अध्यायः 029
श्रीकृष्णेन स्वस्य कुरुपाण्डवेषु तुल्यवृत्तित्वकथनपूर्वकं कर्मणामवश्यानुष्ठेयत्वसमर्थनम् ॥ 1 ॥ तथा सञ्जयम् प्रति दुर्योधनादिकृतानयस्मारणपूर्वकं स्वस्य सन्ध्यर्थं तत्रागमनकथनम् ॥ 2 ॥ तथा पाण्डवानां शमाशमान्यतरपक्षानुसारित्वकथनपूर्वकं धृतराष्ट्रम् प्रति यथाभिलषितकरणकथनचोदनम् ॥ 3 ॥
वासुदेव उवाच KK05-02-029-001
अविनाशं सञ्जय पाण्डवानामिच्छाम्यहं भूतिमेषां प्रियं च । KK05-02-029-001a
तथा राज्ञो धृतराष्ट्रस्य सूत समाशंसे बहुपुत्रस्य वृद्धिम् ॥ KK05-02-029-001c
कामो हि मे सञ्जय नित्यमेव नान्यद्ब्रूयां तान्प्रति शाम्यतेति । KK05-02-029-002a
राज्ञश्च हि प्रियमेतच्छृणोमि मन्ये चैतत्पाण्डवानां समक्षम् ॥ KK05-02-029-002c
सुदुष्करस्तत्र शमो हि नूनं प्रदर्शितः सञ्जय पाण्डवेन । KK05-02-029-003a
यस्मिन्गृद्धो धृतराष्ट्रः सपुत्रः कस्मादेषां कलहो नावमूर्च्छेत् ॥ KK05-02-029-003c
न त्वं धर्मं विचरं सञ्जयेह मत्तश्च जानामि युधिष्ठिराच्च KK05-02-029-004a
अथो कस्मात्सञ्जय पाण्डवस्य उत्साहिनः पूरयतः स्वकर्म ॥ KK05-02-029-004c
यथाख्यातमावसतः कुटुम्बे पुरा कस्मान्साधुविलोपमात्थ । KK05-02-029-005a
अस्मिन्विधौ वर्तमाने यथावदुच्चावचा मतयो ब्राह्मणानाम् ॥ KK05-02-029-005c
कर्मणाऽऽहुः सिद्धिमेके परत्र हित्वा कर्म विद्यया सिद्धिमेके । KK05-02-029-006a
नाभुञ्जानो भक्ष्यभोज्यस्य तृप्येद्विद्वानपीह विहितं ब्राह्मणानाम् ॥ KK05-02-029-006c
या वै विद्याः साधयन्तीह कर्म तासां फलं विद्यते नेतरासाम् । KK05-02-029-007a
तत्रेह वै दृष्टफलं तु कर्म पीत्वोदकं शाम्यति तृष्णयाऽऽर्तः ॥ KK05-02-029-007c
सोऽयं विधिर्विहितः कर्मणैव संवर्तते सञ्जय तत्र कर्म । KK05-02-029-008a
तत्र योऽन्यत्कर्मणः साधु मन्येन्मोघं तस्यालपितं दुर्बलस्य ॥ KK05-02-029-008c
कर्मणाऽमी भान्ति देवाः परत्र कर्मणैवेह प्लवते मातरिश्वा । KK05-02-029-009a
अहोरात्रे विदधत्कर्मणैव अतन्द्रितो नित्यमुदेति सूर्यः ॥ KK05-02-029-009c
मासार्धमासानथ नक्षत्रयोगानतन्द्रितश्चन्द्रमाश्चाभ्युपैति । KK05-02-029-010a
अतन्द्रितो दहते जातवेदाः समिद्ध्यमानः कर्म कुर्वन्प्रजाभ्यः ॥ KK05-02-029-010c
अतन्द्रिता भारमिमं महान्तं बिभर्ति देवी पृथिवी बलेन । KK05-02-029-011a
अतन्द्रिताः शीघ्रमपो वहन्ति सन्तर्पयन्त्यः सर्वभूतानि नद्यः ॥ KK05-02-029-011c
