज्ञता च ॥ KK05-03-033-106c
नवद्वारमिदं वेश्म त्रिस्थूणं पञ्चसाक्षिकम् । KK05-03-033-107a
क्षेत्रज्ञाधिष्ठितं विद्वान्यो वेद स परः कविः ॥ KK05-03-033-107c
दश धर्मं न जानन्ति धृतराष्ट्र निबोध तान् । KK05-03-033-108a
मत्तः प्रमत्त उन्मत्तः श्रान्तः क्रुद्धो बुभुक्षितः ॥ KK05-03-033-108c
त्वरमाणश्च लुब्धश्च भीतः कामी च ते दश । KK05-03-033-109a
तस्मादेतेषु भावेषु न प्रसज्जेत पण्डितः ॥ KK05-03-033-109c
अत्रैवोदाहरन्तीममितिहासं पुरातनम् । KK05-03-033-110a
पुत्रार्थमसुरेन्द्रेण गीतं चैव सुधन्वना ॥ KK05-03-033-110c
यः काममन्यू प्रजहाति राजा पात्रे प्रतिष्ठापयते धनं च । KK05-03-033-111a
विशेषविच्छ्रुतवान्क्षिप्रकारी तं सर्वलोकः कुरुते प्रमाणम् ॥ KK05-03-033-111c
जानाति विश्वासयितुं मनुष्यान्विज्ञातदोषेषु दधाति दण्डम् । KK05-03-033-112a
जानाति मात्रां च तथा क्षमां च तं तादृशं श्रीर्जुषते समग्रा ॥ KK05-03-033-112c
सुदुर्बलं नावजानाति कञ्चिद्युक्तो रिपुं सेवते बुद्धिपूर्वम् । KK05-03-033-113a
न विग्रहं रोचयते बलस्थैः काले च यो विक्रमते स धीरः ॥ KK05-03-033-113c
प्राप्यापदं न व्यथते कदाचिदुद्योगमन्वच्छति चाप्रमत्तः । KK05-03-033-114a
दुःखं च काले सहते महात्मा धुरन्धरस्तस्य जिताः सपत्नाः ॥ KK05-03-033-114c
अनर्थकं विप्रवासं गृहेभ्यः पापैः सन्धिं परदाराभिमर्शम् । KK05-03-033-115a
दम्भं स्तैन्यं पैशुनं मद्यपानं न सेवते यः स सुखी सदैव ॥ KK05-03-033-115c
न संरम्भेणारभते त्रिवर्गमाकारितः शंसति तत्त्वमेव । KK05-03-033-116a
न मित्रार्थे रोचयते विवादं नापूजितः कुप्यति चाप्यमूढः ॥ KK05-03-033-116c
न योऽभ्यसूयत्यनुकम्पते च न दुर्बलः प्रातिभाव्यं करोति । KK05-03-033-117a
नात्याह किञ्चित्क्षमते विवादं सर्वत्र तादृग्लभते प्रशंसाम् ॥ KK05-03-033-117c
यो नोद्धतं कुरुते जातु वेषं न पौरुषेणापि विकत्थतेऽन्यान् । KK05-03-033-118a
न मूर्च्छितः कटुकान्याह किञ्चित्प्रियं सदा तं कुरुते जनो हि ॥ KK05-03-033-118c
न वैरमुद्दीपयति प्रशान्तं न दर्पमारोहति शान्तिमेति । KK05-03-033-119a
न दुर्गतोऽस्मीति करोत्यकार्यं तमार्यशीलं परमाहुरार्याः ॥ KK05-03-033-119c
न स्वे सुखे वै कुरुते प्रहर्षं नान्यस्य दुःखे भवति प्रहृष्टः । KK05-03-033-120a
दत्त्वा न पश्चात्कुरुतेऽनुतापं स कथ्यते सत्पुरुषार्यशीलः ॥ KK05-03-033-120c
देशाचारान्समयाञ्जातिधर्मान्बुभूषते यः स परावरज्ञः । KK05-03-033-121a
स यत्र तत्राभिगतः सदैव महाजनस्याधिपत्यं करोति ॥ KK05-03-033-121c
