अध्यायः 031
युधिष्ठिरेण सञ्जयम् प्रति धृतराष्ट्रभीष्मयोरभिवादनपूर्वकं सन्धिकरणविज्ञापननिवेदनचोदनम् ॥ 1 ॥ तथा दुर्योधनम् प्रति तत्कृतानयोपेक्षणकथनपूर्वकं ग्रामपञ्चकदानेन सन्धिकरणसन्देशः ॥ 2 ॥
युधिष्ठिर उवाच KK05-02-031-001
उत सन्तमसन्तं वा बालं वृद्धं च सञ्जय । KK05-02-031-001a
उताबलं बलीयांसं धाता प्रकुरुते वशे ॥ KK05-02-031-001c
उत बालाय पाण्डित्यं पण्डितायोत बालताम् । KK05-02-031-002a
ददाति सर्वमीशानः पुरस्ताच्छुक्रमुच्चरन् ॥ KK05-02-031-002c
बलं जिज्ञासमानस्य आचक्षीथा यथातथम् । KK05-02-031-003a
अथ मन्त्रं मन्त्रयित्वा याथातथ्येन हृष्टवत् ॥ KK05-02-031-003c
गावल्गणे कुरून्गत्वा धृतराष्ट्रं महाबलम् । KK05-02-031-004a
अभिवाद्योपसङ्गृह्य ततः पृच्छेरनामयम् ॥ KK05-02-031-004c
ब्रूयाश्चैनं त्वमासीनं कुरुभिः परिवारितम् । KK05-02-031-005a
तवैव राजन्वीर्येण सुखं जीवन्ति पाण्डवाः ॥ KK05-02-031-005c
तव प्रसादाद्बालास्ते प्राप्ता राज्यमरिन्दम । KK05-02-031-006a
राज्ये तान्स्थापयित्वाऽग्रे नोपेक्षस्व विनश्यतः ॥ KK05-02-031-006c
सर्वमप्येतदेकस्य नालं सञ्जय कस्यचित् । KK05-02-031-007a
तात संहत्य जीवामो द्विषतां मा वशं गमः ॥ KK05-02-031-007c
तथा भीष्मं शान्तनवं भारतानां पितामहम् । KK05-02-031-008a
शिरसाऽभिवदेथास्त्वं मम नाम प्रकीर्तयन् ॥ KK05-02-031-008c
अभिवाद्य च वक्तव्यस्ततोऽस्माकं पितामहः । KK05-02-031-009a
भवता शन्तनोर्वंशो निमग्नः पुनरुद्धृतः ॥ KK05-02-031-009c
स त्वं कुरु तथा तात स्वमतेन पितामह । KK05-02-031-010a
यथा जीवन्ति ते पौत्राः प्रीतिमन्तः परस्परम् ॥ KK05-02-031-010c
तथैव विदुरं ब्रूयाः कुरूणां मन्त्रधारिणम् । KK05-02-031-011a
अयुद्धं सौम्य भाषस्व हितकामो युधिष्ठिरे ॥ KK05-02-031-011c
अथ दुर्योधनं ब्रूया राजपुत्रममर्षणम् । KK05-02-031-012a
मध्ये कुरूणामासीनमनुनीय पुनः पुनः ॥ KK05-02-031-012c
अपापां यदुपैक्षस्त्वं कृष्णामेतां सभागताम् । KK05-02-031-013a
तद्दुःखमतितिक्षाम मा वधीष्म कुरूनिति ॥ KK05-02-031-013c
एवं पूर्वापरान्क्लेशानतितिक्षन्त पाण्डवाः । KK05-02-031-014a
बलीयांसोऽपि सन्तो यत्तत्सर्वं कुरवो विदुः ॥ KK05-02-031-014c
यन्नः प्रव्राजयेः सौम्य अजिनैः प्रतिवासितान् । KK05-02-031-015a
तद्दुःखमतितिक्षाम मा वधीष्म कुरूनिति ॥ KK05-02-031-015c
यत्कुन्तीं समतिक्रम्य कृष्णां केशेष्वधर्षयत् । KK05-02-031-016a
दुःशासनस्तेऽनुमते तच्चास्माभिरुपेक्षितम् ॥ KK05-02-031-016c
अथोचितं स्वकं भागं लभेमहि परन्तप । KK05-02-031-017a
निवर्तय परद्रव्याद्बुद्धिं गृद्धां नरर्षभ ॥ KK05-02-031-017c
शान्तिरेवं भवेद्राजन्प्रीतिश्चैव परस्परम् । KK05-02-031-018a
राज्यैकदेशमपि नः प्रयच्छ शममिच्छताम् ॥ KK05-02-031-018c
अविस्थलं वृकस्थलं माकन्दीं वारणावतम् । KK05-02-031-019a
अवसानं भवत्वत्र किञ्चिदेकं च पञ्चमम् ॥ KK05-02-031-019c
भ्रातॄणां देहि पञ्चानां पञ्च ग्रामान्सुयोधन । KK05-02-031-020a
शान्तिर्नोस्तु महाप्राज्ञ ज्ञातिभिः सह सञ्जय ॥ KK05-02-031-020c
भ्राता भ्रातरमन्वेतु पिता पुत्रेण युज्यताम् । KK05-02-031-021a
स्मयमानाः समायान्तु पाञ्चालाः कुरुभिः सह ॥ KK05-02-031-021c
अक्षतान्कुरु पाञ्चालान्पश्येयमिति कामये । KK05-02-031-022a
सर्वे सुमनसस्तात शाम्याम भरतर्षभ ॥ KK05-02-031-022c
अलमेव शमायास्मि तथा युद्धाय सञ्जय । KK05-02-031-023a
धर्मार्थयोरलं चाहं मृदवे दारुणाय च ॥ ॥ KK05-02-031-023c
इति श्रीमन्महाभारते उद्योगपर्वणि सञ्जययानपर्वणि एकत्रिंशोऽध्यायः ॥
5-31-1 सन्तं साधुम् । असन्तं दुष्टम् । धाता ईश्वरः ॥ 1 ॥ 5-31-2 शुक्रं बीजभूतं प्राचीनं कर्म उच्चरन् उद्दीपयन् ॥ 2 ॥ 5-31-7 सर्वं ब्रह्माण्डम् । संहत्य एकीभूय ॥ 7 ॥ 5-31-13 अतितिक्षाम क्षान्तवन्तो वयम् तत्र हेतुः मा वधीष्मेति ॥ 13 ॥ 5-31-17 गृद्धां लुब्धाम् ॥ 17 ॥ 5-31-18 अवसानं वसतिस्थानम् ॥