अध्यायः 023
सञ्जयेनोपप्लाव्यं गत्वा पाण्डवान्प्रति धृतराष्ट्रकृतकुशलप्रश्नकथनम् ॥ 1 ॥ युधिष्ठिरेण सञ्जयम् प्रति धृतराष्ट्रादीनां कुशलादिप्रश्नः ॥ 2 ॥
वैशम्पायन उवाच KK05-02-023-001
राज्ञस्तु वचनं श्रुत्वा धृतराष्ट्रस्य सञ्जयः । KK05-02-023-001a
उपप्लाव्यं ययौ द्रष्टुं पाण्डवानमितौजसः ॥ KK05-02-023-001c
स तु राजानमासाद्य कुन्तीपुत्रं युधिष्ठिरम् । KK05-02-023-002a
अभिवाद्य ततः पूर्वं सूतपुत्रोऽभ्यभाषत ॥ KK05-02-023-002c
गवल्गणिः सञ्जयः सूतसूनुरजातशत्रुमवदत्प्रतीतः । KK05-02-023-003a
दिष्ट्या राजंस्त्वामरोगं प्रपश्ये सहायवन्तं च महेन्द्रकल्पम् ॥ KK05-02-023-003c
अनामयं पृच्छति त्वाम्बिकेयो वृद्धो राजा धृतराष्ट्रो मनीषी । KK05-02-023-004a
कच्चिद्भीमः कुशली पाण्डवाग्र्यो धनञ्जयस्तौ च माद्रीतनूजौ ॥ KK05-02-023-004c
कच्चित्कृष्णा द्रौपदी राजपुत्री सत्यव्रता वीरपत्नी सुपुत्रा । KK05-02-023-005a
मनस्विनी यत्र च वाञ्छसि त्वमिष्टान्कामान्भारत स्वस्तिकामः ॥ KK05-02-023-005c
युधिष्ठिर उवाच KK05-02-023-006
गावल्गणे सञ्जय स्वागतं ते प्रीतात्माऽहं त्वाऽभिनन्दामि सूत । KK05-02-023-006a
अनामयं प्रतिमाने तवाहं सहानुजैः कुशली चास्मि विद्वन् ॥ KK05-02-023-006c
चिरादिदं कुशलं भारतस्य श्रुत्वा राज्ञः कुरुवृद्धस्य सूत । KK05-02-023-007a
मन्ये साक्षाद्दृष्टमहं नरेन्द्रं दृष्ट्वैव त्वां सञ्जय प्रीतियोगात् ॥ KK05-02-023-007c
पितामहो नः स्थविरो मनस्वी महाप्राज्ञः सर्वधर्मोपपन्नः । KK05-02-023-008a
सकौरव्यः कुशली तात भीष्मो यथापूर्वं वृत्तिरस्त्यस्य कच्चित् ॥ KK05-02-023-008c
कच्चिद्राजा धृतराष्ट्रः सपुत्रो वैचित्रवीर्यः कुशली महात्मा । KK05-02-023-009a
महाराजो बाह्लिकः प्रातिपेयः कच्चिद्विद्वान्कुशली सूतपुत्र ॥ KK05-02-023-009c
स सोमदत्तः कुशली तात कच्चिद्भूरिश्रवाः सत्यसन्धः शलश्च । KK05-02-023-010a
द्रोणः सपुत्रश्च कृपश्च विप्रो महेष्वासाः कच्चिदेतेऽप्यरोगाः ॥ KK05-02-023-010c
सर्वे कुरुभ्यः स्पृहयन्ति सञ्जय धनुर्धरा ये पृथिव्यां प्रधानाः । KK05-02-023-011a
महाप्रज्ञाः सर्वशास्त्रावदाता धनुर्भृतां मुख्यतमाः पृथिव्याम् ॥ KK05-02-023-011c
कच्चिन्मानं तात लभन्त एते धनुर्भृतः कचिदेतेऽप्यरोगाः । KK05-02-023-012a
येषां राष्ट्रे निवसति दर्शनीयो महेष्वासः शीलवान्द्रोणपुत्रः ॥ KK05-02-023-012c
वैश्यापुत्रः कुशली तात कच्चित् महाप्राज्ञो राजपुत्रो युयुत्सुः । KK05-02-023-013a
कर्णो मानी कुशली तात कच्चित्सुयोधनो यस्य मन्दो विधेयः ॥ KK05-02-023-013c
स्त्रियो वृद्धा भारतानां जनन्यो महादास्यो दासभार्याश्च सूत । KK05-02-023-014a
वध्वः पुत्रा भागिनेया भगिन्यो दौहित्रा वा कच्चिदप्यव्यलीकाः ॥ KK05-02-023-014c
कच्चिद्राजा ब्राह्मणानां यथावत्प्रवर्तते पूर्ववत्तात वृत्तिम् । KK05-02-023-015a
कच्चिद्दायान्मामकान्धार्तराष्ट्रो द्विजातीनां सञ्जय नोपहन्ति ॥ KK05-02-023-015c
कच्चिद्राजा धृतराष्ट्रः सपुत्र उपेक्षते ब्राह्मणातिक्रमान्वै । KK05-02-023-016a