दम्भं मोहं मत्सरं पापकृत्यं राजद्विष्टं पैशुनं पूगवैरम् । KK05-03-033-122a
मत्तोन्मत्तैर्दुर्जनैश्चापि वादं यः प्रज्ञावान्वर्जयेत्स प्रधानः ॥ KK05-03-033-122c
दमं शौचं दैविकं मङ्गलानि प्रायश्चित्तान्विविधाल्ँलोकवादान् । KK05-03-033-123a
एतानि यः कुरुते नैत्यकानि तस्योत्थानं देवता राधयन्ति ॥ KK05-03-033-123c
समैर्विवाहं कुरुते न हीनैः समैः सख्यं व्यवहारं कथां च । KK05-03-033-12a4
गुणैर्विशिष्टांश्च पुरो दधाति विपश्चितस्तस्य नयाः सुनीताः ॥ KK05-03-033-124c
मितं भुङ्क्ते संविभज्याश्रितेभ्यो मितं स्वपित्यमितं कर्म कृत्वा । KK05-03-033-125a
ददात्यमित्रेष्वपि याचितः संस्तमात्मवन्तं प्रजहत्यनर्थाः ॥ KK05-03-033-125c
चिकीर्षितं विप्रकृतं च यस्य नान्ये जनाः कर्म जानन्ति किञ्चित् । KK05-03-033-126a
मन्त्रे गुप्ते सम्यगनुष्ठिते च नाल्पोऽप्यस्य च्यवते कश्चिदर्थः ॥ KK05-03-033-126c
यः सर्वभूतप्रशमे निविष्टः सत्यो मृदुर्मानकृच्छुद्धभावः । KK05-03-033-127a
अतीव स ज्ञायते ज्ञातिमध्ये महामणिर्जात्य इव प्रसन्नः ॥ KK05-03-033-127c
य आत्मनाऽपत्रपते भृशं नरः स सर्वलोकस्य गुरुर्भवत्युत । KK05-03-033-128a
अनन्ततेजाः सुमनाः समाहितः स तेजसा सूर्य इवावभासते ॥ KK05-03-033-128c
वने जाताः शापदग्धस्य राज्ञः पाण्डोः पुत्राः पञ्च पञ्चेन्द्रकल्पाः । KK05-03-033-129a
त्वयैव बाला वर्धिताः शिक्षिताश्च तवादेशं पालयन्त्याम्बिकेय ॥ KK05-03-033-129c
प्रदायैषामुचितं तातराज्यं सुखी पुत्रैः सहितो मोदमानः । KK05-03-033-130a
न देवानां नापि च मानुषाणां भविष्यसि त्वं गर्हणीयो नरेन्द्र ॥ ॥ KK05-03-033-130c
इति श्रीमन्महाभारते उद्योगपर्वणि प्रजागरपर्वणि त्रयस्त्रिंशोऽध्यायः ॥
5-33-5 अकल्पो न किन्तु कल्पः समर्थ एव । सर्वदा विदुरसन्दर्शनं मम अप्रत्याख्येयमित्यर्थः ॥ 5-33-10 प्रजागरं निद्राया अभावम् ॥ 5-33-12 यतः यदा प्राप्तः सञ्जयस्तदारभ्येत्यर्थः । प्रचिन्ता प्रकृष्टा चिन्ता ॥ 5-33-14 अभियुक्तमित्यर्धोपात्त एकः त्रयोऽन्ये च प्रजागरावेशभाजनानि ॥ 5-33-15 गृद्ध्यन् लिप्सावान् ॥ 5-33-17 प्रेष्यः प्रकर्षेण एषणीयः प्रार्थ्य इति यावत् । ते त्वया प्रेषितो वनमिति शेषः ॥ 5-33-18 विपरीतः राजलक्षणहीनः सर्वेषां द्वेष्यः । भागधेये राज्यांशे । अर्चिषां नेत्ररश्मीनां प्रक्षयात् । न सम्मतस्त्वं धर्मात्मापि सन्निति उपहासः ॥ 5-33-19 आनृशंस्यात् क्रूरत्वाभावात् । अनुक्रोशात् दयालुत्वात् । तितिक्षते युधिष्ठिर इति शेषः ॥ 5-33-20 एतेष्विति । एतेषामधीनो भूत्वेत्यर्थः ॥ 