अतन्द्रितो वर्षति भूरितेजाः सन्नादयन्नन्तरिक्षं दिशश्च । KK05-02-029-012a
अतन्द्रितो ब्रह्मचर्यं चचार श्रेष्ठत्वमिच्छन्बलभिद्देवतानाम् ॥ KK05-02-029-012c
हित्वा सुखं मनसश्च प्रियाणि तेन शक्रः कर्मणा श्रैष्ठ्यमाप । KK05-02-029-013a
सत्यं धर्मं पालयन्नप्रमत्तो दमं तितिक्षां समतां प्रियं च ॥ KK05-02-029-013c
एतानि सर्वाण्युपसेवमानो यो देवराज्यं मघवान्प्राप मुख्यम् । KK05-02-029-014a
बृहस्पतिर्ब्रह्मचर्यं चचार समीहितः संशितात्मा यथावत् ॥ KK05-02-029-014c
हित्वा सुखं प्रतिरुध्येन्द्रियाणि तेन देवानामगमद्गौरवं सः । KK05-02-029-015a
तथा नक्षत्राणि कर्मणाऽमुत्र भान्ति रुद्रादित्या वसवोऽथापि विश्वे ॥ KK05-02-029-015c
यमो राजा वैश्रवणः कुबेरो गन्धर्वयक्षाप्सरसश्च सूत । KK05-02-029-016a
ब्रह्मविद्यां ब्रह्मचर्यं क्रियां च निषेवमाणा ऋषयोऽमुत्र भान्ति ॥ KK05-02-029-016c
जानन्निमं सर्वलोकस्य धर्मं विप्रेन्द्राणां क्षत्रियाणां विशां च । KK05-02-029-017a
स कस्मात्त्वं जानतां ज्ञानवान्सन्व्यायच्छसे सञ्जय कौरवार्थे ॥ KK05-02-029-017c
आम्नायेषु नित्यसंयोगमस्य तथाऽश्वमेधे राजसूये च विद्धि । KK05-02-029-018a
संयुज्यते धनुषा वर्मणा च हस्त्यश्वाद्यै रथशस्त्रैश्च भूयः ॥ KK05-02-029-018c
ते चेदिमे कौरवाणामुपायमवगच्छेयुवधेनैव पार्थाः । KK05-02-029-019a
धर्मत्राणं पुण्यमेषां कृतं स्यादार्ये वृत्ते भीमसेनं निगृह्य ॥ KK05-02-029-019c
ते चेत्पित्र्ये कर्मणि वर्तमाना आपद्येरन्दिष्टवशेन मृत्युम् । KK05-02-029-020a
यथाशक्त्यापूरयन्तः स्वकर्म तदप्येषां निधनं स्यात्प्रशस्तम् ॥ KK05-02-029-020c
उताहो त्वं मन्यसे शाम्यमेव राज्ञां युद्धे वर्तते धर्मतन्त्रम् । KK05-02-029-021a
अयुद्धे वा वर्तते धर्मतन्त्रं तथैव ते वाचमिमां शृणोमि ॥ KK05-02-029-021c
चातुर्वर्ण्यस्य प्रथमं संविभागमवेक्ष्य त्वं सञ्जय स्वं च कर्म । KK05-02-029-022a
निशम्याथो पाण्डवानां च कर्म प्रशंस वा निन्द वा या मतिस्ते ॥ KK05-02-029-022c
अधीयीत ब्राह्मणो वै यजेत दद्यादीयात्तीर्थमुख्यानि चैव । KK05-02-029-023a
अध्यापयेद्याजयेच्चापि याज्यान्प्रतिग्रहान्वा विहितान्प्रतीच्छेत् ॥ KK05-02-029-023c
'अधीयीत क्षत्रियोऽथो यजेत दद्याद्धनं न तु याचेत किञ्चित् । KK05-02-029-024a
न याजयेन्न तु चाध्यापयीत एवं स्मृतः क्षत्रधर्मः पुराणः ॥' KK05-02-029-024c
