अध्यायः 010
विष्ण्वाज्ञया ऋषिभिर्वृत्रस्य आसुधाद्यवध्यत्ववरदानपूर्वकम् इन्द्रवृत्रयोः सन्धिकरणम् ॥ 1 ॥ कदाचन समुद्रतीरे वृत्रं दृष्टवता इन्द्रेण वृत्रोपरि सवज्रे फेने प्रक्षिप्ते तत्प्रविष्टेन विष्णुना वृत्रहननम् ॥ 2 ॥ वृत्रवधजन्यब्रह्महत्यापीडितस्येन्द्रस्य स्वर्गात्प्रवासः ॥ 3 ॥
इन्द्र उवाच KK05-01-010-001
सर्वं व्याप्तमिदं देवा वृत्रेण जगदव्ययम् । KK05-01-010-001a
न ह्यस्य सदृशं किञ्चित्प्रतिघाताय यद्भवेत् ॥ KK05-01-010-001c
समर्थो ह्यभवं पूर्वमसमर्थोऽस्मि साम्प्रतम् । KK05-01-010-002a
कथं नु कार्यं भद्रं वो दुर्धर्षः स हि मे मतः ॥ KK05-01-010-002c
तेजस्वी च महात्मा च युद्धे चामितविक्रमः । KK05-01-010-003a
ग्रसेत्त्रिभुवनं सर्वं सदेवासुरमानुषम् ॥ KK05-01-010-003c
तस्माद्विनिश्चयमिमं शृणुध्वं त्रिदिवौकसः । KK05-01-010-004a
विष्णोः क्षयमुपागम्य समेत्य च महात्मना ॥ KK05-01-010-004c
तेन सम्मन्त्र्य वेत्स्यामो वधोपायं दुरात्मनः । KK05-01-010-005a
शल्य उवाच KK05-01-010-005
एवमुक्ते मघवता देवाः सर्षिगणास्तदा । KK05-01-010-005c
शरण्यं शरणं देवं जग्मुर्विष्णुं महाबलम् ॥ KK05-01-010-005e
ऊचुश्च सर्वे देवेशं विष्णुं वृत्रभयार्दिताः । KK05-01-010-006a
त्रयो लोकास्त्वया क्रान्तास्त्रिभिर्विक्रमणैः पुरा ॥ KK05-01-010-006c
अमृतं चाहृतं विष्णो दैत्याश्च निहता रणे । KK05-01-010-007a
बलिं बद्ध्वा महादैत्यं शक्रो देवाधिपः कृतः ॥ KK05-01-010-007c
त्वं प्रभुः सर्वदेवानां त्वया सर्वमिदं ततम् । KK05-01-010-008a
त्वं हि देवो महादेव सर्वलोकनमस्कृतः ॥ KK05-01-010-008c
गतिर्भव त्वं देवानां सेन्द्राणाममरोत्तम । KK05-01-010-009a
जगद्व्याप्तमिदं सर्वं वृत्रेणासुरसूदन ॥ KK05-01-010-009c
विष्णुरुवाच KK05-01-010-010
अवश्यं करणीयं मे भवतां हितमुत्तमम् । KK05-01-010-010a
तस्मादुपायं वक्ष्यामि यथाऽसौ नभविष्यति ॥ KK05-01-010-010c
गच्छध्वं सर्षिगन्धर्वा यत्रासौ विश्वरूपधृक् । KK05-01-010-011a
साम तस्य प्रयुञ्जध्वं तत एनं विजेष्यथ ॥ KK05-01-010-011c
भविष्यति जयो देवाः शक्रस्य मम तेजसा । KK05-01-010-012a
अदृश्यश्च प्रवेक्ष्यामि वज्रे ह्यस्यायुधोत्तमे ॥ KK05-01-010-012c
गच्छध्वमृषिभिः सार्धं गन्धर्वैश्च सुरोत्तमाः । KK05-01-010-013a
वृत्रस्य सह शक्रेण सन्धिं कुरुत माचिरम् ॥ KK05-01-010-013c
शल्य उवाच KK05-01-010-014
एवमुक्ते तु देवेन ऋषयस्त्रिदशास्तथा । KK05-01-010-014a
ययुः समेत्य सहिताः शक्रं कृत्वा पुरःसरम् ॥ KK05-01-010-014c
समीपमेत्य च यदा सर्व एव महौजसः । KK05-01-010-015a
तं तेजसा प्रज्वलितं प्रतपन्तं दिशो दश ॥ KK05-01-010-015c
ग्रसन्तमिव लोकांस्त्रीन्सूर्याचन्द्रमसौ यथा । KK05-01-010-016a
ददृशुस्ते ततो वृत्रं शक्रेण सह देवताः ॥ KK05-01-010-016c
