अध्यायः 016 बृहस्पतिना ब्राह्ममन्त्रसंवर्धितेनाग्निना पद्मनालस्थेन्द्रं दृष्ट्वा बृहस्पतये तन्निवेदनम् ॥ 1 ॥ बृहस्पतिना तत्र गत्वा इन्द्रे स्तूयमाने कुबेरादीनां तत्रागमनम् ॥ 2 ॥ इन्द्रेण नहुषजये साहाय्यायाग्नेर्भागदानपूर्वकं कुबेरादीनां तत्तद्दिगाधिपत्येऽभिषेचनम् ॥ 3 ॥ बृहस्पतिरुवाच KK05-01-016-001
त्वमग्रे सर्वदेवानां मुखं त्वमसि हव्यवाट् । KK05-01-016-001a
त्वमन्तः सर्वभूतानां गूढश्चरसि साक्षिवत् ॥ KK05-01-016-001c
त्वामाहुरेकं कवयस्त्वामाहुस्त्रिविधं पुनः । KK05-01-016-002a
त्वया त्यक्तं जगच्चेदं सद्यो नश्येद्धुताशन ॥ KK05-01-016-002c
कृत्वा तुभ्यं नमो विप्राः स्वकर्मविजितां गतिम् । KK05-01-016-003a
गच्छन्ति सह पत्नीभिः सुतैरपि च शाश्वतीम् ॥ KK05-01-016-003c
त्वमेवाग्ने हव्यवाहस्त्वमेव परमं हविः । KK05-01-016-004a
यजन्ति सत्रैस्त्वामेव यज्ञैश्च परमाध्वरैः ॥ KK05-01-016-004c
सृष्ट्वा लोकांस्त्रीमिमान्हव्यवाह प्राप्ते काले पचसि पुनः समिद्धः । KK05-01-016-005a
त्वं सर्वस्य भुवनस्य प्रसूतिस्त्वमेवाग्ने भवसि पुनः प्रतिष्ठा ॥ KK05-01-016-005c
त्वामग्ने जलदानाहुर्विद्युतश्च मनीषिणः । KK05-01-016-006a
वहन्ति सर्वभूतानि त्वत्तो निष्क्रम्य हेतयः ॥ KK05-01-016-006c
त्वय्यापो निहिताः सर्वास्त्वयि सर्वमिदं जगत् । KK05-01-016-007a
न तेऽस्त्यविदितं किञ्चित्त्रिषु लोकेषु पावक ॥ KK05-01-016-007c
स्वयोनिं भजते सर्वो विशस्वापोऽविशङ्कितः । KK05-01-016-008a
अहं त्वां वर्धयिष्यामि ब्राह्मैर्मन्त्रैः सनातनैः ॥ KK05-01-016-008c
एवं स्तुतो हव्यवाट् स भगवान्कविरुत्तमः । KK05-01-016-009a
बृहस्पतिमथोवाच प्रीतिमान्वाक्यमुत्तमम् । KK05-01-016-009c
दर्शयिष्यामि ते शक्रं सत्यमेतद्ब्रवीमि ते ॥ KK05-01-016-009e
शल्य उवाच KK05-01-016-010
प्रविष्यापस्ततो वह्निः ससमुद्राः सपल्वलाः । KK05-01-016-010a
आससाद सरस्तच्च गूढो यत्र शतक्रतुः ॥ KK05-01-016-010c
अथ तत्रापि पद्मानि विचिन्वन्भरतर्षभ । KK05-01-016-011a
अपश्यत्स तु देवेन्द्रं बिसमध्यगतं तदा ॥ KK05-01-016-011c
आगत्य च ततस्तूर्णं तमाचष्ट बृहस्पतेः । KK05-01-016-012a
अणुमात्रेण वपुषा पद्मतन्त्वाश्रितं प्रभुम् ॥ KK05-01-016-012c
गत्वा देवर्षिगन्धर्वैः सहितोऽथ बृहस्पतिः । KK05-01-016-013a
पुराणैः कर्मभिर्देवं तुष्टाव बलसूदनम् ॥ KK05-01-016-013c
महाऽसुरो हतः शक्र नमुचिर्दारुणस्त्वया । KK05-01-016-014a
शम्बरश्च बलश्चैव तथोभौ घोरविक्रमौ ॥ KK05-01-016-014c
शतक्रतो विवर्धस्व सर्वाञ्शत्रून्निषूदय । KK05-01-016-015a
उत्तिष्ठ शक्र सम्पश्य देवर्षींश्च समागतान् ॥ KK05-01-016-015c
महेन्द्र दानवान्हत्वा लोकास्त्रातास्त्वया विभो । KK05-01-016-016a
अपां फेनं समासाद्य विष्णुतेजोतिबृंहितम् । KK05-01-016-016c
त्वया वृत्रो हतः पूर्वं देवराज जगत्पते ॥ KK05-01-016-016e
त्वं सर्वभूतेषु शरण्य ईड्यस्त्वया समं विद्यते नेह भूतम् । KK05-01-016-017a
त्वया धार्यन्ते सर्वभूतानि शक्र त्वं देवानां महिमानं चकर्थ ॥ KK05-01-016-017c
पाहि सर्वांश्च लोकांश्च महेन्द्र बलमाप्नुहि । KK05-01-016-018a
एवं संस्तूयमानश्च सोऽवर्धत शनैः शनैः ॥ KK05-01-016-018c
स्वं चैव वपुरास्थाय बभूव स बलान्वितः । KK05-01-016-019a
अब्रवीच्च गुरुं देवो बृहस्पतिमवस्थितम् ॥ KK05-01-016-019c