तथा राजन्यो रक्षणं वै प्रजानां कृत्वा धर्मेणाप्रमत्तोऽथ दत्त्वा । KK05-02-029-025a
यज्ञैरिष्ट्वा सर्ववेदानधीत्य दारान्कृवा पुण्यकृदावसेद्गृहान् ॥ KK05-02-029-025c
स धर्मात्मा धर्ममधीत्य पुण्यं यदृच्छया व्रजति ब्रह्मलोकम् । KK05-02-029-026a
वैश्योऽधीत्य कृषिगोरक्षपण्यैर्वित्तं चिन्वन्पालयन्नप्रमत्तः ॥ KK05-02-029-026c
प्रियं कुर्वन्ब्राह्मणक्षत्रियाणां धर्मशीलः पुण्यकृदावसेद्गृहान् । KK05-02-029-027a
परिचर्या वन्दनं ब्राह्मणानां नाधीयीत प्रतिषिद्धोऽस्य यज्ञः । KK05-02-029-027c
नित्योत्थितो भूतयेऽतन्द्रितः स्यादेवं स्मृतः शूद्रधर्मः पुराणः ॥ KK05-02-029-027e
एतान्राजा पालयन्नप्रमत्तो नियोजयन्सर्ववर्णान्स्वधर्मे । KK05-02-029-028a
अकामात्मा समवृत्तिः प्रजासु नाधार्मिकाननुरुध्येत कामात् ॥ KK05-02-029-028c
श्रेयांस्तस्माद्यदि विद्येत कश्चिदभिज्ञातः सर्वधर्मोपपन्नः । KK05-02-029-029a
स तं द्रष्टुमनुशिष्यन्प्रजानां न चैतद्बुध्येदिति तस्मिन्नसाधुः ॥ KK05-02-029-029c
यदा गृध्येत्परभूतौ नृशंसो विधिप्रकोपाद्बलमाददानः । KK05-02-029-030a
ततो राज्ञामभवद्युद्धमेतत्तत्र जातं वर्म शस्त्रं धनुश्च । KK05-02-029-030c
इन्द्रेणैतद्दस्युवधाय कर्म उत्पादितं वर्म शस्त्रं धनुश्च ॥ KK05-02-029-030e
तत्र पुण्यं दस्युवधेन लभ्यतेसोऽयं दोषः कुरुभिस्तीव्ररूपः । KK05-02-029-031a
अधर्मज्ञैर्धर्ममबुध्यमानैः प्रादुर्भूतः सञ्जय साधु तन्न ॥ KK05-02-029-031c
तत्र राजा धृतराष्ट्रः सपुत्रो धर्म्यं हरेत्पाण्डवानामकस्मात् । KK05-02-029-032a
नावेक्षन्ते राजधर्मं पुराणं तदन्वयाः कुरवः सर्व एव ॥ KK05-02-029-032c
स्तेनो हरेद्यत्र धनं ह्यदृष्टः प्रसह्य वा यत्र हरेत दृष्टः । KK05-02-029-033a
उभौ गर्ह्यौ भवतः सञ्जयैतौ किं वै पृथक्त्वं धृतराष्ट्रस्य पुत्रे ॥ KK05-02-029-033c
सोऽयं लोभान्मन्यते धर्ममेतं यमिच्छति क्रोधवशानुगामी । KK05-02-029-034a
भागः पुनः पाण्डवानां निविष्टस्तं नः कस्मादाददीरन्परे वै ॥ KK05-02-029-034c
अस्मिन्पदे युध्यतां नो वधोऽपि श्लाघ्यः पित्र्यं परराज्याद्विशिष्टम् । KK05-02-029-035a
एतान्धर्मान्कौरवाणां पुराणानाचक्षीथाः सञ्जय राजमध्ये ॥ KK05-02-029-035c
एते मदान्मृत्युवशाभिपन्नाः समानीता धार्तराष्ट्रेण मूढाः । KK05-02-029-036a
इदं पुनः कर्म पापीय एव सभामध्ये पश्य वृत्तं कुरूणाम् ॥ KK05-02-029-036c