ऋषयोऽथ ततोऽभ्येत्य वृत्रमूचुः प्रियं वचः । KK05-01-010-017a
व्याप्तं जगदिदं सर्वं तेजसा तव दुर्जय ॥ KK05-01-010-017c
न च शक्नोषि निर्जेषुं वासवं बलिनां वर । KK05-01-010-018a
युध्यतोश्चापि वां कालो व्यतीतः सुमहानिह ॥ KK05-01-010-018c
पीड्यन्ते च प्रजाः सर्वाः सदेवासुरमानुषाः । KK05-01-010-019a
सख्यं भवतु ते वृत्र शक्रेण सह नित्यदा ॥ KK05-01-010-019c
अवाप्स्यसि सुखं त्वं च शक्रलोकांश्च शाश्वतान् । KK05-01-010-020a
ऋषिवाक्यं निशम्याथ वृत्रःस तु महाबलः ॥ KK05-01-010-020c
उवाच तानृषीन्सर्वान्प्रणम्य शिरसाऽसुरः । KK05-01-010-021a
सर्वे यूयं महाभागा गन्धर्वाश्चैव सर्वशः ॥ KK05-01-010-021c
यद्ब्रूथ तच्छ्रुतं सर्वं ममापि श्रृणुतानघाः । KK05-01-010-022a
सन्धिः कथं वै भविता मम शक्रस्य चोभयोः । KK05-01-010-022c
तेजसोर्हि द्वयोर्देवाः सख्यं वै भविता कथम् ॥ KK05-01-010-022e
ऋषय ऊचुः KK05-01-010-023
सकृत्सतां सङ्गतमीप्सितव्यं ततः परं भविता भव्यमेव । KK05-01-010-023a
नातिक्रामेत्सत्पुरुषेण सङ्गतं तस्मात्सतां सङ्गतमीप्सितव्यम् ॥ KK05-01-010-023c
दृढं सतां सङ्गतं चापि नित्यं ब्रूयाच्चार्थं ह्यर्थकृच्छ्रेषु धीराः । KK05-01-010-024a
महार्थवत्सत्पुरुषेण सङ्गतं तस्मात्सन्तं न जिघांसेत धीरः ॥ KK05-01-010-024c
इन्द्रः सतां सम्मतश्च निवासश्च महात्मनाम् । KK05-01-010-025a
सत्यवादी ह्यनिन्द्यश्च धर्मवित्सूक्ष्मनिश्चयः ॥ KK05-01-010-025c
तेन ते सह शक्रेण सन्धिर्भवतु नित्यदा । KK05-01-010-026a
एवं विश्वासमागच्छ मा ते भूद्बुद्धिरन्यथा ॥ KK05-01-010-026c
शल्य उवाच KK05-01-010-027
महर्षिवचनं श्रुत्वा तानुवाच महाद्युतिः । KK05-01-010-027a
अवश्यं भगवन्तो मे माननीयास्तपस्विनः ॥ KK05-01-010-027c
ब्रवीमि यदहं देवास्तत्सर्वं क्रियते यदि । KK05-01-010-028a
ततः सर्वं करिष्यामि यदूचुर्मां दिवौकसः ॥ KK05-01-010-028c
न शुष्केण न चार्द्रेण नाश्मना न च दारुणा । KK05-01-010-029a
न शस्त्रेण न चास्त्रेण न दिवा न तथा निशि ॥ KK05-01-010-029c
वध्यो भवेयं विप्रेन्द्राः शक्रस्य सह दैवतैः । KK05-01-010-030a
एवं मे रोचते सन्धिः शक्रेण सह नित्यदा ॥ KK05-01-010-030c
बाढमित्येव ऋषयस्तमूचुर्भरतर्षभ । KK05-01-010-031a
एवं वृत्ते तु सन्धाने वृत्रः प्रमुदितोऽभवत् ॥ KK05-01-010-031c
'ततः सन्धिं मिथः कृत्वा ऋषयो दीप्ततेजसः । KK05-01-010-032a
शक्रस्य सह वृत्रेण पुनर्जग्मुर्यथागतम् ' ॥ KK05-01-010-032c
युक्तः सदाऽभवच्चापि शक्रो हर्षसमन्वितः । KK05-01-010-033a
वृत्रस्य वधसंयुक्तानुपायानन्वचिन्तयत् ॥ KK05-01-010-033c
'अभिसन्धिर्महेन्द्रस्य सन्धिकर्मणि यः कृतः । KK05-01-010-034a
ऋषिभिस्त्वीरितं यच्च महेन्द्रस्तदनुस्मरन् ॥' KK05-01-010-034c
