अध्यायः 012

नहुषप्रसादनाय देवादिभिः प्रार्थितेनापि बृहस्पतिना शच्या अत्याजनम् ॥ 1 ॥ बृहस्पत्यनुमत्या समयकरणाय शच्याः नहुषसमीपगमनम् ॥ 2 ॥ शल्य उवाच KK05-01-012-001
क्रुद्धं तु नहुषं दृष्ट्वा देवा ऋषिपुरोगमाः । KK05-01-012-001a
अब्रुवन्देवराजानं नहुषं घोरदर्शनम् ॥ KK05-01-012-001c
देवराज जहि क्रोधं त्वयि क्रुद्धे जगद्विभो । KK05-01-012-002a
त्रस्तं सासुरगन्धर्वं सकिन्नरमहोरगम् ॥ KK05-01-012-002c
जहि क्रोधमिमं साधो न कुप्यन्ति भवद्विधाः । KK05-01-012-003a
परस्य पत्नी सा देवी प्रसीदस्व सुरेश्वर ॥ KK05-01-012-003c
निवर्तय मनः पापात्परदाराभिमर्शनात् । KK05-01-012-004a
देवराजोऽसि भद्रं ते प्रजा धर्मेण पालय ॥ KK05-01-012-004c
एवमुक्तो न जग्राह तद्वचः काममोहितः । KK05-01-012-005a
अथ देवानुवाचेदमिन्द्रं प्रति सुराधिपः ॥ KK05-01-012-005c
अहल्या धर्षिता पूर्वमृषिपत्नी यशस्विनी । KK05-01-012-006a
जीवतो भर्तुरिन्द्रेण स वः किं न निवारितः ॥ KK05-01-012-006c
बहूनि च नृशंसानि कृतानीन्द्रेण वै पुरा । KK05-01-012-007a
वैधर्म्याण्युपधाश्चैव स वः किं न निवारितः ॥ KK05-01-012-007c
उपतिष्ठतु देवी मामेतदस्या हितं परम् । KK05-01-012-008a
युष्माकं च सदा देवाः शिवमेवं भविष्यति ॥ KK05-01-012-008c
देवा ऊचुः KK05-01-012-009
इन्द्राणीमानयिष्यामो यथेच्छसि दिवस्पते । KK05-01-012-009a
जहि क्रोधमिमं वीर प्रीतो भव सुरेश्वर ॥ KK05-01-012-009c
शल्य उवाच KK05-01-012-010
इत्युक्त्वा तं तदा देवा ऋषिभिः सह भारत । KK05-01-012-010a
जग्मुर्बृहस्पतिं वक्तुमिन्द्राणीं चाशुभं वचः ॥ KK05-01-012-010c
जानीमः शरणं प्राप्तामिन्द्राणीं तव वेश्मनि । KK05-01-012-011a
दत्ताभयां च विप्रेन्द्र त्वया देवर्षिसत्तम ॥ KK05-01-012-011c
ते त्वां देवाः सगन्धर्वा ऋषयश्च महाद्युते । KK05-01-012-012a
प्रसादयन्ति चेन्द्राणी नहुषाय प्रदीयताम् ॥ KK05-01-012-012c
इन्द्राद्विशिष्टो नहुषो देवराजो महाद्युतिः । KK05-01-012-013a
वृणोत्विमं वरारोहा भर्तृत्वे वरवर्णिनी ॥ KK05-01-012-013c
एवमुक्ते तु सा देवी बाष्पमुत्सृज्य सस्वनम् । KK05-01-012-014a
उवाच रुदती दीना बृहस्पतिमिदं वचः ॥ KK05-01-012-014c
नाहमिच्छामि नहुषं पतिं देवर्षिसत्तम । KK05-01-012-015a
शरणागतास्मि ते ब्रहंस्त्रायस्व महतो भयात् ॥ KK05-01-012-015c
बृहस्पतिरुवाच KK05-01-012-016
शरणागतं न त्यजेयमिन्द्राणि मम निश्चयः । KK05-01-012-016a
धर्मज्ञां सत्यशीलां च न त्यजेयमनिन्दिते ॥ KK05-01-012-016c
नाकार्यं कर्तुमिच्छामि ब्राह्मणः सन्विशेषतः । KK05-01-012-017a
श्रुतधर्मा सत्यशीलो जानन्धर्मानुशासनम् ॥ KK05-01-012-017c
