अध्यायः 025
सञ्जयेन युद्धनिन्दापूर्वकम् पाण्डवैः शमस्वीकारस्य भीष्मधृतराष्ट्राद्यभिमतत्वकथनम् ॥ 1 ॥
युधिष्ठिर उवाच KK05-02-025-001
समागताः पाण्डवाः सृञ्जयाश्च जनार्दनो युयुधानो विराटः । KK05-02-025-001a
यत्ते वाक्यं धृतराष्ट्रानुशिष्टं गावल्गणे ब्रूहि तत्सूतपुत्र ॥ KK05-02-025-001c
सञ्जय उवाच KK05-02-025-002
अजातशत्रुं च वृकोदरं च धनञ्जयं माद्रवतीसुतौ च । KK05-02-025-002a
आमन्त्रये वासुदेवं च शौरिं युयुधानं चेकितानं विराटम् ॥ KK05-02-025-002c
पञ्चालानामधिपं चैव वृद्धं धृष्टद्युम्नं पार्षतं याज्ञसेनिम् । KK05-02-025-003a
सर्वे वाचं शृणुतेमां मदीयां वक्ष्यामि यां भूतिमिच्छन्कुरूणाम् ॥ KK05-02-025-003c
शमं राजा धृतराष्ट्रोऽभिनन्दन्नयोजयत्त्वरमाणो रथं मे । KK05-02-025-004a
सभ्रातृपुत्रस्वजनस्य राज्ञस्तद्रोचतां पाण्डवानां शमोऽस्तु ॥ KK05-02-025-004c
सर्वैर्धर्मैः समुपेतास्तु पार्थाः संस्थानेन मार्दनेवार्जवेन । KK05-02-025-005a
जाताः कुले ह्यनृशंसा वदान्या ह्रीनिषेवाः कर्मणां निश्चयज्ञाः ॥ KK05-02-025-005c
न युज्यते कर्म युष्मासु हीनं सत्वं हि वस्तादृशं भीमसेनाः । KK05-02-025-006a
उद्भासते ह्यञ्जनबिन्दुवत्तच्छुभ्रे वस्त्रे यद्भवेत्किल्बिषं वः ॥ KK05-02-025-006c
सर्वक्षयो दृश्यते यत्र कृत्स्नः पापोदयो भावसंस्थः कुरूणाम् । KK05-02-025-007a
कस्तत्र कुर्याज्जातु कर्म प्रजानन्पराजयो यत्र समो जयश्च ॥ KK05-02-025-007c
ते वै धन्या यैः कृतं ज्ञातिकार्यं ते वै पुत्राः सुहृदो बान्धवाश्च । KK05-02-025-008a
उपक्रुष्टं जीवितं सन्त्यजेयुर्यतः कुरूणां नियतो वै भवः स्यात् ॥ KK05-02-025-008c
ते चेत्कुरूननुशिष्याथ पार्था निर्णीय सर्वान्द्विषतो निगृह्य । KK05-02-025-009a
समं वस्तज्जीवितं मृत्युना स्याद्यज्जीवध्वं ज्ञातिवधेन साधु ॥ KK05-02-025-009c
को ह्येव युष्मान्सह केशवेन सचेकितानान्पार्षतबाहुगुप्तान् । KK05-02-025-010a
ससात्यकीन्विषहेत प्रजेतुं लब्ध्वाऽपि देवान्सचिवान्सहेन्द्रान् ॥ KK05-02-025-010c
को वा कुरून्द्रोणभीष्माभिगुप्तानश्वत्थाम्ना शल्यकृपादिभिश्च । KK05-02-025-011a
रणे विजेतुं विषहेत राजन्राधेयगुप्तान्सह भूमिपालैः ॥ KK05-02-025-011c
महद्बलं धार्तराष्ट्रस्य राज्ञः को वै शक्तो हन्तुमक्षीयमाणः । KK05-02-025-012a
सोऽहं जये चैव पराजये च निःश्रेयसं नाधिगच्छामि किञ्चित् ॥ KK05-02-025-012c
कथं हि नीचा इव दौष्कुलेया निर्धर्मार्थं कर्म कुर्युश्च पार्थाः । KK05-02-025-013a
सोऽहं प्रसाद्य प्रणतो वासुदेवं पञ्चालानामधिपं चैव वृद्धम् ॥ KK05-02-025-013c
कृताञ्जलिः शरणं वः प्रपद्ये कथं स्वस्ति स्यात्कुरुसृञ्जयानाम् । KK05-02-025-014a
न ह्येवमेवं वचनं वासुदेवो धनञ्जयो वा जातु किञ्चिन्न कुर्यात् ॥ KK05-02-025-014c
प्राणान्दद्याद्याचमानः कुतोऽन्यदेतद्विद्वन्साधनार्थं ब्रवीमि । KK05-02-025-015a
एतद्राज्ञो भीष्मपुरोगमस्य मतं यद्वः शान्तिरिहोत्तमा स्यात् ॥ ॥ KK05-02-025-015c
इति श्रीमन्महाभारते उद्योगपर्वणि सञ्जययानपर्वणि पञ्चविंशोऽध्यायः ॥
5-25-4 रथमयोजयत् । इह आगन्तुम् । राज्ञः तत् वचनं पाण्डवानां रोचतां ततश्च शमोऽस्तु ॥ 4 ॥ 5-25-5 संस्थानेनाकारेण । मार्दवेन कृपया । आर्जवेन अकौटिल्येन । अनृशंसाः अनुग्राः । ह्रीनिषेवाः लज्जापरायणाः ॥ 5 ॥ 5-25-6 हीनं हिंस्रं सत्त्वं बुद्धिसत्वं साधुत्वं वा । भीमसेनाः भीषणसैन्याः ॥ 6 ॥ 5-25-7 यत्र सङ्ग्रामे भावसंस्थः स इति शेषः ॥ 7 ॥ 5-25-8 ज्ञातीनां दुर्योधनादीनां कार्यं घोषयात्रायां गन्धर्वेभ्यो मोचनादिकम् उपक्रुष्टं निन्दितम् ॥ 8 ॥ 5-25-9 निर्णीय निश्चयं कृत्वा । निगृह्य हत्वेत्यर्थः ॥ 9 ॥ 5-25-12 निःश्रेयसं निश्चयम् ॥ 12 ॥ 5-25-13 निर्धर्मार्थं धर्मार्थयोर्विरुद्धं कम कथं कुर्युः । प्रणतः अस्मीति शेषः ॥ 13 ॥ 5-25-14 साधनार्थं सन्धिकार्यस्य सिद्ध्यर्थं ब्रवीमि नतु युष्मान् भीषयामीत्यर्थः ॥ 15 ॥