अध्यायः 011

ऋषिभिर्देवैश्च नहुषस्य वरदानपूर्वकमिन्द्रराज्ये अभिषेचनम् ॥ 1 ॥ कदाचन स्वावलोकनेन कलुषितमनसा नहुषेण काम्यमानायै इन्द्राण्यै बृहस्पतिना अभयप्रदानम् ॥ 2 ॥ शल्य उवाच KK05-01-011-001
ऋषयोऽथाब्रुवन्सर्वे देवाश्च त्रिदिवेश्वराः । KK05-01-011-001a
अयं वै नहुषः श्रीमान्देवराज्येऽभिषिच्यताम् ॥ KK05-01-011-001c
तेजस्वी च यशस्वी च धार्मिकश्चैव नित्यदा । KK05-01-011-002a
ते गत्वा त्वब्रुवन्सर्वे राजा नो भव पार्थिव ॥ KK05-01-011-002c
स तानुवाच नहुषो देवानृषिगणांस्तथा । KK05-01-011-003a
पितृभिः सहितान्राजन्परीप्सन्हितमात्मनः ॥ KK05-01-011-003c
दुर्बलोऽहं न मे शक्तिर्भवतां परिपालने । KK05-01-011-004a
बलवाञ्ज्ञायतां कश्चिद्बलं शक्रे हि नित्यदा ॥ KK05-01-011-004c
तमब्रुवन्पुनः सर्वे देवा ऋषिपुरोगमाः । KK05-01-011-005a
अस्माकं तपसा युक्तः पाहि राज्यं त्रिविष्टपे ॥ KK05-01-011-005c
परस्परभयं घोरमस्माकं हि न संशयः । KK05-01-011-006a
अभिषिच्यस्व राजेन्द्र भव राजा त्रिविष्टपे ॥ KK05-01-011-006c
देवदानवयक्षाणामृषीणां रक्षसां तथा । KK05-01-011-007a
पितृगन्धर्वभूतानां चक्षुर्विषयवर्तिनाम् ॥ KK05-01-011-007c
तेज आदास्यसे पश्यन्बलवांश्च भविष्यसि । KK05-01-011-008a
धर्मं पुरस्कृत्य सदा सर्वलोकाधिपो भव ॥ KK05-01-011-008c
ब्रह्मर्षींश्चापि देवांश्च गोपायस्व त्रिविष्टपे । KK05-01-011-009a
शल्य उवाच KK05-01-011-009
अभिषिक्तः स राजेन्द्र ततो राजा त्रिविष्टपे ॥ KK05-01-011-009c
धर्मं पुरस्कृत्य तदा सर्वलोकाधिपोऽभवत् । KK05-01-011-010a
सुदुर्लभं वरं लब्ध्वा प्राप्य राज्यं त्रिविष्टपे ॥ KK05-01-011-010c
धर्मात्मा सततं भूत्वा कामात्मा समपद्यत । KK05-01-011-011a
देवोद्यानेषु सर्वेषु नन्दनोपवनेषु च ॥ KK05-01-011-011c
कैलासे हिमवत्पृष्ठे मन्दरे श्वेतपर्वते । KK05-01-011-012a
सह्ये महेन्द्रे मलये समुद्रेषु सरित्सु च ॥ KK05-01-011-012c
अप्सरोभिः परिवृतो देवकन्यासमावृतः । KK05-01-011-013a
नहुषो देवराजोऽथ क्रीडन्बहुविधं तदा ॥ KK05-01-011-013c
श्रृण्वन्दिव्या बहुविधाः कथाः श्रुतिमनोहराः । KK05-01-011-014a
वादित्राणि च सर्वाणि गीतं च मधुरस्वनम् ॥ KK05-01-011-014c
विश्वावसुर्नारदश्च गन्धर्वाप्सरसां गणाः । KK05-01-011-015a
ऋतवः षट्च देवेन्द्रं मूर्तिमन्त उपस्थिताः ॥ KK05-01-011-015c
मारुतः सुरभिर्वाति मनोज्ञः सत्वशीतलः । KK05-01-011-016a
एवं विक्रीडतस्तस्य नहुषस्य दुरात्मनः ॥ KK05-01-011-016c
सम्प्राप्ता दर्शनं देवी शक्रस्य महिषी प्रिया । KK05-01-011-017a
स तां सन्दृश्य दुष्टात्मा प्राह सर्वान्सभासदः ॥ KK05-01-011-017c
इन्द्रस्य महिषी देवी कस्मान्मां नोपतिष्ठति । KK05-01-011-018a
अहमिन्द्रोऽस्मि देवानां लोकानां च तथेश्वरः ॥ KK05-01-011-018c
आगच्छतु शची मह्यं क्षिप्रमद्य निवेशनम् । KK05-01-011-019a
तच्छ्रुत्वा दुर्मना देवी बृहस्पतिमुवाच ह ॥ KK05-01-011-019c
रक्ष मां नहुषाद्ब्रह्मंस्त्वामस्मि शरणं गता । KK05-01-011-020a
सर्वलक्षणसम्पन्नां ब्रह्मंस्त्वं मां प्रभाषसे ॥ KK05-01-011-020c
देवराजस्य दयितामत्यन्तं सुखभागिनीम् । KK05-01-011-021a
अवैधव्येन युक्तां चाप्येकपत्नीं पतिव्रताम् ॥ KK05-01-011-021c
उक्तवानसि मां पूर्वमृतां तां कुरु वै गिरम् । KK05-01-011-022a
नोक्तपूर्वं च भगवन्मृषा ते किञ्चिदीश्वर ॥ KK05-01-011-022c
तस्मादेतद्भवेत्सत्यं त्वयोक्तं द्विजसत्तम । KK05-01-011-023a
बृहस्पतिरथोवाच इन्द्राणीं भयमोहिताम् ॥ KK05-01-011-023c
यदुक्तासि मया देवि सत्यं तद्भविता ध्रुवम् । KK05-01-011-024a
द्रक्ष्यसे देवराजं तमिन्द्रं शीघ्रमिहागतम् ॥ KK05-01-011-024c
न भेतव्यं च नहुषात्सत्यमेतद्ब्रवीमि ते । KK05-01-011-025a
समानयिष्ये शक्रेण नचिराद्भवतीमहम् ॥ KK05-01-011-025c
अथ शुश्राव नहुष इन्द्राणीं शरणं गताम् । KK05-01-011-026a
बृहस्पतेरङ्गिरसश्चुक्रोध स नृपस्तदा ॥ ॥ KK05-01-011-026c

इति श्रीमन्महाभारते उद्योगपर्वणि सेनोद्योगपर्वणि एकादशोऽध्यायः ॥

5-11-2 नोऽस्माकं राजा भव ॥ 2 ॥