नाहमेतत्करिष्यामि गच्छध्वं वै सुरोत्तमाः । KK05-01-012-018a
अस्मिंश्चार्थे पुरा गीतं ब्रह्मणा श्रूयतामिदम् ॥ KK05-01-012-018c
न तस्य बीजं रोहति रोहकाले न तस्य वर्षं वर्षति वर्षकाले । KK05-01-012-019a
भीतं प्रपन्नं प्रददाति शत्रवे न स त्रातारं लभते त्राणमिच्छन् ॥ KK05-01-012-019c
मोघमन्नं विन्दति चाप्यचेताः स्वर्गाल्लोकाद्भ्रश्यति नष्टचेष्टः । KK05-01-012-020a
भीतं प्रपन्नं प्रददाति यो वै न तस्य हव्यं प्रतिगृह्णन्ति देवाः ॥ KK05-01-012-020c
प्रमीयते चास्य प्रजा ह्यकाले सदा विवासं पितरोऽस्य कुर्वते । KK05-01-012-021a
भीतं प्रपन्नं प्रददाति शत्रवे सेन्द्रा देवाः प्रहरन्त्यस्य वज्रम् ॥ KK05-01-012-021c
एतदेवं विजानन्वै न दास्यामि शचीमिमाम् । KK05-01-012-022a
इन्द्राणीं विश्रुतां लोके शक्रस्य महिषीं प्रियाम् ॥ KK05-01-012-022c
अस्या हितं भवेद्यच्च मम चापि हितं भवेत् । KK05-01-012-023a
क्रियतां तत्सुरश्रेष्ठा नहि दास्याम्यहं शचीम् ॥ KK05-01-012-023c
शल्य उवाच KK05-01-012-024
अथ देवाः सगन्धर्वा गुरुमाहुरिदं वचः । KK05-01-012-024a
कथं सुनीतं नु भवेन्मन्त्रयस्व बृहस्पते ॥ KK05-01-012-024c
बृहस्पतिरुवाच KK05-01-012-025
नहुषं याचतां देवी किञ्चित्कालान्तरं शुभा । KK05-01-012-025a
इन्द्राणी हितमेतद्धि तथाऽस्माकं भविष्यति ॥ KK05-01-012-025c
बहुविघ्नः सुराः कालः कालः कालं नयिष्यति । KK05-01-012-026a
गर्वितो बलवांश्चापि नहुषो वरसंश्रयात् ॥ KK05-01-012-026c
शल्य उवाच KK05-01-012-027
ततस्तेन तथोक्ते तु प्रीता देवास्तथाब्रुवन् । KK05-01-012-027a
ब्रह्मन्साध्विदमुक्तं ते हितं सर्वं दिवौकसाम् ॥ KK05-01-012-027c
एवमेतद्द्विजश्रेष्ठ देवी चेयं प्रसाद्यताम् । KK05-01-012-028a
ततः समस्ता इन्द्राणीं देवाश्चाग्निपुरोगमाः ॥ KK05-01-012-028c
ऊचुर्वचनमव्यग्रा लोकानां हितकाम्यया । KK05-01-012-029a
देवा ऊचुः KK05-01-012-029
त्वया जगदिदं सर्वं धृतं स्थावरजङ्गमम् । KK05-01-012-029c
एकपत्न्यसि सत्या च गच्छस्व नहुषं प्रति ॥ KK05-01-012-029e
क्षिप्रं त्वामभिकामश्च विनशिष्यति पापकृत् । KK05-01-012-030a
नहुषो देवि शक्रश्च सुरैश्वर्यमवाप्स्यति ॥ KK05-01-012-030c
एवं विनिश्चयं कृत्वा इन्द्राणी कार्यसिद्धये । KK05-01-012-031a
अभ्यगच्छत सव्रीडा नहुषं घोरदर्शनम् ॥ KK05-01-012-031c
दृष्ट्वा तां नहुषश्चापि वयोरूपसमन्विताम् । KK05-01-012-032a
समहृष्यत दुष्टात्मा कामोपहतचेतनः ॥ ॥ KK05-01-012-032c

इति श्रीमन्महाभारते उद्योगपर्वणि सेनोद्योगपर्वणि द्वादशोऽध्यायः ॥

5-12-7 वैधर्म्याणि त्वाष्ट्रवधादीनि । उपधाः वृत्रसङ्ख्यादीनि छलानि ॥ 5-12-20 अचेताः दुर्बलचित्तः ॥ 5-12-25 कालान्तरं कालावधिम् ॥