छिद्रान्वेषी समुद्विग्नः सदा वसति देवराट् । KK05-01-010-035a
स कदाचित्समुद्रान्ते समपश्यन्महासुरम् ॥ KK05-01-010-035c
सन्ध्याकाल उपावृत्ते मुहूर्ते चातिदारुणे । KK05-01-010-036a
ततः सञ्चिन्त्य भगवान्वरदानं महात्मनः ॥ KK05-01-010-036c
सन्ध्येयं वर्तते रौद्रा न रात्रिर्दिवसं न च । KK05-01-010-037a
वृत्रश्चावश्यवध्योऽयं मम सर्वहरो रिपुः ॥ KK05-01-010-037c
यदि वृत्रं न हन्म्यद्य वञ्चयित्वा महासुरम् । KK05-01-010-038a
महाबलं महाकायं न मे श्रेयो भविष्यति ॥ KK05-01-010-038c
एवं सञ्चिन्तयन्नेव शक्रो विष्णुमनुस्मरन् । KK05-01-010-039a
अथ फेनं तदाऽपश्यत् समुद्रे पर्वतोपमप् ॥ KK05-01-010-039c
नायं शुष्को न चार्द्रोऽयं न च शस्त्रमिदं तथा । KK05-01-010-040a
एनं क्षेप्स्यामि वृत्रस्य क्षणादेव नशिष्यति ॥ KK05-01-010-040c
सवज्रमथ फेनं तं क्षिप्रं वृत्रे निसृष्टवान् । KK05-01-010-041a
प्रविश्य फेनं तं विष्णुरथ वृत्रं व्यनाशयत् ॥ KK05-01-010-041c
निहते तु ततो वृत्रे दिशो वितिमिराऽभवन् । KK05-01-010-042a
प्रववौ च शिवो वायुः प्रजाश्च जहृषुस्तथा ॥ KK05-01-010-042c
ततो देवाः सगन्धर्वा यक्षरक्षोमहोरगाः । KK05-01-010-043a
ऋषयश्च महेन्द्रं तमस्तुवन्विविधैः स्तवैः ॥ KK05-01-010-043c
नमस्कृतः सर्वभूतैः सर्वभूतान्यसान्त्वयत् । KK05-01-010-044a
हत्वा शत्रुं प्रहृष्टात्मा वासवः सह दैवतैः ॥ KK05-01-010-044c
विष्णुं त्रिभुवनश्रेष्ठं पूजयामास धर्मवित् । KK05-01-010-045a
ततो हते महावीर्ये वृत्रे देवभयङ्करे ॥ KK05-01-010-045c
अनृतेनाभिभूतोऽभूच्छक्रः परमदुर्मनाः । KK05-01-010-046a
त्रैशीर्षयाऽभिभूतश्च स पूर्वं ब्रह्महत्यया ॥ KK05-01-010-046c
'महादेवस्य भूतैश्च स पुनर्ब्रह्महा इति । KK05-01-010-047a
आक्रुष्टो निर्भयैर्भूयो व्रीडितो बलवृत्रहा ' ॥ KK05-01-010-047c
सोऽन्तमाश्रित्य लोकानां नष्टसञ्ज्ञो विचेतनः । KK05-01-010-048a
न प्राज्ञायत देवेन्द्रस्त्वभिभूतः स्वकर्मभिः ॥ KK05-01-010-048c
प्रतिच्छन्नोऽवसच्चाप्सु चेष्टमान इवोरगः । KK05-01-010-049a
ततः प्रनष्टे देवेन्द्रे ब्रह्महत्या भयार्दिते ॥ KK05-01-010-049c
भूमिः प्रध्वस्तसङ्काशा निर्वृक्षा शुष्ककानना । KK05-01-010-050a
विच्छिन्नस्रोतसो नद्यः सरांस्यनुदकानि च ॥ KK05-01-010-050c
सङ्क्षोभश्चापि सत्वानामनावृष्टिकृतोऽभवत् । KK05-01-010-051a
देवाश्चापि भृशं त्रस्तास्तथा सर्वे महर्षयः ॥ KK05-01-010-051c
अराजकं जगत्सर्वमभिभूतमुपद्रवैः । KK05-01-010-052a
ततो भीताऽभवन्देवाः को नो राजा भवेदिति ॥ KK05-01-010-052c
दिवि देवर्षयश्चापि देवराजविनाकृताः । KK05-01-010-053a
न स्म कश्चन देवानां राज्ये वै कुरुते मतिम् ॥ ॥ KK05-01-010-053c
इति श्रीमन्महाभारते उद्योगपर्वणि सेनोद्योगपर्वणि दशमोऽध्यायः ॥
5-10-4 क्षयं गृहम् ॥ 4 ॥