अध्यायः 030
सञ्जयेन गमनाय युधिष्ठिराद्यामन्त्रणम् ॥ 1 ॥ युधिष्ठिरेण सञ्जयम् प्रति आभीष्मम् आखञ्जकुब्जं सर्वेषु यथायोग्यं वन्दनादिपूर्वकं स्वस्य कुशलनिवेदनचोदनम् ॥ 2 ॥ तथा दुर्योधनम् प्रति सन्धिविग्रहान्यतरपक्षस्वीकरणाभ्यनुज्ञानकथनचोदनम् ॥ 3 ॥
सञ्जय उवाच KK05-02-030-001
आमन्त्रये त्वां नरदेवदेव गच्छाम्यहं पाण्डव स्वस्ति तेऽस्तु । KK05-02-030-001a
कच्चिन्न वाचा वृजिनं हि किञ्चिदुच्चारितं मे मनसोऽभिषङ्गात् ॥ KK05-02-030-001c
जनार्दनं भीमसेनार्जुनौ च माद्रीसुतौ सात्यकिं चेकितानम् । KK05-02-030-002a
आमन्त्र्य गच्छामि शिवं सुखं वः सौम्येन मां पश्यत चक्षुषा नृपाः ॥ KK05-02-030-002c
युधिष्ठिर उवाच KK05-02-030-003
अनुज्ञातः सञ्जय स्वस्ति गच्छ न नः स्मरस्यप्रियं जातु विद्वन् । KK05-02-030-003a
विद्मश्च त्वां ते च वयं च सर्वे शुद्धात्मानं मध्यगतं सभास्थम् ॥ KK05-02-030-003c
आप्तो दूतः सञ्जय सुप्रियोऽसि कल्याणवाक् शीलवांस्तृप्तिमांश्च । KK05-02-030-004a
न मुह्येस्त्वं सञ्जय जातु मत्या न च क्रुद्ध्येरुच्यमानोऽपि तत्त्वम् ॥ KK05-02-030-004c
न मर्मगां जातु वक्ताऽसि रूक्षां नोपश्रुतिं कटुकां नोति शुष्काम् । KK05-02-030-005a
धर्मारामामर्थवतीमहिंस्रामेतां वाचं तव जानीम सूत ॥ KK05-02-030-005c
त्वमेव नः प्रियतमोऽसि दूत इहागच्छेद्विदुरो वा द्वितीयः । KK05-02-030-006a
अभीक्ष्णदृष्टोऽसि पुरातनस्त्वं धनञ्जयस्यात्मसमः सखाऽसि ॥ KK05-02-030-006c
इतो गत्वा सञ्जय क्षिप्रमेव उपातिष्ठेथा ब्राह्मणान्ये तदर्हाः । KK05-02-030-007a
विशुद्धवीर्याश्चरणोपपन्नाः कुले जाताः सर्वधर्मापपन्नाः ॥ KK05-02-030-007c
स्वाध्यायिनो ब्राह्मणा भिक्षवश्च तपस्विनो ये च नित्या वनेषु । KK05-02-030-008a
अभिवाद्य तान्मद्वचनेन वृद्धांस्तथैव तान्कुशलं तात पृच्छेः ॥ KK05-02-030-008c
पुरोहितं धृतराष्ट्रस्य राज्ञस्तथाचार्यानृत्विजो ये च तस्य । KK05-02-030-009a
तांश्चैव त्वं सहितान्वै यथावत्सङ्गच्छेथाः कुशलेनैव सूत ॥ KK05-02-030-009c
अश्रोत्रिया ये च वसन्ति वृद्धा मनस्विनः शीलबलोपपन्नाः । KK05-02-030-010a
आशंसन्तोऽस्माकमनुस्मरन्तो यथाशक्ति धर्ममात्रां चरन्तः ॥ KK05-02-030-010c
श्लाघस्व मां कुशलिनं स्म तेभ्यो ह्यनामयं तात पृच्छेर्जघन्यम् । KK05-02-030-011a