प्रियां भार्यां द्रौपदीं पाण्डवानां यशस्विनीं शीलवृत्तोपपन्नाम् । KK05-02-029-037a
यदुपैक्षन्त कुरवो भीष्ममुख्याः कामानुगेनोपरुद्धां व्रजन्तीम् ॥ KK05-02-029-037c
तां चेत्तदा ते सकुमारवृद्धा अवारयिष्यन्कुरवः समेताः । KK05-02-029-038a
मम प्रियं धृतराष्ट्रोऽकरिष्यत्पुत्राणां च कृतमस्याभविष्यत् ॥ KK05-02-029-038c
दुःशासनः प्रतिलोम्यान्निनाय सभामध्ये श्वशुराणां च कृष्णाम् । KK05-02-029-039a
सा तत्र नीता करुणं व्यपेक्ष्य नान्यं क्षत्तुर्नाथमवाप किञ्चित् ॥ KK05-02-029-039c
कार्पण्यादेव सहितास्तत्र भूपा नाशक्नुवन्प्रतिवक्तुं सभायाम् । KK05-02-029-040a
एकः क्षत्ता धर्म्यमर्थं ब्रुवाणो धर्मबुद्ध्या प्रत्युवाचाल्पबुद्धिम् ॥ KK05-02-029-040c
अबुद्ध्वा त्वं धर्ममेतं सभायामथेच्छसे पाण्डवस्योपदेष्टुम् । KK05-02-029-041a
कृष्णा त्वेतत्कर्म चकार शुद्धं सुदुष्करं तत्र सभां समेत्य ॥ KK05-02-029-041c
येन कृच्छ्रात्पाण्डवानुज्जहार तथाऽऽत्मानं नौरिव सागरौघात् । KK05-02-029-042a
यत्राब्रवीत्सूतपुत्रः सभायां कृष्णां स्थितां श्वशुराणां समीपे ॥ KK05-02-029-042c
न ते गतिर्विद्यते याज्ञसेनि प्रपद्येथा धार्तराष्ट्रस्य वेश्म । KK05-02-029-043a
पराजितास्ते पतयो न सन्ति पतिं चान्यं भामिनि त्वं वृणीष्व ॥ KK05-02-029-043c
यो बीभत्सोर्हृदये प्रोत आसीदस्थि छिन्दन्मर्मघाती सुघोरः । KK05-02-029-044a
कर्णाच्छरो वाङ्मयस्तिग्मतेजाः प्रतिष्ठितो हृदये फाल्गुनस्य ॥ KK05-02-029-044c
कृष्णाजिनानि परिधित्समानान्दुःशासनः कटुकान्यभ्यभाषत् । KK05-02-029-045a
एते सर्वे षण्डतिला विनष्टाः क्षयं गता नरकं दीर्घकालम् ॥ KK05-02-029-045c
गान्धारराजः शकुनिर्निकृत्या यदब्रवीद्द्यूतकाले स पार्थम् । KK05-02-029-046a
पराजितो नकुलः किं तवास्ति कृष्णया त्वं दीव्य वै याज्ञसेन्या । KK05-02-029-046c
जानासि त्वं सञ्जय सर्वमेतत्द्यूते वाक्यं गर्ह्यमेवं यथोक्तम् ॥ KK05-02-029-046e
स्वयं त्वहं प्रार्थये तत्र गन्तुं समाधातुं कार्यमेतद्विपन्नम् । KK05-02-029-047a
'जानासि त्वं धार्तराष्ट्रस्य मोहं दुरात्मनः पापवशानुगस्य ' ॥ KK05-02-029-047c
अहापयित्वा यदि पाण्डवार्थं शमं कुरूणामपि चेच्छकेयम् । KK05-02-029-048a
पुण्यं च मे स्याच्चरितं महोदयं मुच्येरंश्च कुरवो मृत्युपाशात् ॥ KK05-02-029-048c
