अध्यायः 019
सात्यकिप्रमुखानां राज्ञां स्वस्वसेनाऽऽनयनपूर्वकं युधिष्ठिरम् प्रत्यागमनम् ॥ 1 ॥ भगदत्तादीनां राज्ञां दुर्योधनसाहाय्यकरणाय आगमनम् ॥ 2 ॥
वैशम्पायन उवाच KK05-01-019-001
युयुधानस्ततो वीरः सात्वतानां महारथः । KK05-01-019-001a
महता चतुरङ्गेण बलेनागाद्युधिष्ठिरम् ॥ KK05-01-019-001c
तस्य योधा महावीर्या नानादेशसमागताः । KK05-01-019-002a
नानाप्रहरणा वीराः शोभयाञ्चक्रिरे बलम् ॥ KK05-01-019-002c
परश्वथैर्भिण्डिपालैः शूलतोमरमुद्गरैः । KK05-01-019-003a
परिघैर्यष्टिभिः पाशैः करवालैश्च निर्मलैः ॥ KK05-01-019-003c
खड्गकार्मुकनिर्यूहैः शरैश्च विविधैरपि । KK05-01-019-004a
तैलधौतैः प्रकाशद्भिस्तदशोभत वै बलम् ॥ KK05-01-019-004c
तस्य मेघप्रकाशस्य सौवर्णैः शोभितस्य च । KK05-01-019-005a
बभूव रूपं सैन्यस्य मेघस्येव सविद्युतः ॥ KK05-01-019-005c
अक्षौहिणी तु सा सेना तदा यौधिष्ठिरं बलम् । KK05-01-019-006a
प्रविश्यान्तर्दधे राजन्सागरं कुनदी यथा ॥ KK05-01-019-006c
तथैवाक्षौहिणीं गृह्य चेदीनामृषभो बली । KK05-01-019-007a
धृष्टकेतुरुपागच्छत्पाण्डवानमितौजसः ॥ KK05-01-019-007c
मागधश्च जयत्सेनो जारासन्धिर्महाबलः । KK05-01-019-008a
अक्षौहिण्यैव सैन्यस्य धर्मराजमुपागमत् ॥ KK05-01-019-008c
तथैव पाण्ड्यो राजेन्द्र सागरानूपवासिभिः । KK05-01-019-009a
वृतो बहुविधैर्योधैर्युधिष्ठिरमुपागमत् ॥ KK05-01-019-009c
तस्य सैन्यमतीवासीत्तस्मिन्बलसमागमे । KK05-01-019-010a
प्रेक्षणीयतरं राजन्सुवेषं बलवत्तदा ॥ KK05-01-019-010c
'केकयाश्च नरव्याघ्राः सोदराः पञ्च पार्थिवाः । KK05-01-019-011a
संहर्षयन्तः कौन्तेयानक्षौहिण्या समागताः ॥' KK05-01-019-011c
द्रुपदस्याप्यभूत्सेना नानादेशसमागतैः । KK05-01-019-012a
शोभिता पुरुषैः शूरैः पुत्रैश्चास्य महारथैः ॥ KK05-01-019-012c
तथैव राजा मत्स्यानां विराटो वाहिनीपतिः । KK05-01-019-013a
पार्वतीयैर्महीपालैः सहितः पाण्डवानयात् ॥ KK05-01-019-013c
इतश्चेतश्च पाण्डूनां समाजग्मुर्महात्मनाम् । KK05-01-019-014a
अक्षौहिण्यस्तु सप्तैव विविधध्वजसङ्कुलाः ॥ KK05-01-019-014c
युयुत्समानाः कुरुभिः पाण्डवान्समहर्षयन् । KK05-01-019-015a
तथैव धार्तराष्ट्रस्य हर्षं समभिवर्धयन् ॥ KK05-01-019-015c
भगदत्तो महीपालः सेनामक्षौहिणीं ददौ । KK05-01-019-016a
तस्य चीनैः किरातैश्च काञ्चनैरिव संवृतम् ॥ KK05-01-019-016c
