अध्यायः 015

इन्द्रबोधितशचीवचनात् नहुषेण अगस्त्यादिसप्तर्षीणां स्वशिबिकायां वाहकतया योजनम् ॥ 1 ॥ शचीप्रार्थनया बृहस्पतिना होमेन सन्तोष्याग्नेरिन्द्रान्वेषणाय प्रेषणम् ॥ 2 ॥ अग्निना बृहस्पतिम् प्रति जलवर्जं सर्वत्रान्वेषणेपीन्द्रानधिगमकथनम् ॥ 3 ॥ शल्य उवाच KK05-01-015-001
एवमुक्तः स भगवाञ्शच्या तां पुनरब्रवीत् । KK05-01-015-001a
विक्रमस्य न कालोऽयं नहुषो बलवत्तरः ॥ KK05-01-015-001c
विवर्द्धितश्च ऋषिभिर्हव्यकव्यैश्च भामिनि । KK05-01-015-002a
नीतिमत्र विधास्यामि देवि तां कर्तुमर्हसि ॥ KK05-01-015-002c
गुह्यं चैतत्त्वया कार्यं नाख्यातव्यं शुभे क्वचित् । KK05-01-015-003a
गत्वा नहुषमेकान्ते ब्रवीहि च सुमध्यमे ॥ KK05-01-015-003c
ऋषियानेन दिव्येन मामुपैहि जगत्पते । KK05-01-015-004a
एवं तव वशे प्रीता भविष्यामीति तं वद ॥ KK05-01-015-004c
इत्युक्ता देवराजेन पत्नी सा कमलेक्षणा । KK05-01-015-005a
एवमस्त्वित्यथोक्त्वा तु जगाम नहुषं प्रति ॥ KK05-01-015-005c
नहुषस्तां ततो दृष्ट्वा सस्मितो वाक्यमब्रवीत् । KK05-01-015-006a
स्वागतं ते वरारोहे किं करोमि शुचिस्मिते ॥ KK05-01-015-006c
भक्तं मां भज कल्याणि किमिच्छसि मनस्विनि । KK05-01-015-007a
तव कल्याणि यत्कार्यं तत्करिष्ये सुमध्यमे ॥ KK05-01-015-007c
न च व्रीडा त्वया कार्या सुश्रोणि मयि विश्वसेः । KK05-01-015-008a
सत्येन वै शपे देवि करिष्ये वचनं तव ॥ KK05-01-015-008c
इन्द्राण्युवाच KK05-01-015-009
यो मे कृतस्त्वया कालस्तमाकाङ्क्षे जगत्पते । KK05-01-015-009a
ततस्त्वमेव भर्ता मे भविष्यसि सुराधिप ॥ KK05-01-015-009c
कार्यं च हृदि मे यत्तद्देवराजावधारय । KK05-01-015-010a
वक्ष्यामि यदि मे राजन्प्रियमेतत्करिष्यसि ॥ KK05-01-015-010c
वाक्यं प्रणयसंयुक्तं ततः स्यां वशगा तव । KK05-01-015-011a
इन्द्रस्य वाजिनो वाहा हस्तिनोऽथ रथास्तथा ॥ KK05-01-015-011c
इच्छाम्यहमथापूर्वं वाहनं ते सुराधिप । KK05-01-015-012a
यन्न विष्णोर्न रुद्रस्य न सुराणां न रक्षसाम् ॥ KK05-01-015-012c
वहन्तु त्वां महाभागा ऋषयः सङ्गता विभो । KK05-01-015-013a
सर्वे शिबिकया राजन्नेतद्धि मम रोचते ॥ KK05-01-015-013c
नासुरेषु न देवेषु तुल्यो भवितुमर्हसि । KK05-01-015-014a
सर्वेषां तेज आदत्से स्वेन वीर्येण दर्शनात् ॥ KK05-01-015-014c
न ते प्रमुखतः स्थातुं कश्चिच्छक्नोति वीर्यवान् । KK05-01-015-015a
शल्य उवाच KK05-01-015-015
एवमुक्तस्तु नहुषः प्राहृष्यत तदा किल । KK05-01-015-015c
उवाच वचनं चापि सुरेन्द्रस्तामनिन्दिताम् ॥ KK05-01-015-015e
नहुष उवाच KK05-01-015-016
अपूर्वं वाहनमिदं त्वयोक्तं वरवर्णिनि । KK05-01-015-016a
दृढं मे रुचितं देवि त्वद्वशोऽस्मि वरानने ॥ KK05-01-015-016c
न ह्यल्पवीर्यो भवति यो वाहान्कुरुते मुनीन् । KK05-01-015-017a
अहं तपस्वी बलवान्भूतभव्यभवत्प्रभुः ॥ KK05-01-015-017c
मयि क्रुद्धे जगन्न स्यान्मयि सर्वं प्रतिष्ठितम् । KK05-01-015-018a
देवदानवगन्धर्वाः किन्नरोरगराक्षसाः ॥ KK05-01-015-018c