अपि मे वाचं भाषमाणस्य काव्यां धर्मारामामर्थवतीमहिंस्राम् । KK05-02-029-049a
अवेक्षेरन्धार्तराष्ट्राः समक्षं मां च प्राप्तं कुरवः पूजयेयुः ॥ KK05-02-029-049c
अतोऽन्यथा रथिना फाल्गुनेन भीमेन चैवाहवदंशितेन । KK05-02-029-050a
बलोत्सिक्तान्धार्तराष्ट्रांश्च विद्धि प्रदह्यमानान्कर्मणा स्वेन पापान् ॥ KK05-02-029-050c
पराजितान्पाण्डवेयांस्तु वाचो रौद्रा रूक्षा भाषते धार्तराष्ट्रः । KK05-02-029-051a
गदाहस्तो भीमसेनोऽप्रमत्तो दुर्योधनं स्मारयिता हि काले ॥ KK05-02-029-051c
सुयोधनो मन्युमयो महाद्रुमः स्कन्धः कर्णः शकुनिस्तस्य शाखाः । KK05-02-029-052a
दुःशासनः पुष्पफले समृद्धे मूलं राजा धृतराष्ट्रोऽमनीषी ॥ KK05-02-029-052c
युधिष्ठिरो धर्ममयो महाद्रुमः स्कन्धोऽर्जुनो भीमसेनोऽस्य शाखाः । KK05-02-029-053a
माद्रीपुत्रौ पुष्पफले समृद्धे मूलं त्वहं ब्रह्म च ब्राह्मणाश्च ॥ KK05-02-029-053c
'वनं राजा धृतराष्ट्रः सपुत्रः सिंहा वने सञ्जय पाण्डवेयाः । KK05-02-029-054a
सिंहाभिगुप्तं न वनं विनश्येत्सिंहो न नश्येत वनाभिगुप्तः ॥ KK05-02-029-054c
निर्वनो वध्यते सिंहो निःसिंहं वध्यते वनम् । KK05-02-029-055a
तस्मात्सिंहो वनं रक्षेद्वनं सिंहं च पालयेत् ॥' KK05-02-029-055c
वनं राजा धृतराष्ट्रः वने व्याघ्राश्च पाण्डवाः । KK05-02-029-056a
मा वनं छिन्धि सव्याघ्रं व्याघ्रा नेशुर्वनं विना ॥ KK05-02-029-056c
निर्वनो वध्यते व्याघ्रो निर्व्याघ्रं छिद्यते वनम् । KK05-02-029-057a
तस्माद्व्याघ्रो वनं रक्षेद्वनं व्याघ्रं च पालयेत् ॥ KK05-02-029-057c
लताधर्मा धार्तराष्ट्राः सालाः सञ्जय पाण्डवाः । KK05-02-029-058a
न लता वर्धते जातु महाद्रुममनाश्रिता ॥ KK05-02-029-058c
स्थिताः शुश्रूषितुं पार्थाः स्थिता योद्धुमरिन्दमाः । KK05-02-029-059a
यत्कृत्यं धृतराष्ट्रस्य तत्करोतु नराधिपः ॥ KK05-02-029-059c
स्थिताः शमे महात्मानः पाण्डवा धर्मचारिणः । KK05-02-029-060a
योधाः समर्थास्तद्विद्वन्नाचक्षीथा यथातथम् ॥ ॥ KK05-02-029-060c
इति श्रीमन्महाभारते उद्योगपर्वणि सञ्जययानपर्वणि एकोनत्रिंशोऽध्यायः ॥
