अध्यायः 032

पाण्डवानुज्ञातेन सञ्जयेन रात्रौ धृतराष्ट्रमुपगम्य अभिवादनपूर्वकं युधिष्टिरकृतकुशलप्रश्नादिकथनम् ॥ 1 ॥ तथा धृतराष्ट्रं विगर्ह्य युधिष्ठिरवचनस्य श्वःकथनकथनपूर्वकं स्वभवनगमनम् ॥ 2 ॥

वैशम्पायन उवाच KK05-02-032-001
'धर्मराजस्य वचनं श्रुत्वा पार्थो धनञ्जयः । KK05-02-032-001a
उवाच सञ्जयं तत्र वासुदेवस्य शृण्वतः ॥ KK05-02-032-001c
पितामहं शान्तनवं धृतराष्ट्रं च सञ्जय । KK05-02-032-002a
द्रोणं सपुत्रं शल्यं च महाराजं च बाह्लिकम् ॥ KK05-02-032-002c
विकर्णं सोमदत्तं च शकुनिं चैव सौबलम् । KK05-02-032-003a
विविंशतिं चित्रसेनं जयत्सेनं च सञ्जय । KK05-02-032-003c
भगदत्तं तथा चैव शूरं रणकृतां वरम् ॥ KK05-02-032-003e
ये चाप्यन्ये कुरवस्तत्र सन्ति राजानश्चेद्भूमिपालाः समेताः । KK05-02-032-004a
युयुत्सवः सैन्धवाः पार्थिवाश्च समानीता धार्तराष्ट्रेण सूत ॥ KK05-02-032-004c
यथान्यायं कुशलं वन्दनं च समागमे मद्वचनेन वाच्याः । KK05-02-032-005a
ततो ब्रूयाः सञ्जय राजमध्ये दुर्योधनं पापकृतां प्रधानम् ॥ KK05-02-032-005c
एवं प्रतिष्ठाप्य धनञ्जयस्तं ततोऽर्थवद्धर्मवच्चापि पार्थः । KK05-02-032-006a
उवाच वाक्यं स्वजनप्रहर्षं वित्रासनं धृतराष्ट्रात्मजानाम् ॥ KK05-02-032-006c
अर्जुनेन समादिष्टस्तथेत्युक्त्वा तु सञ्जयः । KK05-02-032-007a
पार्थानामन्त्रयामास केशवं च यशस्विनम् ॥' KK05-02-032-007c
अनुज्ञातः पाण्डवेन प्रययौ सञ्जयस्तदा । KK05-02-032-008a
शासनं धृतराष्ट्रस्य सर्वं कृत्वा महात्मनः ॥ KK05-02-032-008c
'तदा तु सञ्जयः क्षिप्रमेकाहेन परन्तपः । KK05-02-032-009a
याति स्म हास्तिनपुरं निशाकाले परन्तप ॥' KK05-02-032-009c
सम्प्राप्य हास्तिनपुरं शीघ्रमश्वैर्महाजवैः । KK05-02-032-010a
अन्तःपुरं समास्थाय द्वाःस्थं वचनमब्रवीत् ॥ KK05-02-032-010c
आचक्ष्व धृतराष्ट्राय द्वाऽस्थ मां समुपागतम् । KK05-02-032-012a
सकाशात्पाण्डुपुत्राणां सञ्जयं माचिरं कृथाः ॥ KK05-02-032-012c
जागर्ति चेदभिवदेस्त्वं हि द्वाःस्थ प्रविशेयं विदितो भूमिपस्य । KK05-02-032-013a
निवेद्यमत्रात्ययिकं हि मेऽस्ति द्वाःस्थोऽथ श्रुत्वा नृपतिं जगाद ॥ KK05-02-032-013c
द्वाःस्थ उवाच KK05-02-032-014
सञ्जयोऽयं भूमिपते नमस्ते दिदृक्षया द्वारमुपागतस्ते । KK05-02-032-014a
प्राप्तो दूतः पाण्डवानां सकाशात्प्रशाधि राजन्किमयं करोतु ॥ KK05-02-032-014c
