अध्यायः 027
सञ्जयेन युधिष्ठिरम् प्रति युद्धे दोषोद्भावनपूर्वकम् परैर्भागाप्रदानेपि शमाश्रयणस्यैव ज्यायस्त्वकथनम् ॥ 1 ॥
सञ्जय उवाच KK05-02-027-001
धर्मनित्या पाण्डव ते विचेष्टा लोके श्रुता दृश्यते चापि पार्थ । KK05-02-027-001a
महाश्रावं जीवितं चाप्यनित्यं सम्पश्य त्वं पाण्डव मा व्यनीनशः ॥ KK05-02-027-001c
नचेद्भागं कुरवोऽन्यत्र युद्धात्प्रयच्छेरंस्तुभ्यमजातशत्रो । KK05-02-027-002a
भैक्षचर्यामन्धकवृष्णिराज्ये श्रेयो मन्ये न तु युद्धेन राज्यम् ॥ KK05-02-027-002c
अल्पकालं जीवितं यन्मनुष्ये महास्रावं नित्यदुःखं चलं च । KK05-02-027-003a
भूयश्च तद्यशसो नानुरूपं तस्मात्पापं पाण्डव मा कृथास्त्वम् ॥ KK05-02-027-003c
कामा मनुष्यं प्रसजन्त एते धर्मस्य ये विघ्नमूलं नरेन्द्र । KK05-02-027-004a
पूर्वं नरस्तान्मतिमान्प्रणिघ्नन्लोके प्रशंसां लभतेऽनवद्याम् ॥ KK05-02-027-004c
निबन्धनी ह्यर्थतृष्णेह पार्थ तामिच्छतां बाध्यते धर्म एव । KK05-02-027-005a
धर्मं तु यः प्रवृणीते स बुद्धः कामे गृध्नो हीयतेऽर्थानुरोधात् ॥ KK05-02-027-005c
धर्मं कृत्वा कर्मणां तात मुख्यं महाप्रतापः सवितेव भाति । KK05-02-027-006a
हीनो हि धर्मेण महीमपीमां लब्ध्वा नरः सीदति पापबुद्धिः ॥ KK05-02-027-006c
वेदोऽधीतश्चरितं ब्रह्मचर्यं यज्ञैरिष्टं ब्राह्मणेभ्यश्च दत्तम् । KK05-02-027-007a
परं स्थानं मन्यमानेन भूय आत्मा दत्तो वर्षपूगं सुखेभ्यः ॥ KK05-02-027-007c
सुखप्रिये सेवमानोऽतिवेलं योगाभ्यासे यो न करोति कर्म । KK05-02-027-008a
वित्तक्षये हीनसुखोऽतिवेलं दुःखं शेते कामवेगप्रणुन्नः ॥ KK05-02-027-008c
एवं पुनर्ब्रह्मचर्याऽप्रसक्तो हित्वा धर्मं यः प्रकरोत्यधर्मम् । KK05-02-027-009a
अश्रद्दधत्परलोकाय मूढो हित्वा देहं तप्यते प्रेत्य मन्दः ॥ KK05-02-027-009c
न कर्मणां विप्रणाशोऽस्त्यमुत्र पुण्यानां वाऽप्यथवा पापकानाम् । KK05-02-027-010a
पूर्वं कर्तुर्गच्छति पुण्यपापं पश्चात्त्वेनमनुयात्येव कर्ता ॥ KK05-02-027-010c
न्यायोपेतं ब्राह्मणेभ्योऽथ दत्तं श्रद्धापूतं गन्धरसोपपन्नम् । KK05-02-027-011a
अन्वाहार्येषूत्तमदक्षिणेषु तथारूपं कर्म विख्यायते ते ॥ KK05-02-027-011c
इह क्षेत्रे क्रियते पार्थ कार्यं न वै किञ्चित्क्रियते प्रेत्य कार्यम् । KK05-02-027-012a
कृतं त्वया पारलोक्यं च कर्म पुण्यं महत्सद्भिरतिप्रशस्तम् ॥ KK05-02-027-012c
जहाति मृत्युं च जरां भयं च न क्षुत्पिपासे मनसोऽप्रियाणि । KK05-02-027-013a