स्वर्गस्य कच्चिन्न तथा वर्त्मभूतामुपेक्षते तेषु सदैव वृत्तिम् ॥ KK05-02-023-016c
एतज्ज्योतिश्चोत्तमं जीवलोके शुक्लं प्रजानां विहितं विधात्रा । KK05-02-023-017a
ते चेद्दोषं न नियच्छन्ति मन्दाः कृत्स्नो नाशो भविता कौरवाणाम् ॥ KK05-02-023-017c
कच्चिद्राजा धृतराष्ट्रः सपुत्रो बुभूषते वृत्तिममात्यवर्गे । KK05-02-023-018a
कच्चिन्न भेदेन जिजीविषन्ति सुहृद्रूपा दुर्हृदश्चैकमत्यात् ॥ KK05-02-023-018c
कच्चिन्न पापं कथयन्ति तात ते पाण्डवानां कुरवः सर्व एव । KK05-02-023-019a
द्रोणः सपुत्रश्च कृपश्च वीरो नास्मासु पापानि वदन्ति कच्चित् ॥ KK05-02-023-019c
कच्चिद्राज्ये धृतराष्ट्रं सपुत्रं समेत्याहुः कुरवः सर्व एव । KK05-02-023-020a
कच्चिद्दृष्ट्वा दस्युसङ्घान्समेतान्स्मरन्ति पार्थस्य युधां प्रणेतुः ॥ KK05-02-023-020c
मौर्वीभुजाग्रप्रहितान्स्म तात दोधूयमानेन धनुर्धरेण । KK05-02-023-021a
गाण्डीवनुन्नांस्तनयित्नुघोषानजिह्मगान्कच्चिदनुस्मरन्ति ॥ KK05-02-023-021c
न चापश्यं कञ्चिदहं पृथिव्यां योधं समं वाऽधिकमर्जुनेन । KK05-02-023-022a
यस्यैकषष्टिर्निशितास्तीक्ष्णधाराः सुवाससः समन्तो हस्तवापः ॥ KK05-02-023-022c
गदापाणिर्भीमसेनस्तरस्वी प्रवेपयञ्छत्रुसङ्घाननीके । KK05-02-023-023a
नागः प्रभिन्न इव नड्वलेषु चङ्क्रम्यते कच्चिदेनं स्मरन्ति ॥ KK05-02-023-023c
माद्रीपुत्रः सहदेवः कलिङ्गान्समागतानजयद्दन्तकूरे । KK05-02-023-024a
वामेनास्यन्दक्षिणेनैव यो वै महाबलं कच्चिदेनं स्मरन्ति ॥ KK05-02-023-024c
पुरा जेतुं नकुलः प्रेषितोऽयं शिबींस्त्रिगर्तान्सञ्जय पश्यतस्ते । KK05-02-023-025a
दिशं प्रतीचीं वशमानयन्मे माद्रीसुतं कच्चिदेनं स्मरन्ति ॥ KK05-02-023-025c
पराभवो द्वैतवने य आसीद्दुर्मन्त्रिते घोषयात्रागतानाम् । KK05-02-023-026a
यत्र मन्दाञ्छत्रुवशं प्रयातानमोचयद्भीमसेनो जयश्च ॥ KK05-02-023-026c
अहं पश्चादर्जुनमभ्यरक्षं माद्रीपुत्रौ भीमसेनोऽप्यरक्षत् । KK05-02-023-027a
गाण्डीवधन्वा शत्रुसङ्घानुदस्य स्वस्त्यागमत्कच्चिदेनं स्मरन्ति ॥ KK05-02-023-027c
न कर्मणा साधुनैकेन नूनं सुखं शक्यं वै भवतीह सञ्जय । KK05-02-023-028a
सर्वात्मना परिजेतुं वयं चेन्न शक्नुमो धृतराष्ट्रस्य पुत्रम् ॥ ॥ KK05-02-023-028c
इति श्रीमन्महाभारते उद्योगपर्वणि सञ्जययानपर्वणि त्रयोविंशोऽध्यायः ॥
5-23-11 कुरुभ्यः स्पृहयन्ति कच्चिदित्यनुषङ्गः ॥ 5-23-14 अव्यलीकाः निष्कपटाः ॥ 5-23-15 वृत्तिं जीविकां दातुमिति शेषः । दायान्मद्दत्तान् ग्रामादीन् ॥ 5-23-17 एतद्ब्राह्मणानां वृत्तेः पालनं ज्योतिः परलोकप्रकाशकं जीवलोके इह शुक्लं यशस्करम् । दोषं लोभं ब्राह्मणवृत्त्युपघातेन न नियच्छन्ति ॥ 5-23-18 बुभूषते प्रापयितुमिच्छति ॥ 5-23-21 मौर्व्याः भुजः कौटिल्यं तस्य अग्रमिवाग्रं शरसन्धानदेशः ततः प्रहितान् प्रेषितान् ॥ 5-23-22 सुवाससः सुपुङ्खाः । हस्तवापो हस्तक्षेपः । एकषष्टिर्बाणा अस्य एकेन यत्नेन प्रक्षेप्या इत्यर्थः ॥ 5-23-23 नड्वलेषु सतृणेषु स्थलेषु ॥ 23 ॥ 5-23-24 दन्तकूरे सङ्ग्रामे ॥ 24 ॥ 5-23-26 जयः अर्जुनः ॥