धृतराष्ट्र उवाच KK05-02-032-015
आचक्ष्व मां कुशलिनं कल्पमस्मै प्रवेश्यतां स्वागतं सञ्जयाय । KK05-02-032-015a
न चाहमेतस्य भवाम्यकल्पः स मे कस्माद्द्वारि तिष्ठेच्च सक्तः ॥ KK05-02-032-015c
वैशम्पायन उवाच KK05-02-032-016
ततः प्रविश्यानुमते नृपस्य महद्वेश्म प्राज्ञशूरार्यगुप्तम् । KK05-02-032-016a
सिंहासनस्थं पार्थिवमाससाद वैचित्रवीर्यं प्राञ्जलिः सूतपुत्रः ॥ KK05-02-032-016c
सञ्जय उवाच KK05-02-032-017
सञ्जयोऽहं भूमिपते नमस्ते प्राप्तोऽस्मि गत्वा नरदेव पाण्डवान् । KK05-02-032-017a
अभिवाद्य त्वां पाण्डुपुत्रो मनस्वी युधिष्ठिरः कुशलं चान्वपृच्छत् ॥ KK05-02-032-017c
स ते पुत्रान्पृच्छति प्रीयमाणः कच्चित्पुत्रैः प्रीयसे नप्तृभिश्च । KK05-02-032-018a
तथा सुहृद्भिः सचिवैश्च राजन्ये चापि त्वामुपजीवन्ति तैश्च ॥ KK05-02-032-018c
धृतराष्ट्र उवाच KK05-02-032-019
अभिनन्द्य त्वां तात वदामि सञ्जय अजातशत्रुं च सुखेन पार्थम् । KK05-02-032-019a
कच्चित्स राजा कुशली सपुत्रः सहामात्यः सानुजः कौरवाणाम् ॥ KK05-02-032-019c
सञ्जय उवाच KK05-02-032-020
सहामात्यः कुशली पाण्डुपुत्रो बुभूषते यच्च तेऽग्रे त्मनोऽभूत् । KK05-02-032-020a
निर्णिक्तधर्मार्थकरो मनस्वी बहुश्रुतो दृष्टिमाञ्शीलवांश्च ॥ KK05-02-032-020c
परो धर्मः पाण्डवस्यानृशंस्यं धर्मः परो वित्तचयान्मतोऽस्य । KK05-02-032-021a
सुखप्रियेऽधर्महीनेऽनपार्थे नु रुध्यते भारत तस्य बुद्धिः ॥ KK05-02-032-021c
परप्रयुक्तः पुरुषो विचेष्टते सूत्रप्रोता दारुमयीव योषा । KK05-02-032-022a
इमं दृष्ट्वा नियमं पाण्डवस्य मन्ये परं कर्म दैवं मनुष्यात् ॥ KK05-02-032-022c
इमं च दृष्ट्वा तव कर्म दोषं पापोदर्कं घोरमवर्णरूपम् । KK05-02-032-023a
यावत्परः कामयतेऽतिवेलं तावन्नरोऽयं लभते प्रशंसाम् ॥ KK05-02-032-023c
अजातशत्रुस्तु विहाय पापं जीर्णां त्वचं सर्प इवासमर्थाम् । KK05-02-032-024a
विरोचते ह्यार्यवृत्तेन वीरो युधिष्ठिरस्त्वयि पापं विसृज्य ॥ KK05-02-032-024c
हन्तात्मनः कर्म निबोध राजन्धर्मार्थयुक्तादार्यवृत्तादपेतम् । KK05-02-032-025a
उपक्रोशं चेह गतोऽसि राजन्भूयश्च पापं प्रसजेदमुत्र ॥ KK05-02-032-025c
स त्वमर्थं संशयितं विना तैराशंससे पुत्रवशानुगोऽस्य । KK05-02-032-026a
अधर्मशब्दश्च महान्पृथिव्यां नेदं कर्म त्वत्समं भारताग्र्य ॥ KK05-02-032-026c
