अध्यायः 021

भीष्मेण पुरोहितवाक्येऽनुमोदिते कर्णेन तदाक्षेपपूर्वकं सङ्केतकालस्य सशेषतया पुनर्वनवासादिना तत्समापने राज्यदानोक्तिः ॥ 1 ॥ भीष्मेण कर्णाधिक्षेपः ॥ 2 ॥ धृतराष्ट्रेण पाण्डवान्प्रति स्वेन सञ्जयप्रेषणकथनपूर्वकं पुरोहितस्य प्रतियापनम् ॥ 3 ॥ वैशम्पायन उवाच KK05-02-021-001
तस्य तद्वचनं श्रुत्वा प्रज्ञावृद्धो महाद्युतिः । KK05-02-021-001a
सम्पूज्यैनं यथाकालं भीष्मो वचनमब्रवीत् ॥ KK05-02-021-001c
दिष्ट्या कुशलिनः सर्वे सह दामोदरेण ते । KK05-02-021-002a
दिष्ट्या सहायवन्तश्च दिष्ट्या धर्मे च ते रताः ॥ KK05-02-021-002c
दिष्ट्या च सन्धिकामास्ते भ्रातरः कुरुनन्दनाः । KK05-02-021-003a
दिष्ट्या न युद्धमनसः पाण्डवाः सह बान्धवैः ॥ KK05-02-021-003c
भवता सत्यमुक्तं तु सर्वमेतन्न संशयः । KK05-02-021-004a
अतितीक्ष्णं तु ते वाक्यं ब्राह्मण्यादिति मे मतिः ॥ KK05-02-021-004c
असंशयं क्लेशितास्ते वने चेह च पाण्डवाः । KK05-02-021-005a
प्राप्ताश्च धर्मतः सर्वं पितुर्धनमसंशयम् ॥ KK05-02-021-005c
किरीटि बलवान्पार्थः कृतास्त्रश्च महारथः । KK05-02-021-006a
को हि पाण्डुसुतं युद्धे विषहेत धनञ्जयम् ॥ KK05-02-021-006c
अपि वज्रधरः साक्षात्किमुतान्ये धनुर्भृतः । KK05-02-021-007a
त्रयाणामपि लोकानां समर्थ इति मे मतिः ॥ KK05-02-021-007c
वैशम्पायन उवाच KK05-02-021-008
भीष्मे ब्रुवति तद्वाक्यं धृष्टमाक्षिप्य मन्युना । KK05-02-021-008a
दुर्योधनं समालोक्य कर्णो वचनमब्रवीत् ॥ KK05-02-021-008c
न तत्राविदितं ब्रह्मल्ँलोके भूतेन केनचित् । KK05-02-021-009a
पुनरुक्तेन किं तेन भाषितेन पुनः पुनः ॥ KK05-02-021-009c
दुर्योधनार्थे शकुनिर्द्यूते निर्जितवान्पुरा । KK05-02-021-010a
समयेन गतोऽरण्यं पाण्डुपुत्रो युधिष्ठिरः ॥ KK05-02-021-010c
स तं समयमाश्रित्य राज्यं नेच्छति पैतृकम् । KK05-02-021-011a
बलमाश्रित्य मत्स्यानां पाञ्चालानां च मूर्खवत् ॥ KK05-02-021-011c
दुर्योधनो भयाद्विद्वन्न दद्यात्पादमन्ततः । KK05-02-021-012a
धर्मतस्तु महीं कृत्स्नां प्रदद्याच्छत्रवेऽपि च ॥ KK05-02-021-012c
यदि काङ्क्षन्ति ते राज्यं पितृपैतामहं पुनः । KK05-02-021-013a
यथाप्रतिज्ञं कालं तं चरन्तु वनमाश्रिताः ॥ KK05-02-021-013c
ततो दुर्योधनस्याङ्के वर्तन्तामकुतोभयाः । KK05-02-021-014a
अधार्मिकीं तु मा बुद्धिं मौर्ख्यात्कुर्वन्तु केवलात् ॥ KK05-02-021-014c
अथ ते धर्ममुत्सृत्य युद्धमिच्छन्ति पाण्डवाः । KK05-02-021-015a
आसाद्येमान्कुरुश्रेष्ठान्स्मरिष्यन्ति वचो मम ॥ KK05-02-021-015c
भीष्म उवाच KK05-02-021-016
किं नु राधेय वाचा ते कर्म तत्स्मर्तुमर्हसि । KK05-02-021-016a
एक एव यदा पार्थः षड्रथाञ्जितवान्युधि ॥ KK05-02-021-016c
'विराटनगरे धीरः किं त्वं तत्रैव नागतः' । KK05-02-021-017a
बहुशो जीयमानस्य कर्म दृष्टं तदैव ते ॥ KK05-02-021-017c
न चेदेवं करिष्यामो यदयं ब्राह्मणोऽब्रवीत् । KK05-02-021-018a
ध्रुवं युधि हतास्तेन भक्षयिष्याम पांसुकान् । KK05-02-021-018c
'दुर्योधनः सहामात्यो विनङ्क्ष्यति न संशयः ॥ KK05-02-021-018e
वैशम्पायन उवाच KK05-02-021-019
धृतराष्ट्रस्ततो भीष्ममनुमान्य प्रसाद्य च । KK05-02-021-019a
अवभर्त्स्य च राधेयमिदं वचनमब्रवीत् ॥ KK05-02-021-019c
अस्मद्धितं वाक्यमिदं भीष्मः शान्तनवोऽब्रवीत् । KK05-02-021-020a
पाण्डवानां हितं चैव सर्वस्य जगतस्तथा ॥ KK05-02-021-020c
चिन्तयित्वा तु पार्थेभ्यः प्रेषयिष्यामि सञ्जयम् । KK05-02-021-021a
स भवान्प्रतियात्वद्य पाण्डवानेव माचिरम् ॥ KK05-02-021-021c
स तं सत्कृत्य कौरव्यः प्रेषयामास पाण्डवान् । KK05-02-021-022a
सभामध्ये समाहूय सञ्जयं वाक्यमब्रवीत् ॥ ॥ KK05-02-021-022c

इति श्रीमन्महाभारते उद्योगपर्वणि सञ्जययानपर्वणि एकविंशोऽध्यायः ॥

5-21-8 धृष्टं धर्षणायुक्तं यथा स्यात्तथा ॥ 8 ।