5-33-21 एतेषु पाण्डित्यं नास्तीति वक्तुं पण्डितलक्षणान्याह आत्मज्ञानमित्यादिना । आत्मज्ञानं शास्त्रीयापेक्षम् । समारम्भः शक्त्यपेक्षः । तितिक्षा वैराग्यापेक्षा । धर्मनित्यता श्रद्धापेक्षा । एतानि अयथाभूतानि मूढान् पुरुषार्थात् भ्रंशयन्ति नतु पण्डितानित्यर्थः ॥ 5-33-23 अनास्तिकः परलोकाद्यस्तीति जानन् । श्रद्दधानः श्रद्धा गुरुवेदवाक्यादिषु फलावश्यम्भावनिश्चयस्तद्वान् ॥ 5-33-24 दर्पः परावज्ञानम् । स्तम्भः असन्नतिः । मान्यमानिता मान्यं मानार्हम् आत्मानं मन्यत इति मान्यमानी तस्य भावस्तत्ता ॥ 5-33-27 संसारिणी स्वभावतोऽनवस्थितापि कामात् ऐहिकसुखात् उभयलोकसुखावहं धर्ममर्थं वृणीते स पण्डितः । कामो धर्मार्थापेक्षया निकृष्ट इत्यर्थः । कामादिति । यस्तु कामं त्यक्त्वा अर्थं वृणीते सः अर्थार्थी मोक्षादेव सर्वम् अर्थं विन्दति ज्ञानफले मोक्षे कृत्स्नस्यार्थस्यान्तर्भावात् स जनकादितुल्यः अतः पण्डित उच्यते ॥ 5-33-29 चिरं शृणोति ज्ञानदार्ढ्याय असम्पृष्टः यथावदपृष्टः । व्युपयुङ्क्ते वाग्व्ययं करोति । परार्थे विषये प्रज्ञानं चिह्नम् ॥ 5-33-31 निश्चित्य स्वयत्नमाध्यत्वम् । कर्मणः अन्तर्मध्ये न वसति नोपरमते किन्तु समापयत्येव । अवन्ध्यकालः सर्वदा सप्रयोजनमेव कर्माचरन् ॥ 5-33-32 आर्याः शिष्टाः तद्योग्यकर्मणि । भूतिरैश्वर्यं तत्प्राप्त्यर्थं कर्माणि ॥ 5-33-34 योगो रचनाप्रकारः । उपायस्तदर्थसामग्री । मनुष्याणां मध्ये स नरः पण्डितः ॥ 5-33-35 प्रवृत्तवाक् अकुण्ठितवचनः । चित्रकथो लोककथाभिज्ञः । ऊहस्तर्कः । प्रतिभानं तत्कालस्फूर्तिः ॥ 5-33-36 प्रज्ञानुगं बुद्धिवश्यम् । श्रुतानुगा शास्त्रानुसारिणी ॥ 5-33-38 महामनाः अधिकेच्छावान् । अकर्मणा हीनकर्मणा द्यूतादिनेत्यर्थः ॥ 5-33-42 संसारयति भृत्यादिद्वारा प्रवर्तयति ॥ 5-33-46 नैष्कर्म्यात् अयत्नतः ॥ 5-33-47 कदर्यम् अदातारम् ॥ 5-33-51 एकया बुद्ध्या । द्वे कार्याकार्ये विनिश्चित्य सम्यगवधार्य । त्रीन् मित्रोदासीनशत्रून् । चतुर्भिः सामदानभेददण्डैः । मित्रं साम्नैव दानभेदाभ्यामुदासीनम् सर्वैः शत्रुं वशीकुरु । पञ्च इन्द्रियाणि जित्वा । षड्विदित्वा सन्धिविग्रहादीन् जित्वा । सप्त हित्वा-स्त्रियोऽक्षा मृगया पानं वाक्पारुष्यं च पञ्चमम् । महच्च दण्डपारुष्यमर्थदूषणमेव चेति सप्त हेयानि त्यक्त्वा सुखी भव ॥ 5-33-54 सत्यं यथार्थभाषणम् । पारावारस्य समुद्रस्य ॥ 5-33-69 युद्धं कनीयान् । भेददाने मध्यमः । साम उत्तमः 5-33-71 त्वयिसति त्वत्पुत्रोऽधनोऽतस्त्वमेव पाण्डवानां राज्यं दातुं प्रभुरसीत्यर्थः ॥ 5-33-75 शरणं गृहम् । विषमेपि सङ्कटेपि ॥ 