किं कार्यमवशिष्टं वो हतस्त्वाष्ट्रो महासुरः । KK05-01-016-020a
वृत्रश्च सुमहाकायो यो वै लोकाननाशयत् ॥ KK05-01-016-020c
बृहस्पतिरुवाच KK05-01-016-021
मानुषो नहुषो राजा देवर्षिगणतेजसा । KK05-01-016-021a
देवराज्यमनुप्राप्तः सर्वान्नो बाधते भृशम् ॥ KK05-01-016-021c
इन्द्र उवाच KK05-01-016-022
कथं च नहुषो राज्यं देवानां प्राप दुर्लभम् । KK05-01-016-022a
तपसा केन वा युक्तः किंवीर्यो वा बृहस्पते । KK05-01-016-022c
'तत्सर्वं कथय त्वं मे यथेन्द्रत्वमुपेयिवान् ॥ KK05-01-016-022e
बृहस्पतिरुवाच KK05-01-016-023
त्वयि प्रनष्टे देवेश विश्वं प्रव्यथितं जगत् । KK05-01-016-023a
परस्परभयोद्विग्नं बभूवार्तमराजकम् ॥ KK05-01-016-023c
ततो देवैः सगन्धर्वैः सर्षिसङ्घैः सपावकैः । KK05-01-016-024a
मानुषो नहुषो राजा देवराज्येऽभिषेचितः ॥ KK05-01-016-024c
देवा भीताः शक्रमकामयन्त त्वया त्यक्तं महदैन्द्रं पदं तत् । KK05-01-016-025a
तदा देवाः पितरोऽथर्षयश्च गन्धर्वमुख्याश्च समेत्य सर्वे ॥ KK05-01-016-025c
गत्वाऽब्रुवन्नहुषं तत्र शक्र त्वं नो राजा भव भुवनस्य गोप्ता । KK05-01-016-026a
तानब्रवीन्नहुषो नास्मि शक्त आप्यायध्वं तपसा तेजसा माम् ॥ KK05-01-016-026c
एवमुक्तैर्वर्द्धितश्चापि देवै राजाऽभवन्नहुषो घोरवीर्यः । KK05-01-016-027a
त्रैलोक्ये च प्राप्य राज्यं महर्षीन्कृत्वा वाहान्याति लोकान्दुरात्मा ॥ KK05-01-016-027c
तेजोहरं दृष्टिविषं सुघोरं मा त्वं पश्येर्नहुषं वै कदाचित् । KK05-01-016-028a
देवाश्च सर्वे नहुषं भृशार्ता न पश्यन्ते गूढरूपाश्चरन्तः ॥ KK05-01-016-028c
शल्य उवाच KK05-01-016-029
एवं वदत्यङ्गिरसां वरिष्ठे बृहस्पतौ लोकपालः कुबेरः । KK05-01-016-029a
वैवस्वतश्चैव यमः पुराणो दवेश्च सोमो वरुणश्चाजगाम ॥ KK05-01-016-029c
ते वै समागम्य महेन्द्रमूचुर्दिष्ट्या त्वाष्ट्रो निहतश्चैव वृत्रः । KK05-01-016-030a
दिष्ट्या च त्वां कुशलिनमक्षतं च पश्यामो वै निहतारिं च शक्र ॥ KK05-01-016-030c
स तान्यथावच्च हि लोकपालान्समेत्य वै प्रीतमना महेन्द्रः । KK05-01-016-031a
उवाच चैनान्प्रतिभाष्य शक्रः सञ्चोदयिष्यन्नहुषस्यान्तरेण ॥ KK05-01-016-031c
राजा देवानां नहुषो घोररूपस्तत्र साह्यं दीयतां मे भवद्भिः । KK05-01-016-032a
ते चाब्रुवन्नहुषो घोररूपो दृष्टीविषस्तस्य बिभीम ईश ॥ KK05-01-016-032c
त्वं चेद्राजानं नहुषं पराजयेस्ततो वयं भागमर्हाम शक्र । KK05-01-016-033a
इन्द्रोऽब्रवीद्भवतु भवानपां पतिर्यमः कुबेरश्च मयाभिषेकम् ॥ KK05-01-016-033c
सम्प्राप्नुवन्त्वद्य सहैव दैवतै रिपुं जयाम तं नहुषं घोरदृष्टिम् । KK05-01-016-034a
ततः शक्रं ज्वलनोऽप्याह भागं प्रयच्छ मह्यं तव साह्यं करिष्ये । KK05-01-016-034c
तमाह शक्रो भविताऽग्ने तवापि चेन्द्राग्न्योर्वै भाग एको महाक्रतौ ॥ KK05-01-016-034e
शल्य उवाच KK05-01-016-035
एवं सञ्चिन्त्य भगवान्महेन्द्रः पाकशासनः । KK05-01-016-035a
कुबेरं सर्वयक्षाणां धनानां च प्रभुं तथा ॥ KK05-01-016-035c
वैवस्वतं पितॄणां च वरुणं चाप्यपां तथा । KK05-01-016-036a
आधिपत्यं ददौ शक्रः सत्कृत्य वरदस्तथा ॥ ॥ KK05-01-016-036c

इति श्रीमन्महाभारते उद्योगपर्वणि सेनोद्योगपर्वणि षोडशोऽध्यायः ॥

5-16-6 हेतयः ज्वालाः ॥ 5-16-31 नहुषस्यान्तरेण अन्तरं भेदः । बुद्धिभेदार्थमित्यर्थः ॥