अध्यायः 014

स्तुत्या प्रत्यक्षीभूतया उपश्रुतिदेव्यासह पद्मनालभेदनेन तद्विवरं गतया शच्या तत्रस्थेन्द्रदर्शनम् ॥ 1 ॥ तथा इन्द्रं स्तुत्वा नहुषवृत्तान्तकथनम् ॥ 2 ॥ शल्य उवाच KK05-01-014-001
अथैनां रूपिणी साध्वीमुपातिष्ठदुपश्रुतिः । KK05-01-014-001a
तां वयोरूपसम्पन्नां दृष्ट्वा देवीमुपस्थिताम् ॥ KK05-01-014-001c
इन्द्राणी सम्प्रहृष्टात्मा सम्पूज्यैनामथाब्रवीत् । KK05-01-014-002a
इच्छामि त्वामहं ज्ञातुं का त्वं ब्रूहि वरानने ॥ KK05-01-014-002c
उपश्रुतिरुवाच KK05-01-014-003
उपश्रुतिरहं देवि तवान्तिकमुपागता । KK05-01-014-003a
दर्शनं चैव सम्प्राप्ता तव सत्येन भामिनि ॥ KK05-01-014-003c
पतिव्रता च युक्ता च यमेन नियमेन च । KK05-01-014-004a
दर्शयिष्यामि ते शक्रं देवं वृत्रनिषूदनम् ॥ KK05-01-014-004c
क्षिप्रमन्वेहि भद्रं ते द्रक्ष्यसे सुरसत्तमम् । KK05-01-014-005a
ततस्तां प्रस्थितां देवीमिन्द्राणी सा समन्वगात् ॥ KK05-01-014-005c
देवारण्यान्यतिक्रम्य पर्वतांश्च बहूंस्ततः । KK05-01-014-006a
हिमवन्तमतिक्रम्य उत्तरं पार्श्वमागमत् ॥ KK05-01-014-006c
समुद्रं च समासाद्य बहुयोजनविस्तृतम् । KK05-01-014-007a
आससाद महाद्वीपं नानाद्रुमलतावृतम् ॥ KK05-01-014-007c
तत्रापश्यत्सरो दिव्यं नानाशकुनिभिर्वृतम् । KK05-01-014-008a
शतयोजनविस्तीर्णं तावदेवायतं शुभम् ॥ KK05-01-014-008c
तत्र दिव्यानि पद्मानि पञ्चवर्णानि भारत । KK05-01-014-009a
षट्पदैरुपगीतानि प्रफुल्लानि सहस्रशः ॥ KK05-01-014-009c
सरसस्तस्य मध्ये तु पद्मिनी महती शुभा । KK05-01-014-010a
गौरेणोन्नतनालेन पद्मेन महता वृता ॥ KK05-01-014-010c
पद्मस्य भित्त्वा नालं च विवेश सहिता तया । KK05-01-014-011a
बिसतन्तुप्रविष्टं च तत्रापश्यच्छतक्रतुम् ॥ KK05-01-014-011c
तं दृष्ट्वा च सुसूक्ष्मेण रूपेणावस्थितं प्रभुम् । KK05-01-014-012a
सूक्ष्मरूपधरा देवी बभूवोपश्रुतिश्च सा ॥ KK05-01-014-012c
इन्द्रं तुष्टाव चेन्द्राणी विश्रुतैः पूर्वकर्मभिः । KK05-01-014-013a
स्तूयमानस्ततो देवः शचीमाह पुरन्दरः ॥ KK05-01-014-013c
किमर्थमसि सम्प्राप्ता विज्ञातश्च कथं त्वहम् । KK05-01-014-014a
ततः सा कथयामास नहुषस्य विचेष्टितम् ॥ KK05-01-014-014c
इन्द्रत्वं त्रिषु लोकेषु प्राप्य वीर्यसमन्वितः । KK05-01-014-015a
दर्पाविष्टश्च दुष्टात्मा मामुवाच शतक्रतो ॥ KK05-01-014-015c
उपतिष्ठेति स क्रूरः कालं च कृतवान्मम । KK05-01-014-016a
यदि न त्रास्यसि विभो करिष्यति स मां वशे ॥ KK05-01-014-016c
एतेन चाहं सम्प्राप्ता द्रुतं शक्र तवान्तिकम् । KK05-01-014-017a
जहि रौद्रं महाबाहो नहुषं पापनिश्चयम् ॥ KK05-01-014-017c
प्रकाशयस्व चात्मानं दैत्यदानवसूदन । KK05-01-014-018a
तेजः समाप्नुहि विभो देवराज्यं प्रशाधि च ॥ ॥ KK05-01-014-018c

इति श्रीमन्महाभारते उद्योगपर्वणि सेनोद्योगपर्वणि चतुर्दशोऽध्यायः ॥

5-14-16 त्रास्यसि पालयिष्यसि ॥ 16 ॥