न कर्तव्यं विद्यते तत्र किञ्चिदन्यत्र वै चेन्द्रियप्रीणनाद्धि ॥ KK05-02-027-013c
एवंरूपं कर्मफलं नरेन्द्र मातापित्रोर्हृदयस्याप्रियेण । KK05-02-027-014a
त्यज क्रोधं पाण्डव हर्षजं च लोकावुभौ मा प्रहासीश्चिराय ॥ KK05-02-027-014c
अन्तं गत्वा कर्मणां या प्रशंसा सत्यं दमं चार्जवमानृशंस्यम् । KK05-02-027-015a
अश्वमेधं राजसूयं तथेष्ट्वा पापस्यान्तं कर्मणो मा पुनर्गाः ॥ KK05-02-027-015c
तच्चेदेवं द्वेषरूपेण पार्थाः करिष्यध्वं कर्म पापं चिराय । KK05-02-027-016a
निवसध्वं वर्षपूगान्वनेषु दुःखं वासं पाण्डवा धर्म एव ॥ KK05-02-027-016c
प्रव्रज्यया यातयित्वा पुरस्तादात्माधीनं यद्बलं ते तदाऽसीत् । KK05-02-027-017a
नित्यं च वश्याः सचिवास्तवेमे जनार्दनो युयुधाश्च वीरः ॥ KK05-02-027-017c
मत्स्यो राजा रुक्मरथः सपुत्रः प्रहारिभिः सहपुत्रैर्विराटः । KK05-02-027-018a
राजानस्ते ये विजिताः पुरस्तात्त्वामेव ते संश्रयेयुः समस्ताः ॥ KK05-02-027-018c
महासहायः प्रतपन्बलस्थः पुरस्कृतो वासुदेवार्जुनाभ्याम् । KK05-02-027-019a
वरान्हनिष्यन्द्विषतो रङ्गमध्ये व्यनेष्यथा धार्तराष्ट्रस्य दर्पम् ॥ KK05-02-027-019c
बलं कस्माद्वर्धयित्वा परस्य निजान्कस्मात्कर्शयित्वा सहायान् । KK05-02-027-020a
निरुष्य कस्माद्वर्षपूगान्वनेषु युयुत्ससे पाण्डव हीनकाले ॥ KK05-02-027-020c
अप्राज्ञो वा पाण्डव युद्ध्यमानोऽधर्मज्ञो वा भूतिमथोऽभ्युपैति । KK05-02-027-021a
प्रज्ञावान्वा बुद्ध्यमानोऽपि धर्मं संस्तम्भाद्वा सोऽपि भूतेरपैति ॥ KK05-02-027-021c
नाधर्मे ते धीयते पार्थ बुद्धिर्न संरम्भात्कर्म चकर्थ पापम् । KK05-02-027-022a
आत्थ किं तत्कारणं यस्य हेतोः प्रज्ञाविरुद्धं कर्म चिकीर्षसीदम् ॥ KK05-02-027-022c
अव्याधिजं कटुकं शीर्षरोगि यशोमुषं पापफलोदयं वा । KK05-02-027-023a
सतां पेयं यन्न पिबन्त्यसन्तो मन्युं महाराज पिब प्रशाम्य ॥ KK05-02-027-023c
पापानुबन्धं को नु तं कामयेत क्षमैव ते ज्यायसी नोत भोगाः । KK05-02-027-024a
यत्र भीष्मः शान्तनवो हतः स्याद्यत्र द्रोणः सहपुत्रो हतः स्यात् ॥ KK05-02-027-024c
कृपः शल्यः सौमदत्तिर्विकर्णो विविंशतिः कर्णदुर्योधनौ च । KK05-02-027-025a
एतान्हत्वा कीदृशं तत्सुखं स्याद्यद्विन्देथास्तदनुब्रूहि पार्थ ॥ KK05-02-027-025c
लब्ध्वाऽपीमां पृथिवीं सागरान्तां जरामृत्यू नैव हि त्वं प्रजह्याः । KK05-02-027-026a
प्रियाप्रिये सुखदुःखे च राजन्नैवं विद्वान्नैव युद्धं कुरु त्वम् ॥ KK05-02-027-026c