ये जीवन्ति व्यवहारेण राष्ट्रे पशूंश्च ये पालयन्तो वसन्ति । KK05-02-030-011c
'कृषीवला बिभ्रति ये च लोकं तेषां सर्वेषां कुशलं स्म पृच्छेः ॥' KK05-02-030-011e
आचार्य इष्टो नयगो विधेयो वेदानभीप्सन्ब्रह्मचर्यं चचार । KK05-02-030-012a
योऽस्त्रं चतुष्पात्पुनरेव चक्रे द्रोणः प्रसन्नोऽभिवाद्यस्त्वयासौ ॥ KK05-02-030-012c
अधीतविद्यश्चरणोपपन्नो योऽस्त्रं चतुष्पात्पुनरेव चक्रे । KK05-02-030-013a
गन्धर्वपुत्रप्रतिमं तरस्विनं तमश्वत्थामानं कुशलं स्म पृच्छेः ॥ KK05-02-030-013c
शारद्वतस्यावसथं स्म गत्वा महारथस्यात्मविदां वरस्य । KK05-02-030-014a
त्वं मामभीक्ष्णं परिकीर्तयन्वै कृपस्य पादौ सञ्जय पाणिना स्पृशेः ॥ KK05-02-030-014c
यस्मिन्शौर्यमानृशंस्यं तपश्च प्रज्ञा शीलं श्रुतरूपे धृतिश्च । KK05-02-030-015a
पादौ गृहीत्वा कुरुसत्तमस्य भीष्मस्य मां तत्र निवेदयेथाः ॥ KK05-02-030-015c
प्रज्ञाचक्षुर्यः प्रणेता कुरूणां बहुश्रुतो वृद्धसेवी मनीषी । KK05-02-030-016a
तस्मै राज्ञे स्थविरायाभिवाद्य आचक्षीथाः सञ्जय मामरोगम् ॥ KK05-02-030-016c
ज्येष्ठः पुत्रो धृतराष्ट्रस्य मन्दो मूर्खः शठः सञ्जय पापशीलः । KK05-02-030-017a
यस्यापवादः पृथिवीं याति सर्वां सुयोधनं कुशलं तात पृच्छेः ॥ KK05-02-030-017c
भ्राता कनीयानपि तस्य मन्दस्तथाशीलः सञ्जय सोपि शश्वत् । KK05-02-030-018a
महेष्वासः शूरतमः कुरूणां दुःशासनः कुशलं तात वाच्यः ॥ KK05-02-030-018c
यस्य कामो वर्तते नित्यमेव नान्यः शमाद्भारतानामिति स्म । KK05-02-030-019a
स बाह्लिकानामृषभो मनीषी पुनर्यथा माऽभिवदेत्प्रसन्नः ॥ KK05-02-030-019c
'भूरिश्रवास्तात निपातयोधी महेष्वासो रथिनामुत्तमोऽग्र्यः । KK05-02-030-020a
गत्वा स्म तं मद्वचनेन ब्रूयाः शल्यं तथा मद्वचनात्प्रतीतः ॥ KK05-02-030-020c
महेष्वासो रथिनामुत्तमोऽग्र्यः समः शलो रक्षिता पृष्ठमस्य । KK05-02-030-021a
ह्रीनिषेवो देविता यो मताक्षः सत्यव्रतः पुरुमित्रो जयश्च । KK05-02-030-021c
ये प्रस्थानं तत्र मे नाभ्यनन्दंस्तेषां सर्वेषां कुशलं तात पृच्छेः ॥' KK05-02-030-021e
गुणैरनेकैः प्रवरैश्च युक्तो विज्ञानवान्नैव च निष्ठुरो यः । KK05-02-030-022a
स्नेहादमर्षं सहते सदैव स सोमदत्तः पूजनीयो मतो मे ॥ KK05-02-030-022c
अर्हत्तमः कुरुषु सौमदत्तिः स नो भ्राता सञ्जय मत्सखा च । KK05-02-030-023a
