अध्यायः 024

सञ्जयेन युधिष्ठिरप्रश्नानामुत्तरदानपूर्वकं धृतराष्ट्रसन्देशश्रवणविधानम् ॥ 1 ॥ सञ्जय उवाच KK05-02-024-001
यथाऽऽत्थ मे पाण्डव तत्तथैव कुरून्कुरुश्रेष्ठ जनं च पृच्छसि । KK05-02-024-001a
अनामयास्तात मनस्विनस्ते कुरुश्रेष्ठान्पृच्छसि पार्थ यांस्त्वम् ॥ KK05-02-024-001c
सन्त्येव वृद्धाः साधवो धार्तराष्ट्रे सन्त्येव पापाः पाण्डव तस्य विद्धि । KK05-02-024-002a
दद्याद्रिपुभ्योऽपि हि धार्तराष्ट्रः कुतो दायांल्लोपयेद्ब्राह्मणानाम् ॥ KK05-02-024-002c
यद्युष्मासु वर्ततेऽसावधर्म्यमद्रुग्धेषु द्रुग्धवत्तन्न साधु । KK05-02-024-003a
मित्रध्रुक् स्याद्धृतराष्ट्रस्य पुत्रो युष्मान्द्विषन्साधुवृत्तानसाधुः ॥ KK05-02-024-003c
स चापि जानाति भृशं च तप्यते शोचत्यन्तः स्थविरोऽजातशत्रो । KK05-02-024-004a
शृणोति हि ब्राह्मणानां समेत्य मित्रद्रोहः पातकेभ्यो गरीयान् ॥ KK05-02-024-004c
स्मरन्ति तुभ्यं नरदेव सङ्गमे युद्धे च जिष्णोश्च युधां प्रणेतुः । KK05-02-024-005a
समुद्घुष्टे दुन्दुभिशङ्खशब्दे गदापाणिं भीमसेनं स्मरन्ति ॥ KK05-02-024-005c
माद्रीसुतौ चापि तथाऽऽजिमध्ये सर्वा दिशः सम्पतन्तौ स्मरन्ति । KK05-02-024-006a
सेनां वर्षन्तौ शरवर्षैरजस्रं महारथौ समरे दुष्प्रकम्पौ ॥ KK05-02-024-006c
न त्वेव मन्ये पुरुषस्य राजन्ननागतं ज्ञायते यद्भविष्यम् । KK05-02-024-007a
त्वं चेत्तथा सर्वधर्मोपपन्नः प्राप्तः क्लेशं पाण्डव कृच्छ्ररूपम् । KK05-02-024-007c
त्वमेवैतत्कृच्छ्रगतश्च भूयः समीकुर्याः प्रज्ञयाऽजातशत्रो ॥ KK05-02-024-007e
न कामार्थं सन्त्यजेयुर्हि धर्मं पाण्डोः सुताः सर्व एवेन्द्रकल्पाः । KK05-02-024-008a
त्वमेवैतत्प्रज्ञयाऽजातशत्रो समीकुर्या येन शर्माप्नुयुस्ते ॥ KK05-02-024-008c
धार्तराष्ट्राः पाण्डवाः सृञ्जयाश्च ये चाप्यन्ये सन्निविष्टा नरेन्द्राः । KK05-02-024-009a
यन्मां ब्रवीद्धृतराष्ट्रो निशायामजातशत्रो वचनं पिता ते ॥ KK05-02-024-009c
सहामात्यः सहपुत्रश्च राजन्समेत्य तां वाचमिमां निबोध ॥ ॥ KK05-02-024-010ac

इति श्रीमन्महाभारते उद्योगपर्वणि सञ्जययानपर्वणि चतुर्विंशोऽध्यायः ॥

5-24-4 गरीयानिति शृणोति चेति सम्बन्धः ॥ 5-24-7 तुभ्यं त्वाम् अनागतम् अज्ञातम् अदृष्टमित्यर्थः ॥