5-33-76 दीर्घसूत्रैः क्षिप्रसाध्ये कार्ये चिरं कुर्वद्भिः । अलसैः करिष्यामीति कालगमकैः । चारणैः स्तावकैः । अरणैरितिच्छेदो वा । रणविरोधिभिर्द्यूताद्यासक्तैरित्यर्थः ॥ 5-33-77 वृद्धः कुलधर्मानुपदिशति । कुलीनः शिशून् आचारं ग्राहयति । सखा हितं वदति । भगिनी धनं रक्षति ॥ 5-33-78 साद्यस्कानि सद्यःफलानि ॥ 5-33-79 देवताः स्वर्गभाजः । स्वर्गपदार्थश्च- यन्न दुःखेन सम्भिन्नं न च ग्रस्तमनन्तरम् । अभिलाषोपनीतं च तत्सुखं स्वःपदास्पदम् इत्येवंरूपः । अतस्ते सत्यसङ्कल्पाः । धीमतामगस्त्यादीनामनुभावं समुद्रपानादिप्रभावम् । तेपि देवतुल्या इत्यर्थः । विनयोपि गुरुप्रसादकरत्वेन सद्यःफलः । विनाशहेतुः कर्मापि चौर्यादिकं तच्च त्वय्येवास्ति । तव सर्वं कर्म मानार्थमेवेति भावः । पापकर्मणां विनाशनं विनाशयितुः सद्यःफलम् ॥ 5-33-82 पितॄन् अग्निष्वात्तादीन् गोत्रप्रवर्तकानृषींश्च । मनुष्यान् पित्रादीन् ॥ 5-33-83 त्वा त्वाम् । उपजीव्याः गुरवः । इह लोके साधिता मित्रादयः । इह परलोके जन्मान्तरे वा स्वं स्वं कार्यं कुर्वन्तीत्यर्थः ॥ 5-33-84 दृतेश्चर्ममयाज्जलपात्रात् ॥ 5-33-88 गोपालस्य ग्रामे वासे वनवाससाध्यस्य गोरक्षणस्याभावः । नापितस्य वने वासे ग्रामे तत्कार्याभाव इति भावः ॥ 5-33-90 षण्णामिति । आत्मनि चित्ते नित्यानां षण्णाम्- कामक्रोधौ शोकमोहौ मदमानौ च षट्पदीत्युक्तानाम् । ऐश्वर्यं वशित्वम् ॥ 5-33-95 नातुराः अरोगाः ॥ 5-33-96 स्वप्रत्यया स्वनिश्चयपूर्विका वृत्तिर्वर्तनं नतु गतानुगतिकयेत्यर्थः ॥ 5-33-100 द्वेष्टि मनसानिष्टं चिन्तयति । विरुध्यते कर्मणा ॥ 5-33-104 सन्निपातः समरतं (रत्नगर्भः)॥ 5-33-107 त्रिस्थूणं वातपित्तश्लेष्माणः स्थूणाः यस्य । पञ्च साक्षिवदुदासीनाः शब्दादयो ग्राह्या यस्मिन् । क्षेत्रज्ञाधिष्ठितं जीवाधिष्ठितम् ॥ 107 ॥ 5-33-108 मत्तो मद्यादिना । प्रमत्तो विषयान्तरासक्तयाऽनवहितः । उन्मत्तो धातुदोषात् ॥ 5-33-112 मात्रा अपराधानुसारेण दण्डप्रमाणम् । ब्राह्मणादौ अपराधस्य क्षमाञ्च जानाति ॥ 5-33-113 युक्तः छिद्रप्रेक्षणेऽवहितः ॥ 113 ॥ 5-33-114 धुरन्धरः कार्यभारसहः संरम्भेण क्रोधेन च स्त्रियोऽर्थे यतते विवादम् इति क पाठः । 5-33-116 न मात्रार्थे रोचयते इति ख. पाठः । मात्रार्थे अल्पार्थे इति रत्नगर्भः॥ 5-33-11 प्रातिभाव्यं प्रतिकूलो भावः चित्ताभिप्रायः तस्य भावः प्रातिभाव्यं विरोधम् । अत्याह अतिकम्य ब्रवीति ॥ 5-33-122 दम्भं परवधनेच्छया धर्मानुष्ठानम् ॥ 5-33-127 जात्य अभिजातः उत्तमे आकरे जातः ॥ 5-33-128 आत्मना अपत्रपते परैरज्ञातेऽपि स्वव्यलीके स्वयमेव लज्जते ॥