महेष्वासो रथिनामुत्तमोऽर्हः सहामात्यः कुशलं तस्य पृच्छेः ॥ KK05-02-030-023c
ये चैवान्ये कुरुमुख्या युवानः पुत्राः पौत्रा भ्रातरश्चैव ये नः । KK05-02-030-024a
यंयमेषां मन्यसे येन योग्यं तत्तत्प्रोच्यानामयं सूत वाच्याः ॥ KK05-02-030-024c
ये राजानः पाण्डवायोधनाय समानीता धार्तराष्ट्रेण केचित् । KK05-02-030-025a
वशातयः साल्वकाः केकयाश्च तथाम्बष्ठा ये त्रिगर्ताश्च मुख्याः ॥ KK05-02-030-025c
प्राच्योदीच्या दाक्षिण्यात्याश्च शूरास्तथा प्रतीच्याः पार्वतीयाश्च सर्वे । KK05-02-030-026a
अनृशंसाः शीलवृत्तोपपन्नास्तेषां सर्वेषां कुशलं सूत पृच्छेः ॥ KK05-02-030-026c
हस्त्यारोहा रथिनः सादिनश्च पदातयश्चार्यसङ्घा महान्तः । KK05-02-030-027a
आख्याय मां कुशलिनं स्म नित्यमनामयं परिपृच्छेः समग्रान् ॥ KK05-02-030-027c
तथा राज्ञो ह्यर्थयुक्तानमात्यान्दौवारिकान्ये च सेनां नयन्ति । KK05-02-030-028a
आयव्ययं ये गमयन्ति नित्यमर्थांश्च ये महतश्चिन्तयन्ति ॥ KK05-02-030-028c
वृन्दारकं कुरुमध्येष्वमूढं महाप्रज्ञं सर्वधर्मोपपन्नम् । KK05-02-030-029a
न तस्य युद्धं रोचते वै कदाचिद्वैश्यापुत्रं कुशलं तात पृच्छेः ॥ KK05-02-030-029c
निकर्तने देवने योऽद्वितीयश्छन्नोपधः साधुदेवी मताक्षः । KK05-02-030-030a
यो दुर्जयो देवरथेन सङ्ख्ये स चित्रसेनः कुशलं तात वाच्यः ॥ KK05-02-030-030c
गान्धारराजः शकुनिः पार्वतीयो निकर्तने योऽद्वितीयोऽक्षदेवी । KK05-02-030-031a
मानं कुर्वन्धार्तराष्ट्रस्य सूत मिथ्याबुद्धेः कुशलं तात पृच्छेः ॥ KK05-02-030-031c
यः पाण्डवानेकरथेन वीरः समुत्सहत्यप्रधृष्यान्विजेतुम् । KK05-02-030-032a
यो मुह्यतां मोहयिताऽद्वितीयो वैकर्तनः कुशलं तस्य पृच्छेः ॥ KK05-02-030-032c
स एव भक्तः स गुरुः स भर्ता स वै पिता स च माता सुहृच्च । KK05-02-030-033a
अगाधबुद्धिर्विदुरो दीर्घदर्शी स नो मन्त्री कुशलं तं स्म पृच्छेः ॥ KK05-02-030-033c
वृद्धाः स्त्रियो याश्च गुणोपपन्ना ज्ञायन्ते नः सञ्जय मातरस्ताः । KK05-02-030-034a
ताभिः सर्वाभिः सहिताभिः समेत्य स्त्रीभिः सवृद्धाभिरभिवादं वदेथाः ॥ KK05-02-030-034c
कच्चित्पुत्रा जीवपुत्राः सुसम्यग्वर्तन्ते वो वृत्तिमनृशंसरूपाः । KK05-02-030-035a
इति स्मोक्त्वा सञ्जय ब्रूहि पश्चादजातशत्रुः कुशली सपुत्रः ॥ KK05-02-030-035c