बभौ बलमनाधृष्यं कर्णिकारवनं यथा । KK05-01-019-017a
तथा भूरिश्रवाः शूरः शल्यश्च कुरुनन्दन ॥ KK05-01-019-017c
दुर्योधनमुपायातावक्षौहिण्या पृथक्पृथक् । KK05-01-019-018a
कृतवर्मा च हार्दिक्यो भोजान्धकुकुरैः सह ॥ KK05-01-019-018c
अक्षौहिण्यैव सेनाया दुर्योधनमुपागमत् । KK05-01-019-019a
तस्य तैः पुरुषव्याघ्रैर्वनमालाधरैर्बलम् ॥ KK05-01-019-019c
अशोभत यथा मत्तैर्वनं प्रक्रीडितैर्गजैः । KK05-01-019-020a
जयद्रथमुखाश्चान्ये सिन्धुसौवीरवासिनः ॥ KK05-01-019-020a
आजग्मुः पृथिवीपालाः कम्पयन्त इवाचलान् । KK05-01-019-021a
तेषामक्षौहिणी सेना बहुला विबभौ तदा ॥ KK05-01-019-021c
विधूयमानो वातेन बहुरूप इवाम्बुदः । KK05-01-019-022a
सुदक्षिणश्च काम्भोजो यवनैश्च शकैस्तथा ॥ KK05-01-019-022c
उपाजगाम कौरव्यमक्षौहिण्या विशाम्पते । KK05-01-019-023a
तस्य सेनासमावायः शलभानामिवाबभौ ॥ KK05-01-019-023c
स च सम्प्राप्य कौरव्यं तत्रैवान्तर्दधे तदा । KK05-01-019-024a
तथा महिष्मतीवासी नीलो नीलायुधैः सह ॥ KK05-01-019-024c
महीपालो महावीर्यैर्दक्षिणापथवासिभिः । KK05-01-019-025a
आवन्त्यौ च महीपालौ महाबलसुसंवृतौ ॥ KK05-01-019-025c
पृथगक्षौहिणीभ्यां तावभियातौ सुयोधनम् । KK05-01-019-026a
ततस्ततस्तु सर्वेषां भूमिपानां महात्मनाम् ॥ KK05-01-019-026c
तिस्रोऽन्याः समवर्तन्त वाहिन्यो भरतर्षभ । KK05-01-019-027a
एवमेकादशावृत्ताः सेना दुर्योधनस्य ताः ॥ KK05-01-019-027c
युयुत्समानाः कौन्तेयान्नानाध्वजसमाकुलाः । KK05-01-019-028a
न हास्तिनपुरे राजन्नवकाशोऽभवत्तदा ॥ KK05-01-019-028c
राज्ञां स्वबलमुख्यानां प्राधान्येनापि भारत । KK05-01-019-029a
ततः पञ्चनदं चैव कृत्स्नं च कुरुजाङ्गलम् ॥ KK05-01-019-029c
तथा रोहितकारण्यं मरुभूमिश्च केवला । KK05-01-019-030a
अहिच्छत्रं कालकूटं गङ्गाकूलं च भारत ॥ KK05-01-019-030c
वारणं वाटधानं च यामुनश्चैव पर्वतः । KK05-01-019-031a
एष देशः सुविस्तीर्णः प्रभूतधनधान्यवान् ॥ KK05-01-019-031c
बभूव कौरवेयाणां बलेनातीव संवृतः । KK05-01-019-032a
तत्र सैन्यं तथा युक्तं ददर्श स पुरोहितः ॥ KK05-01-019-032c
यः स पाञ्चालराजेन प्रेषितः कौरवान्प्रति ॥ ॥ KK05-01-019-033ac
इति श्रीमन्महाभारते उद्योगपर्वणि सेनोद्योगपर्वणि एकोनविंशोऽध्यायः ॥
5-19-1 युयुधानः सात्यकिः ॥ 5-19-19 वनमाला आपादलम्बिनी माला 5-19-23 समावायः समूहः ॥ 5-19-30 अहिच्छत्रादयः प्रदेशविशेषाः ॥