अमात्यानां यदि कामस्य हेतोरेवं युक्तं कर्म चिकीर्षसि त्वम् । KK05-02-027-027a
अपक्रमेः स्वं प्रदायैव तेषां मागास्त्वं वै देवयानात्पथोऽद्य ॥ ॥ KK05-02-027-027c
इति श्रीमन्महाभारते उद्योगपर्वणि सञ्जययानपर्वणि सप्तविंशोऽध्यायः ॥
5-27-1 महान् श्रावः श्रवणं यस्य महाकीर्तीत्यर्थः । मा व्यनीनशः क्रोधेन धार्तराष्ट्रन् मा नाशय ॥ 1 ॥ 5-27-4 प्रसजन्ते स्पृशन्ति ॥ 4 ॥ 5-27-5 गृध्नः स्पृहावान् ॥ 5 ॥ 5-27-6 कर्मणाम् अर्थकामाद्यर्थानां मध्ये ॥ 6 ॥ 5-27-7 परं स्थानं परलोकं मन्यमानेन मानयता । वर्षपूगं वर्षगणम् । तत्रत्यसुखेभ्यस्तदर्थं त्वया आत्मापि दत्तः ॥ 7 ॥ 5-27-8 सुखप्रिये भोगान् पुत्रादींश्च सेवमानः । योगाभ्यासे चित्तवृत्तिनिरोधमभ्यसितुं कर्म आसनप्राणायामादिकं न करोति ॥ 8 ॥ 5-27-9 धर्मं च यज्ञादिरूपं हित्वा यः अधर्ममेव प्रकरोति सञ्चिनोति ॥ 9 ॥ 5-27-10 कृतं कर्म भोगं विना आत्मज्ञानं विना वा न नश्यतीत्यर्थः ॥ 10 ॥ 5-27-11 अन्वाहार्येष्वित्यनेन श्रौतमिष्ट्यादिकं लक्ष्यते । तत्रहि अन्वाहार्यो दक्षिणात्वेन दीयते ॥ 11 ॥ 5-27-12 कार्यं धर्मः । प्रेत्य मृत्वा ॥ 12 ॥ 5-27-13 परलोके कर्म नास्तीत्याह जहातीति ॥ 13 ॥ 5-27-14 अत्र कर्म कुर्वन् कामवशादमुत्र फलं न प्रार्थयेतेत्यर्थः । कर्मजं फलं त्यक्त्वा परेण वैराग्येण सम्पन्नो मोक्षार्थं योगाभ्यासमेव कुरुष्व किं राज्येन बन्धुनाशलभ्येनेत्यर्थः ॥ 14 ॥ 5-27-16 तच्चेदिति । भो पार्थाः भो पाण्डवाः तत्पापं कर्म गोत्रवधरूपं द्वेषरूपेण चिराय प्रागेव चेत्करिष्यध्वं तर्हि यद्वने वर्षपूगान् दुःखं वासं निवसध्वं तद्धर्म एवेति यत्तत्पदाध्याहारेण योज्यम् । राज्यार्थं सर्वलोकनाशमिच्छतां भवतां दुर्योधनेन यो वनवासः कारितः स धर्म एवेत्यर्थः ॥ 16 ॥ 5-27-17 पुरस्तात् प्रव्रजनकाले एव यत् यतः पुरस्तादपि एतद्बलम् आत्माधीनमेवासीत् । ज्ञातिवधेनापि राज्यसुखमावश्यकं चेत्तर्हि पूर्वमेव सहायसत्वात्कुतो न युद्धं कृतमिति एतदादिश्लोकचतुष्टयार्थः ॥ 17 ॥ 5-27-20 हीनकाले गते काले इत्यर्थः ॥ 20 ॥ 5-27-21 सर्वथापि युद्धं न कर्तव्यं जयपराजययोरव्यवस्थितत्वादित्याह अप्राह इति । भूतेरपैति दैवादिति शेषः ॥ 21 ॥ 5-27-23 अव्याधिजं कटुकं पित्तादिकं विनाप्यरोचकम् । यशोमुषं यशोहरम् । पेयं गिलनीयम् । मन्युं क्रोधम् । प्रशाम्य शान्तो भव ॥ 23 ॥ 5-27-27 देवयानात्पथोऽर्चिरादिमार्गादपुनरावृत्तिफलात् गोत्रद्रोहेण मागा इत्यर्थः ॥ 27 ॥