अध्यायः 018
इन्द्रेण पुनर्देवलोकमेत्य त्रैलोक्यराज्यपालनम् ॥ 1 ॥ शल्येन इन्द्रवृत्तान्तकथनपूर्वकं युधिष्ठिरादीनाश्वास्य पुनर्दुर्योधनसमीपगमनम् ॥ 2 ॥
शल्य उवाच KK05-01-018-001
ततः शक्रः स्तूयमानो गन्धर्वाप्सरसां गणैः । KK05-01-018-001a
ऐरावतं समारुह्य द्विपेन्द्रं लक्षणैर्युतम् ॥ KK05-01-018-001c
पावकः सुमहातेजा महर्षिश्च बृहस्पतिः । KK05-01-018-002a
यमश्च वरुणश्चैव कुबेरश्च धनेश्वरः ॥ KK05-01-018-002c
सर्वैर्देवैः परिवृतः शक्रो वृत्रनिषूदनः । KK05-01-018-003a
गन्धर्वैरप्सरोभिश्च यातस्त्रिभुवनं प्रभुः ॥ KK05-01-018-003c
स समेत्य महेन्द्राण्या देवराजः शतक्रतुः । KK05-01-018-004a
मुदा परमया युक्तः पालयामास देवराट् ॥ KK05-01-018-004c
ततः स भगवांस्तत्र अङ्गिराः समदृश्यत । KK05-01-018-005a
अथर्ववेदमन्त्रैश्च देवेन्द्रं समपूजयत् ॥ KK05-01-018-005c
ततस्तु भगवानिन्द्रः संहृष्टः समपद्यत । KK05-01-018-006a
वरं च प्रददौ तस्मै अथर्वाङ्गिरसे तदा ॥ KK05-01-018-006c
अथर्वाङ्गिरसं नाम वेदेऽस्मिन्वै भविष्यति । KK05-01-018-007a
उदाहरणमेतद्धि यज्ञभागं च लप्स्यसे । KK05-01-018-007c
एवं सम्पूज्य भगवानथर्वाङ्गिरसं तदा । KK05-01-018-008a
व्यसर्जयन्महाराज देवराजः शतक्रतुः ॥ KK05-01-018-008c
सम्पूज्य सर्वांस्त्रिदशानृषींश्चापि तपोधनान् । KK05-01-018-009a
इन्द्रः प्रमुदितो राजन्धर्मेणापालयत्प्रजाः ॥ KK05-01-018-009c
एवं दुःखमनुप्राप्तमिन्द्रेण सह भार्यया । KK05-01-018-010a
अज्ञातवासश्च कृतः शत्रूणां वधकाङ्क्षया ॥ KK05-01-018-010c
नात्र मन्युस्त्वया कार्यो यत्क्लिष्टोऽसि महावने । KK05-01-018-011a
द्रौपद्या सह राजेन्द्र भ्रातृभिश्च महात्मभिः ॥ KK05-01-018-011c
एवं त्वमपि राजेन्द्र राज्यं प्राप्स्यसि भारत । KK05-01-018-012a
वृत्रं हत्वा यथा प्राप्तः शक्रः कौरवनन्दन ॥ KK05-01-018-012c
दुराचारश्च नहुषो ब्रह्वद्विट् पापचेतनः । KK05-01-018-013a
अगस्त्यशापाभिहतो विनष्टः शाश्वतीः समाः ॥ KK05-01-018-013c
एवं तव दुरात्मानः शत्रवः शत्रुसूदन । KK05-01-018-014a
क्षिप्रं नाशं गमिष्यन्ति कर्णदुर्योधनादयः ॥ KK05-01-018-014c
ततः सागरपर्यन्तां भोक्ष्यसे मेदिनीमिमाम् । KK05-01-018-015a
भ्रातृभिः सहितो वीर द्रौपद्या च सहानया ॥ KK05-01-018-015c
उपाख्यानमिदं शक्रविजयं वेदसम्मितम् । KK05-01-018-016a
राज्ञा व्यूढेष्वनीकेषु श्रोतव्यं जयमिच्छता ॥ KK05-01-018-016c
तस्मात्संश्रावयामि त्वां विजयं जयतां वर । KK05-01-018-017a
संस्तूयमाना वर्धन्ते महात्मानो युधिष्ठिर ॥ KK05-01-018-017c
क्षत्रियाणामभावोयं युधिष्ठिर महात्मनाम् । KK05-01-018-018a
दुर्योधनापराधेन भीमार्जुनबलेन च ॥ KK05-01-018-018c
सङ्ग्रामे सङ्क्षयो घोरो भविष्यत्यचिरादिव ॥ KK05-01-018-019ac
आख्यानमिन्द्रविजयं य इदं नियतः पठेत् । KK05-01-018-020a
धूतपाप्मा जितस्वर्गः परत्रेह च मोदते ॥ KK05-01-018-020c
न चारिजं भयं तस्य नापुत्रो वा भवेन्नरः । KK05-01-018-021a
नापदं प्राप्नुयात्काञ्चिद्दीर्घमायुश्च विन्दति । KK05-01-018-021c
सर्वत्र जयमाप्नोति न कदाचित्पराजयम् ॥ KK05-01-018-021e
वैशम्पायन उवाच KK05-01-018-022
एवमाश्वासितो राजा शल्येन भरतर्षभ । KK05-01-018-022a
पूजयामास विधिवच्छल्यं धर्मभृतां वरः ॥ KK05-01-018-022c
श्रुत्वा तु शल्यवचनं कुन्तीपुत्रो युधिष्ठिरः । KK05-01-018-023a
प्रत्युवाच महाबाहुर्मद्रराजमिदं वचः ॥ KK05-01-018-023c
भवान्कर्णस्य सारथ्यं करिष्यति न संशयः । KK05-01-018-024a
तत्र तेजोवधः कार्यः कर्णस्यार्जुनसंस्तवैः ॥ KK05-01-018-024c
शल्य उवाच KK05-01-018-025
एवमेतत्करिष्यामि यथा मां सम्प्रभाषसे । KK05-01-018-025a
यच्चान्यदपि शक्ष्यामि तत्करिष्याम्यहं तव ॥ KK05-01-018-025c
वैशम्पायन उवाच KK05-01-018-026
ततस्त्वामन्त्र्य कौन्तेयाञ्छल्यो मद्राधिपस्तदा । KK05-01-018-026a
जगाम सबलः श्रीमान्दुर्योधनमरिन्दम ॥ ॥ KK05-01-018-026c
इति श्रीमन्महाभारते उद्योगपर्वणि सेनोद्योगपर्वणि अष्टादशोऽध्यायः ॥