अध्यायः 017
लोकपालैः सह नहुषनिषूदनोपायम् मन्त्रयन्तमिन्द्रमेत्य अगस्त्येन नहुषस्य देवराज्यात्परिभ्रंशनिवेदनम् ॥ 1 ॥
शल्य उवाच KK05-01-017-001
अथ सञ्चिन्तयानस्य देवराजस्य धीमतः । KK05-01-017-001a
नहुषस्य वधोपायं लोकपालैः सदैवतैः ॥ KK05-01-017-001c
तपस्वी तत्र भगवानगस्त्यः प्रत्यदृश्यत । KK05-01-017-002a
सोऽब्रवीदर्च्य देवेन्द्रं दिष्ट्या वै वर्धते भवान् ॥ KK05-01-017-002c
विश्वरूपविनाशेन वृत्रासुरवधेन च । KK05-01-017-003a
दिष्ट्याद्य नहुषो भ्रष्टो देवराज्यात्पुरन्दर ॥ KK05-01-017-003c
दिष्ट्या हतारिं पश्यामि भवन्तं बलसूदन । KK05-01-017-004a
इन्द्र उवाच KK05-01-017-004
स्वागतं ते महर्षेऽस्तु प्रीतोऽहं दर्शनात्तव । KK05-01-017-004c
पाद्यमाचमनीयं च गामर्घ्यं च प्रतीच्छ मे ॥ KK05-01-017-004e
शल्य उवाच KK05-01-017-005
पूजितं चोपविष्टं तमासने मुनिसत्तमम् । KK05-01-017-005a
पर्यपृच्छत देवेशः प्रहृष्टो ब्राह्मणर्षभम् ॥ KK05-01-017-005c
श्रोतुमिच्छामि भगवन्कथ्यमानं द्विजोत्तम । KK05-01-017-006a
परिभ्रष्टः कथं स्वर्गान्नहुषः पापनिश्चयः ॥ KK05-01-017-006c
अगस्त्य उवाच KK05-01-017-007
श्रृणु शक्र प्रियं वाक्यं यथा राजा दुरात्मवान् । KK05-01-017-007a
स्वर्गाद्भ्रष्टो दुराचारो नहुषो बलदर्पितः ॥ KK05-01-017-007c
श्रमार्ताश्च वहन्तस्तं नहुषं पापकारिणम् । KK05-01-017-008a
देवर्षयो महाभागास्तथा ब्रह्मर्षयोऽमलाः ॥ KK05-01-017-008c
पप्रच्छुर्नहुषं देवं संशयं जयतां वर । KK05-01-017-009a
य इमे ब्रह्मणा प्रोक्ता मन्त्रा वै प्रोक्षणे गवाम् ॥ KK05-01-017-009c
एते प्रमाणं भवत उताहो नेति वासव । KK05-01-017-010a
नहुषो नेति तानाह तमसा मूढचेतनः ॥ KK05-01-017-010c
ऋषय ऊचुः KK05-01-017-011
अधर्मे सम्प्रवृत्तस्त्वं धर्मं न प्रतिपद्यसे । KK05-01-017-011a
प्रमाणमेतदस्माकं पूर्वं प्रोक्तं महर्षिभिः ॥ KK05-01-017-011c
अगस्त्य उवाच KK05-01-017-012
ततो विवदमानः स मुनिभिः सह वासव । KK05-01-017-012a
अथ मामस्पृशन्मूर्ध्नि पादेनाधर्मपीडितः ॥ KK05-01-017-012c
तेनाभूद्धततेजाश्च निःश्रीकश्च महीपतिः । KK05-01-017-013a
ततस्तं तमसा विग्नमवोचं भृशपीडितम् ॥ KK05-01-017-013c
यस्मात्पूर्वैः कृतं राजन्ब्रह्मर्षिभिरनुष्ठितम् । KK05-01-017-014a
अदृष्टं दूषयसि मे यच्च मूर्ध्न्यस्पृशः पदा ॥ KK05-01-017-014c
यच्चापि त्वमृषीन्मूढ ब्रह्मकल्पान्दुरासदान् ॥ KK05-01-017-015ac
वाहान्कृत्वा वाहयसि तेन स्वर्गाद्धतप्रभः । KK05-01-017-016a
ध्वंस पाप परिभ्रष्टः क्षीणपुण्यो महीतले ॥ KK05-01-017-016c
दशवर्षसहस्राणि सर्परूपधरो महान् । KK05-01-017-017a
विचरिष्यसि पूर्णेषु पुनः स्वर्गमवाप्स्यसि ॥ KK05-01-017-017c
'दृष्ट्वा युधिष्ठिरं नाम तव वंशसमुद्भवम् । KK05-01-017-018a
निहतो ब्रह्मशापेन प्रपद्यस्व त्रिविष्टपम् ॥' KK05-01-017-018c
एवं भ्रष्टो दुरात्मा स देवराज्यादरिन्दम । KK05-01-017-019a
दिष्ट्या वर्धामहे शक्र हतो ब्रह्मर्षिकण्टकः ॥ KK05-01-017-019c
त्रिविष्टपं प्रपद्यस्व पाहि लोकाञ्शचीपते । KK05-01-017-020a
जितेन्द्रियो जितामित्रः स्तूयमानो महर्षिभिः ॥ KK05-01-017-020c
शल्य उवाच KK05-01-017-021
ततो देवा भृशं तुष्टा महर्षिगणसंवृताः । KK05-01-017-021a
पितरश्चैव यक्षाश्च भुजगा राक्षसास्तथा ॥ KK05-01-017-021c
गन्धर्वा देवकन्याश्च सर्वे चाप्सरसां गणाः । KK05-01-017-022a
सरांसि सरितः शैलाः सागराश्च विशाम्पते ॥ KK05-01-017-022c
उपागम्याब्रुवन्सर्वे दिष्ट्या वर्धसि शक्रुहन् । KK05-01-017-023a
हतश्च नहुषः पापो दिष्ट्यागस्त्येन धीमता । KK05-01-017-023c
दिष्ट्या पापसमाचारः कृतः सर्पो महीतले ॥ ॥ KK05-01-017-023e
इति श्रीमन्महाभारते उद्योगपर्वणि सेनोद्योगपर्वणि सप्तदशोऽध्यायः ॥