राज्ञो भार्याः सञ्जय वेत्थ तत्र तासां सर्वासां कुशलं तात पृच्छेः । KK05-02-030-036a
सुसङ्गुप्ताः सुरभयोऽनवद्याः कच्चिद्गृहानावसथाप्रमत्ताः ॥ KK05-02-030-036c
कच्चिद्वृत्तिं श्वशुरेषु भद्राः कल्याणीं वर्तध्वमनृशंसरूपाम् । KK05-02-030-037a
यथा च वः स्युः पतयोऽनुकूलास्तथा वृत्तिमात्मनः स्थापयध्वम् ॥ KK05-02-030-037c
या नः स्नुषाः सञ्जय वेत्थ तत्र प्राप्ताः कुलेभ्यश्च गुणोपपन्नाः । KK05-02-030-038a
प्रजावत्यो ब्रूहि समेत्य ताश्च युधिष्ठिरो वोऽभ्यवदत्प्रसन्नः ॥ KK05-02-030-038c
कन्याः स्वजेथाः सदनेषु सञ्जय अनामयं मद्वचनेन पृष्ट्वा । KK05-02-030-039a
कल्याणा वः सन्तु पतयोऽनुकूला यूयं पतीनां भवतानुकूलाः ॥ KK05-02-030-039c
अलङ्कृता वस्त्रवत्यः सुगन्धा अबीभत्साः सुखिता भोगवत्यः । KK05-02-030-040a
लघु यासां दर्शनं वाक्च लघ्वी वेशस्त्रियः कुशलं तात पृच्छेः ॥ KK05-02-030-040c
दास्यः स्युर्या ये च दासाः कुरूणां तदाश्रया बहवः कुब्जखञ्जाः । KK05-02-030-041a
आख्याय मां कुशलिनं स्म तेभ्योऽप्यनामयं परिपृच्छेर्जघन्यम् । KK05-02-030-041c
कच्चिद्वृत्तिं वर्तते वै पुराणीं कच्चिद्भोगान्दार्तराष्ट्रो ददाति । KK05-02-030-042a
अङ्गहीनान्कृपणान्वामनान्वायानानृशंस्याद्धार्तराष्ट्रो बिभर्ति ॥ KK05-02-030-042c
अन्धाश्च सर्वे बधिरास्तथैव हस्ताजीवा बहवो येऽत्र सन्ति । KK05-02-030-043a
आख्याय मां कुशलिनं स्म तेभ्योऽप्यनामयं परिपृच्छेर्जघन्यम् ॥ KK05-02-030-043c
मा भैष्ट दुःखेन कुजीवितेन नूनं कृतं परलोकेषु पापम् । KK05-02-030-044a
निगृह्य शत्रून्सुहृदोऽनुगृह्य वासोभिरन्नेन च वो भरिष्ये ॥ KK05-02-030-044c
'न चाप्येतच्छक्यमेकेन वक्तुं नानादेशा बहवो जातिसङ्घाः । KK05-02-030-045a
विप्रोषितो बालवद्द्रष्टुमिच्छन्नमस्येऽहं सञ्जय भैमसेनान् । KK05-02-030-045c
ते मे यथा वाचमिमां यथोक्तां त्वयोच्यमानां श्रृणुयुस्तथा कुरु ॥ KK05-02-030-045e
सन्त्येव मे ब्राह्मणेभ्यः कृतानि भावीन्यथो नो बत वर्तयन्ति । KK05-02-030-046a
तान्पश्यामि युक्तरूपांस्तथैव तामेव सिद्धिं श्रावयेथा नृपं तम् ॥ KK05-02-030-046c
ये चानाथा दुर्बलाः सर्वकालमात्मन्येव प्रयतन्तेऽथ मूढाः । KK05-02-030-047a
तांश्चापि त्वं कृपणान्सर्वथैव ह्यस्मद्वाक्यात्कुशलं तात पृच्छेः ॥ KK05-02-030-047c