हीनप्रज्ञो दौष्कुलेयो नृशंसो दीर्घं वैरी क्षत्रविद्यास्वधीरः । KK05-02-032-027a
एवन्धर्मानापदः संश्रयेयुर्हीनवीर्यो यश्च भवेदशिष्टः ॥ KK05-02-032-027c
कुले जातो बलवान्यो यशस्वी बहुश्रुतः सुखजीवी यतात्मा । KK05-02-032-028a
धर्माधर्मौ ग्रथितौ यो बिभर्ति स ह्यस्य दिष्टस्य वशादुपैति ॥ KK05-02-032-028c
कथं हि मन्त्राग्र्यधरो मनीषी धर्मार्थयोरापदि सम्प्रणेता । KK05-02-032-029a
एवमुक्तः सर्वमन्त्रैरहीनो नरो नृशंसं कर्म कुर्यादमूढः ॥ KK05-02-032-029c
तव ह्यमी मन्त्रविदः समेत्य समासते कर्मसु नित्ययुक्ताः । KK05-02-032-030a
तेषामयं बलवान्निश्चयश्च कुरुक्षये नियमेनोदपादि ॥ KK05-02-032-030c
अकालिकं कुरवो नाभविष्यन्पापेन चेत्पापमजातशत्रुः KK05-02-032-031a
इच्छेज्जातु त्वयि पापं विसृज्य निन्दा चेयं तव लोकेऽभविष्यत् ॥ KK05-02-032-031c
किमन्यत्र विषयादीश्वराणां यत्र पार्थः परलोकं स्म द्रष्टुम् । KK05-02-032-032a
अत्यक्रामत्स तथा सम्मतः स्यान्न संशयो नास्ति मनुष्यकारः ॥ KK05-02-032-032c
एतान्गुणान्कर्मकृतानवेक्ष्य भावाभावौ वर्तमानावनित्यौ । KK05-02-032-033a
बलिर्हि राजा पारमविन्दमानो नान्यत्कालात्कारणं तत्र मेने ॥ KK05-02-032-033c
चक्षुःश्रोत्रे नासिका त्वक्च जिह्वा ज्ञानस्यैतान्यायतनानि जन्तोः । KK05-02-032-034a
तानि प्रीतान्येव तृष्णाक्षयान्ते तान्यव्यथो दुःखहीनः प्रणुद्यात् ॥ KK05-02-032-034c
नत्वेव मन्ये पुरुषस्य कर्म संवर्तते सुप्रयुक्तं यथावत् । KK05-02-032-035a
मातुः पितुः कर्मणाभिप्रसूतः संवर्धते विधिवद्भोजनेन ॥ KK05-02-032-035c
प्रियाप्रिये सुखदुःखे च राजन्निन्दाप्रशंसे च भजन्त एव । KK05-02-032-036a
परस्त्वेनं गर्हयतेऽपराधे प्रशंसते साधुवृत्तं तमेव ॥ KK05-02-032-036c
स त्वां गर्हे भारतानां विरोधादन्तो नूनं भविताऽयं प्रजानाम् । KK05-02-032-037a
नोचेदिदं तव कर्मापराधात्कुरून्दहेत्कृष्णवर्त्मेव कक्षम् ॥ KK05-02-032-037c
त्वमेवैको जातु पुत्रस्य राजन्वशं गत्वा सर्वलोके नरेन्द्र । KK05-02-032-038a
कामात्मनः श्लाघनो द्यूतकाले नागाः शमं पश्य विपाकमस्य ॥ KK05-02-032-038c
अनाप्तानां सङ्ग्रहात्त्वं नरेन्द्र तथाऽऽप्तानां निग्रहाच्चैव राजन् । KK05-02-032-039a
भूमिं स्फीतां दुर्बलत्वादनन्तामशक्तस्त्वं रक्षितुं कौरवेय ॥ KK05-02-032-039c