5-29-2 शाम्यतेति वचनादन्यत्तान्प्रति न ब्रूयाम् । पाण्डवानां समक्षं राज्ञो युधिष्ठिराच्च एतदेव शृणोमि । अहं च एतन्मन्ये मानयामि ॥ 2 ॥ 5-29-3 तत्र राज्ये निमित्ते । गृद्धः लिप्सावान् । एवं सति एषां कौरवाणां कस्माद्धेतोः कलहः नावमूर्च्छेत् ॥ 3 ॥ 5-29-4 विचरं विचलितम् । पूरयतः पालयतः ॥ 4 ॥ 5-29-5 यथाख्यातं प्रसिद्धिमनतिक्रम्य आवसतः अधितिष्टतः साधुविलोपं धर्मलोपं युधिष्ठिरे कस्माद्धेतोः आत्थ उक्तवान् त्वम् । अस्मिन्विधौ ॥ 5 ॥ 5-29-17 व्यायच्छसे निग्रहं करोषि ॥ 17 ॥ 5-29-18 विद्या धर्मः शौर्यं च युधिष्ठिरे पुष्कलमस्तीति नायमन्येन शिक्षणीयो जेतुं वा शक्य इत्यर्थः ॥ 18 ॥ 5-29-19 कौरवाणाम् अवधेन उपायम् । राज्यप्राप्ताविति शेषः । एषाम् एतैः । भीमसेनम् आर्ये वृत्ते अहिंसायां निगृह्य पुण्यमेव कृतं स्यात् ॥ 19 ॥ 5-29-21 शाम्यमेव शमः कार्यएवेति मन्यसे तर्हि धर्मतन्त्रं धर्मानुष्ठानं युद्धपक्षेऽस्ति उत अयुद्धपक्षे । तयोर्मध्ये यदेव वक्ष्यसि तथैव ते वाचं शृणोमि करिष्यामीत्यर्थः ॥ 21 ॥ 5-29-26 सः क्षत्रियः अधीत्य प्राप्य ॥ 26 ॥ 5-29-29 तस्मात् राज्ञः श्रेयान् प्रशस्ततरः अभिज्ञातः ज्ञानतः धर्मतश्च यदि कश्चिदस्ति स तं युधिष्ठिरं प्रजानां कर्मणि षष्ठी । प्रजाः द्रष्टुं राज्यं प्राप्तुमित्यर्थः । अनुशिष्यन् अनुशासितुमिच्छन् एतन्मदुक्तं धर्मजातं युधिष्ठिरेऽस्तीति बुध्येत् । नच तस्मिन्नसाधुः युधिष्ठिरेऽसाधुरधर्मो न चास्तीत्यपि बुध्येत् ॥ 29 ॥ 5-29-30 परभूतौ परैश्वर्ये नूशंसश्चोरकल्पो राजा विधिप्रकोपात् दैवप्रातिकूल्यात् गृद्ध्येत् । ततो हेतोः राज्ञां परस्परं युद्धं समभवत् । कर्म युद्धम् । वर्म कवचम् । शस्त्रं खड्गादि धनुश्चेति ॥ 30 ॥ 5-29-31 कुरुभिर्निमित्तभूतैरयं दोषः वञ्चनारूपः प्रादुर्भूतः ॥ 31 ॥ 5-29-32 धर्म्यं धर्मादागतं पित्र्यं राज्यम् । तदन्वयास्तदनुसारिणः ॥ 32 ॥ 5-29-33 पृथक्त्वं स्तेनादन्यत्वम् ॥ 33 ॥ 5-29-34 एतं छलेन राज्यापहारम् । निविष्टः वनवासादूर्ध्वं राज्यं ग्राह्यमिति कौरवेषु न्यासरूपेण स्थितः तं भागं नः अस्माकं परे कस्मात् आददीरन् गृहीतवन्तः ॥ 34 ॥ 5-29-35 पदे पदनीये अवश्यग्राह्ये भागे निमित्ते ॥ 35 ॥ 5-29-37 कामानुगेन रजसा । उपरुद्धां गृहकर्मतो निरुद्धाम् ॥ 37 ॥ 5-29-39 प्रातिलोम्यात् अक्रमेण ॥ 39 ॥ 5-29-40 कार्पण्यात् दैन्यात् ॥ 40 ॥ 5-29-41 पाण्डवस्य धर्मम् उपदेष्टुम् इच्छसे ॥ 41 ॥ 5-29-47 विपन्नं नष्टं समाधातं समीकर्तुम् ॥ 47 ॥ 5-29-48 शकेयं शक्तश्चेत्स्याम् ॥ 48 ॥ 5-29-49 काव्यां शौक्रीम् ॥ 49 ॥ 5-29-51 रौद्राः मर्मच्छिदः । रूक्षाः निःस्नेहाः । भाषते द्यूतावसानेऽभाषत ॥ 51 ॥ 5-29-53 ब्रह्म वेदः ॥ 53 ॥