न मे क्रुद्धस्य पर्याप्ताः सर्वे लोकाः शुचिस्मिते । KK05-01-015-019a
चक्षुषा यं प्रपश्यामि तस्य तेजो हराम्यहम् ॥ KK05-01-015-019c
'अहमिन्द्रोऽस्मि देवानां लोकानां च महेश्वरः । KK05-01-015-020a
मयि हव्यं च कव्यं च लोकाश्चैव सनातनाः ।' KK05-01-015-020c
तस्मात्ते वचनं देवि करिष्यामि न संशयः ॥ KK05-01-015-020e
सप्तर्षयो मां वक्ष्यन्ति सर्वे ब्रह्मर्षयस्तथा । KK05-01-015-021a
पश्य माहात्म्ययोगं मे ऋद्धिं च वरवर्णिनि ॥ KK05-01-015-021c
शल्य उवाच KK05-01-015-022
एवमुक्त्वा तु तां देवीं विसृज्य च वराननाम् । KK05-01-015-022a
'अथ सञ्चिन्त्य नहुषो बलवीर्येण भारत ॥ KK05-01-015-022c
विसृज्य सुप्रतीकं च नागमैरावतं तथा । KK05-01-015-023a
हंसयुक्तं विमानं च हरियुक्तं तथा रथम् ॥ KK05-01-015-023c
स तु दर्पेण महता परिभूय महामुनीन् । KK05-01-015-024a
'विमाने योजयित्वा च ऋषीन्नियमामास्थितान् ॥ KK05-01-015-024c
अब्रह्मण्यो बलोपेतो मत्तो मदबलेन च । KK05-01-015-025a
कामवृत्तः स दुष्टात्मा वाहयामास तानृषीन् ॥ KK05-01-015-025c
नहुषेण विसृष्टा च बृहस्पतिमथाब्रवीत् । KK05-01-015-026a
समयोऽल्पावशेषो मे नहुषेणेह यः कृतः ॥ KK05-01-015-026c
शक्रं मृगय शीघ्रं त्वं भक्तायाः कुरु मे दयाम् । KK05-01-015-027a
बाढमित्येव भगवान्बृहस्पतिरुवाच ताम् ॥ KK05-01-015-027c
न भेतव्यं त्वया देवि नहुषाद्दुष्टचेतसः । KK05-01-015-028a
न ह्येष स्थास्यति चिरं गत एष नराधमः ॥ KK05-01-015-028c
अधर्मज्ञो महर्षीणां वाहनाच्च हतः शुभे । KK05-01-015-029a
इष्टिं चाहं करिष्यामि विनाशायास्य दुर्मतेः ॥ KK05-01-015-029c
शक्रं चाधिगमिष्यामि माभैस्त्वं भद्रमस्तु ते । KK05-01-015-030a
ततः प्रज्वाल्य विधिवज्जुहाव परमं हविः ॥ KK05-01-015-030c
बृहस्पतिर्महातेजा देवराजोपलब्धये । KK05-01-015-031a
हुत्वाऽग्निं सोब्रवीद्राजञ्छक्र अन्विष्यतामिति ॥ KK05-01-015-031c
तस्माच्च भगवान्देवः स्वयमेव हुताशनः । KK05-01-015-032a
स्त्रीवेषमद्भुतं कृत्वा तत्रैवान्तरधीयत ॥ KK05-01-015-032c
स दिशः प्रदिशश्चैव पर्वतांश्च वनानि च । KK05-01-015-033a
पृथिवीं चान्तरिक्षं च विचित्याथ मनोगतिः । KK05-01-015-033c
निमेषान्तरमात्रेण बृहस्पतिमुपागमत् ॥ KK05-01-015-033e
अग्निरुवाच KK05-01-015-034
बृहस्पते न पश्यामि देवराजमिह क्वचित् । KK05-01-015-034a
आपः शेषाः सदा चापः प्रवेष्टुं नोत्सहाम्यहम् ॥ KK05-01-015-034c
न मे तत्र गतिर्ब्रह्मन्किमन्यत्करवाणि ते । KK05-01-015-035a
तमब्रवीद्देवगुरुरपो विश महाद्युते ॥ KK05-01-015-035c
अग्निरुवाच KK05-01-015-036
नापः प्रवेष्टुं शक्ष्यामि क्षयो मेऽत्र भविष्यति । KK05-01-015-036a
शरणं त्वां प्रपन्नोऽस्मि स्वस्ति तेस्तु महाद्युते ॥ KK05-01-015-036c
अद्भ्योऽग्निर्ब्रह्मतः क्षत्रमश्मनो लोहमुत्थितम् । KK05-01-015-037a
तेषां सर्वत्रगं तेजः स्वासु योनिषु शाम्यति ॥ ॥ KK05-01-015-037c

इति श्रीमन्महाभारते उद्योगपर्वणि सेनोद्योगपर्वणि पञ्चदशोऽध्यायः ॥

5-15-21 मां वक्ष्यन्ति मम वहनं करिष्यन्ति ॥ 21 ॥