अनुज्ञातो रथवेगावधूतः श्रान्तोऽभिपद्ये शयनं नृसिंह । KK05-02-032-040a
प्रातः श्रोतारः कुरवः सभायामजातशत्रोर्वचनं समेताः ॥ KK05-02-032-040c
धृतराष्ट्र उवाच KK05-02-032-041
अनुज्ञातोऽस्यावसथं परेहि प्रपद्यस्व शयनं सूतपुत्र । KK05-02-032-041a
प्रातः श्रोतारः कुरवः सभायामजातशत्रोर्वचनं त्वयोक्तम् ॥ ॥ KK05-02-032-041c

इति श्रीमन्महाभारते उद्योगपर्वणि सञ्जययानपर्वणि द्वात्रिंशोऽध्यायः ॥ ॥ समाप्तं चेदं सञ्जययानपर्व ॥

5-32-8 अनुज्ञातः गच्छेत्युक्तः ॥ 8 ॥ 5-32-12 आत्ययिकम् आवश्यकम् ॥ 12 ॥ 5-32-14 कल्पं दृढम् । अकल्पः दर्शने असमर्थः । सक्तः निरुद्धः ॥ 5-32-15 प्राज्ञाः शूराः आर्याः साधवश्च तैर्गुप्तम् ॥ 5-32-17 नप्तुभिः पुत्रस्य पुत्रैः ॥ 5-32-18 अजातशत्रुं सुखेन अभिनन्द्य त्वां प्रति वदामि ॥ 5-32-19 ते तव अग्रे यत् त्मनः आत्मनः राज्यधनादिकम् अभूत् तत् बुभूषते प्राप्तुमिच्छति । निर्णिक्तौ दोषमलहीनौ धर्मार्थौ करोतीति स तथा । मनस्वी उदारः । दृष्टिमान् क्रान्तदर्शी ॥ 5-32-20 परो मुख्यः । आनृशंस्यं दया ततः रोषऽमुख्यः वित्तचयात् जात इति शेषः । वित्तसाध्यः यज्ञदानादिः । किञ्च तस्य बुद्धिः अनपार्थे न अपार्थे निष्प्रयोजने सप्रयोजने सुखप्रिये । सन्धिरार्षः । नु निश्चितं । रुध्यते अनुरुध्यते । अन्नादिजं देहपुष्टिसुखं पुत्रादि प्रियं च स परोपकारार्थमेवानुरुध्यते न कामकारेणेत्यर्थः ॥ 5-32-21 परेण ईश्वरेण प्रयुक्तः । नियमं निग्रहं मनुष्यात् मनुष्याकारात् दैवम् ऐश्वरं कर्म परं श्रेष्ठं मन्ये ॥ 5-32-22 अवर्णरूपम् अवर्णनीयरूपम् अवाच्यमित्यर्थः । यावत्परः उत्कृष्टः शत्रुः कामयते तिष्ठत्वयं कञ्चित्कालमितीच्छति तावदपरो नरः प्रशंसां लभते ॥ 5-32-25 तैर्विना एकाकिना संशयितं दुर्लभमपि आशंससे प्राप्तुम् । अस्य तव महान् पृथिव्याम् अधर्मशब्दोऽकीर्तिर्भवेत् । त्वत्समं तव युक्तम् ॥ 5-32-26 एवन्धर्मान् ईदृशधर्मयुक्तान् पुरुषान् ॥ 5-32-27 सहि स एव दिष्टस्य वशात् भाग्यवशात् अस्य कुलेजातत्वादिगुणजातस्य । कर्मणि षष्टी । इदं गुणषट्कमुपैति प्राप्नोति । त्वं तु कुले जातोपि केवलम् अनृतोपजीवित्वात् गुणान्तरहीनोऽसीति भावः ॥ 5-32-28 मन्त्र एव अग्र्यः श्रेष्ठो येषां ते मन्त्राग्र्याः भीष्मादयः तेषां धरो धर्ता । तैरेवम् उक्तरीत्या द्यूतं मा कुर्वित्युक्तः कथं नृशंसं कर्म पाण्डवप्रव्राजनं कुर्यान्न कथमपीत्यर्थः ॥ 