ये चाप्यन्ये संश्रिता धार्तराष्ट्रान्नानादिग्भ्योऽभ्यागताः सूतपुत्र । KK05-02-030-048a
दृष्ट्वा तांश्चैवार्हतश्चापि सर्वान्सम्पृच्छेथाः कुशलं चाव्ययं च ॥ KK05-02-030-048c
एवं सर्वानागताभ्यागतांश्च राज्ञो दूतान्सर्वदिग्भ्योभ्युपेतान् । KK05-02-030-049a
पृष्ट्वा सर्वान्कुशलं तांश्च सूत पश्चादहं कुशली तेषु वाच्यः ॥ KK05-02-030-049c
न हीदृशाः सन्त्यपरे पृथिव्यां ये योधका धार्तराष्ट्रेण लब्धाः । KK05-02-030-050a
धर्मस्तु नित्यो मम धर्म एव महाबलः शत्रुनिबर्हणाय ॥ KK05-02-030-050c
इदं पुनर्वचनं धार्तराष्ट्रं सुयोधनं सञ्जय श्रावयेथाः । KK05-02-030-051a
यस्ते शरीरे हृदयं दुनोति कामः कुरूनसपत्नोऽनुशिष्याम् ॥ KK05-02-030-051c
न विद्यते युक्तिरेतस्य काचिन्नैवं विधास्यामि यथा प्रियं ते । KK05-02-030-052a
ददस्व वा शक्रपुरीं ममैव युध्वस्व वा भारतमुख्यवीर ॥ ॥ KK05-02-030-052c
इति श्रीमन्महाभारते उद्योगपर्वणि सञ्जययानपर्वणि त्रिंशोऽध्यायः ॥
5-30-1 अभिषङ्गात् आवेशात् ॥ 5-30-5 उपश्रुतिं वार्ताम् । रूक्षां मर्मगाम् । कटुकां नीरसाम् ॥ 5 ॥ 5-30-7 चरणं ब्रह्मचर्येणाध्ययनम् ॥ 5-30-10 अश्रोत्रियाः अत्रैवर्णिकाः शूद्रादयः । धर्ममात्रां धर्मलेशं चरन्तः ॥ 5-30-11 श्लाघ्यस्व स्तुहि । जघन्यं पश्चात्तेभ्यस्तेषाम् अनामयं पृच्छेः । व्यवहारेण वाणिज्यादिना पालयन्तः स्थानाधिकारिणः ॥ 5-30-12 चतुष्पात् मन्त्र उपचारः प्रयोगः संहारश्चेति चत्वारः पादा अस्येति अस्त्रम् ॥ 5-30-13 गन्धर्वेति सौन्दर्यं सङ्गीतं च तस्मिन् द्योतितम् ॥ 5-30-25 पाण्डवायोधनाय पाण्डवैः सह युद्धाय ॥ 5-30-29 वृन्दारकं श्रेष्ठम् ॥ 5-30-30 निकर्तनेऽर्थापहारे । छन्नोपधो गुप्तछलः ॥ 5-30-32 मुह्यतां धार्तराष्ट्राणाम् ॥ 5-30-40 लघु शीघ्रहारि । वेशस्त्रियो वेश्याः ॥ 5-30-44 शत्रून् धार्तराष्ट्रान् निगृह्य वः युष्मान् भरिष्ये पोषयिष्ये इति ब्रूया इति शेषः ॥ 44 । 5-30-46 मे मया कृतानि वत्सरदेयानि नो वर्तयन्ति न चालयन्ति । त्वदीया अधिकारिणः तान्यहं यथा यथावत्पश्यामि तथैव तां सिद्धिं त्वद्दत्तं सम्यक् परिपालयामीति दूतद्वारा मां श्रावयेथा इति तं नृपं दुर्योधनं ब्रूहीति शेषः ॥ 46 ॥ 5-30-47 आत्मन्येव प्रयतन्ते न तु कर्तुं शक्नुवन्ति ॥ 5-30-50 नित्यः अविनाशिफलः ॥ 50 ॥ 5-30-52 युक्तिः सम्भावना एतस्यार्थस्य न विद्यते । शक्रपुरीम् इन्द्रप्रस्थम् ॥ 52 ॥