अध्यायः 013

शच्या नहुषम् प्रति इन्द्रस्यान्वेषणेऽप्यपरिज्ञाने त्वामुपस्थास्य इति समयकरणम् ॥ 1 ॥ देवैर्विष्ण्वाज्ञया इन्द्रस्य ब्रह्महत्यापनोदनाय अश्वमेधयाजनम् ॥ 2 ॥ ध्वस्तपाप्मनोपीन्द्रस्य पुनर्नहुषभयाददर्शने शोचन्त्या शच्या उपश्रुतिदेवीपूजनम् ॥ 3 ॥ शल्य उवाच KK05-01-013-001
अथ तामब्रवीद्दृष्ट्वा नहुषो देवराट् तदा । KK05-01-013-001a
त्रयाणामपि लोकानामहमिन्द्रः शुचिस्मिते ॥ KK05-01-013-001c
भजस्व मां वरारोहे पतित्वे वरवर्णिनि । KK05-01-013-002a
एवमुक्ता तु सा देवी नहुषेण पतिव्रता ॥ KK05-01-013-002c
प्रावेपत भयोद्विग्ना प्रवाते कदली यथा । KK05-01-013-003a
प्रणम्य सा हि ब्रह्माणं शिरसा तु कृताञ्जलिः ॥ KK05-01-013-003c
देवराजमथोवाच नहुषं घोरदर्शनम् । KK05-01-013-004a
कालमिच्छाम्यहं लब्धुं त्वत्तः कञ्चित्सुरेश्वर ॥ KK05-01-013-004c
न हि विज्ञायते शक्रः किं वा प्राप्तः क्व वा गतः । KK05-01-013-005a
तत्त्वमेतत्तु विज्ञाय यदि न ज्ञायते प्रभो ॥ KK05-01-013-005c
ततोऽहं त्वामुपस्थास्ये सत्यमेतद्ब्रवीमि ते । KK05-01-013-006a
एवमुक्तः स इन्द्राण्या नहुषः प्रीतिमानभूत् ॥ KK05-01-013-006c
नहुष उवाच KK05-01-013-007
एवं भवतु सुश्रोणि यथा मामिह भाषसे । KK05-01-013-007a
ज्ञात्वा चागमनं कार्यं सत्यमेतदनुस्मरेः ॥ KK05-01-013-007c
नहुषेण विसृष्टा च निश्चक्राम ततः शुभा । KK05-01-013-008a
बृहस्पतिनिकेतं च सा जगाम यशस्विनी ॥ KK05-01-013-008c
तस्याः संश्रुत्य च वचो देवाश्चाग्निपुरोगमाः । KK05-01-013-009a
चिन्तयामासुरेकाग्राः शक्रार्थं राजसत्तम ॥ KK05-01-013-009c
देवदेवेन सङ्गम्य विष्णुना प्रभविष्णुना । KK05-01-013-010a
ऊचुश्चैनं समुद्विग्ना वाक्यं वाक्यविशारदाः ॥ KK05-01-013-010c
ब्रह्मवध्याभिभूतो वै शक्रः सुरगणेश्वरः । KK05-01-013-011a
गतिश्च नस्त्वं देवेश पूर्वजो जगतः प्रभुः ॥ KK05-01-013-011c
रक्षार्थं सर्वभूतानां विष्णुत्वमुपजग्मिवान् । KK05-01-013-012a
त्वद्वीर्यनिहते वृत्रे वासवो ब्रह्महत्यया ॥ KK05-01-013-012c
वृतः सुरगणश्रेष्ठ मोक्षं तस्य विनिर्दिश । KK05-01-013-013a
तेषां तद्वचनं श्रुत्वा देवानां विष्णुरब्रवीत् ॥ KK05-01-013-013c
मामेव यजतां शक्रः पावयिष्यामि वज्रिणम् । KK05-01-013-014a
पुण्येन हयमेधेन मामिष्ट्वा पाकशासनः ॥ KK05-01-013-014c
पुनरेष्यति देवानामिन्द्रत्वमकुतोभयः । KK05-01-013-015a
स्वकर्मभिश्च नहुषो नाशं यास्यति दुर्मतिः ॥ KK05-01-013-015c
किञ्चित्कालमिदं देवा मर्षयध्वमतन्द्रिताः । KK05-01-013-016a
श्रुत्वा विष्णोः शुभां सत्यां वाणीं ताममृतोपमाम् । KK05-01-013-016c
ततः सर्वे सुरगणाः सोपाध्यायाः सहर्षिभिः । KK05-01-013-017a
यत्र शक्रो भयोद्विग्नस्तं देशमुपचक्रमुः ॥ KK05-01-013-017c
तत्राश्वमेधः सुमहान्महेन्द्रस्य महात्मनः । KK05-01-013-018a
ववृते पावनार्थं वै ब्रह्महत्यापहो नृप ॥ KK05-01-013-018c
विभज्य ब्रह्महत्यां तु वृक्षेषु च नदीषु च । KK05-01-013-019a
पर्वतेषु पृथिव्यां च स्त्रीषु चैव युधिष्ठिर ॥ KK05-01-013-019c
संविभज्य च भूतेषु विसृज्य च सुरेश्वरः । KK05-01-013-020a
विज्वरो धूतपाप्मा च वासवोऽभवदात्मवान् ॥ KK05-01-013-020c
अकम्प्यं नहुषं स्थानाद्दृष्ट्वा बलनिषूदनः । KK05-01-013-021a
तेजोघ्नं सर्वभूतानां वरदानाच्च दुःसहम् ॥ KK05-01-013-021c
ततः शचीपतिर्देवः पुनरेव व्यनश्यत । KK05-01-013-022a
अदृश्यः सर्वभूतानां कालाकाङ्क्षी चचार ह ॥ KK05-01-013-022c
प्रनष्टे तु ततः शक्रे शची शोकसमन्विता । KK05-01-013-023a
हा शक्रेति तदा देवी विललाप सुदुःखिता ॥ KK05-01-013-023c
यदि दत्तं यदि हुतं गुरवस्तोषिता यदि । KK05-01-013-024a
एकभर्तृत्वमेवास्तु सत्यं यद्यस्ति वा मयि ॥ KK05-01-013-024c
पुण्यां चेमामहं दिव्यां प्रवृत्तामुत्तरायणे । KK05-01-013-025a
देवीं रात्रिं नमस्यामि सिध्यतां मे मनोरथः ॥ KK05-01-013-025c
प्रयता च निशां देवीमुपातिष्ठत तत्र सा । KK05-01-013-026a
पतिव्रतात्वात्सत्येन सोपश्रुतिमथाकरोत् ॥ KK05-01-013-026c
यत्रास्ते देवराजोऽसौ तं देशं दर्शयस्व मे । KK05-01-013-027a
इत्याहोपश्रुतिं देवीं सत्यं सत्येन दृश्यताम् ॥ ॥ KK05-01-013-027c

इति श्रीमन्महाभारते उद्योगपर्वणि सेनोद्योगपर्वणि त्रयोदशोऽध्यायः ॥

5-13-12 विष्णुत्वं व्यापकत्वम् ॥ 12 ॥ 5-13-26 आकरोत् आकारितवती ॥ 26 ॥