5-32-29 अमी कर्णादयः । तेषां कुरुक्षये कुरुक्षयनिमित्तम् अयं राज्यं न देयमिति निश्चयः नियमेन उदपादि उत्पन्नः ॥ 5-32-30 अकालिकम् अकस्मादेव कुरवो नाभविष्यन् नष्टाःस्युः । तव पापेन कर्मणा प्रेरितोऽजातशत्रुः त्वयि पापम् इच्छेच्चेत् । नन्वेवं तर्हि तस्य गोत्रवधदोषः स्यादित्याशङ्क्याह त्वयीति । स्वनाशहेतुम् अधर्मं कुर्वति त्वयि चोरे इव पापं विसृज्य राजा निष्पापोऽनिन्द्यश्च स्यादित्यर्थः ॥ 5-32-31 ईश्वराणां देवानां विषयादन्यत्र किम् । सर्वं देवाधीनमित्यर्थः । यत्र यतः पार्थोऽर्जुनः परलोकं द्रष्टुम् अत्यक्रामत् । इमं लोकं सशरीर एव त्यक्तवान् । स तादृशः नारदादिवदुभयलोकसञ्चारयोग्यत्वेन साधूनां सम्मतोऽपि यदि तथा वनवासेन क्लेशसहः स्यात् तदा मनुष्यकारो नास्तीत्यस्मिन्नर्थे संशयो न ॥ 5-32-32 एतानिति । एतान् शौर्यादीन् गुणान् कर्मकृतान्कर्मानुसारेण वृद्धिह्रासयुक्तान् अवेक्ष्य अत एव भावाभावौ ऐश्वर्यानैश्वर्ये अनित्यौ आगमापायिनौ च अवेक्ष्य बलिराजा पूर्वपूर्वकर्मकारणपारम् अन्तम् अविन्दमानः सन् कालात् ईश्वरादन्यत्कारणम् अभ्युदयादिहेतुरन्यत्किञ्चिन्नास्तीति मेने ॥ 32 ॥ 5-32-33 अतः सर्वस्य देवायत्तत्वात् तृष्णाक्षयेणैव इन्द्रियप्रीतिः सम्पादनीया नतु नानायत्नसाध्यतत्तद्विषयसमर्पणेनेत्याह चक्षुरिति । ननु स्वस्वविषयालाभे तेषां कथं प्रीतिः स्यादित्याशङ्क्य तानि निरोधान्येवेत्याह तानीति । अव्यथः लाभालाभादौ वैषम्यहीनः प्रणुद्यात् स्वस्वगोचरेभ्यो निवर्तयेत् ॥ 5-32-34 एतद्दूषयति नत्विति । एव प्राप्ते सति अन्ये आहुः । तदेवाह पुरुषस्येति । संवर्तते सम्यक् फलवत् वर्तते । तदेवाह मातुरिति । कर्माभावे जन्मवृद्धी न स्यातामित्यर्थः ॥ 5-32-36 किञ्च नोचेदिति । इयं मया उच्यमानं कर्म पाण्डवेभ्यो राज्यांशप्रदानात्मकं तव नोचेत् सम्मतमिति शेषः । तर्हि तवापराधात् कृष्णवर्त्माग्निः कक्षं यथा दहति एवं कृष्णवर्त्मा कृष्ण एव मार्ग इव सुखप्रापको यस्य स कृष्णवर्त्माऽर्जुनः कुरून् दहेदित्यावृत्त्या योज्यम् ॥ 5-32-37 श्लाघनः आत्मानं कृतार्थं मन्वानः । नागाः न गतवानसि ॥ 5-32-38 अनाप्तानां कर्णादीनाम् । आप्तानां विदुरादीनाम् । निग्रहात् दूरीकरणात् ॥ 5-32-39 अवधूतस्तिरस्कृतः । अत एव श्रान्तः । प्रपद्ये प्राप्नुयाम् ॥ 5-32-40 आवसथं गृहम् । परेहि गच्छ । प्रपद्यस्व सेवस्व ॥