अध्यायः 009

शल्येन इन्द्रस्यापि दुःखानुभवे कथिते युधिष्ठिरपृच्छया तेन विस्तरेण तत्कथनोपक्रमः ॥ 1 ॥ इन्द्रजिघांसया त्वष्ट्रा सृष्टस्य त्रिशिरसो विश्वरूपस्य तपोभङ्गाय इन्द्रेण अप्सरसाम् प्रेषणम् ॥ 2 ॥ अप्सरोभिस्तस्याधर्षणीयत्वे ज्ञाते इन्द्रेण वज्रपातनात्तस्य हननम् ॥ 3 ॥ हतेपि तस्मिन् जीवतीव दृश्यमाने भयादिन्द्रप्रार्थनया यदृच्छया आगतेन तक्ष्णा तच्छिरश्छेदनम् ॥ 4 ॥ विश्वरूपहननकुपितेन त्वष्ट्रा पुनरिन्द्रवधाय वृत्रस्योत्पादनम् ॥ 5 ॥ वृत्रेणेन्द्रे पराजिते सेन्द्राणां देवानां विष्णुम् प्रति गमनम् ॥ 6 ॥ युधिष्ठिर उवाच KK05-01-009-001
कथमिन्द्रेण राजेन्द्र सभार्येण महात्मना । KK05-01-009-001a
दुःखं प्राप्तं परं घोरमेतदिच्छामि वेदितुम् ॥ KK05-01-009-001c
शल्य उवाच KK05-01-009-002
शृणु राजन्पुरावृत्तमितिहासं पुरातनम् । KK05-01-009-002a
सभार्येण यथा प्राप्तं दुःखमिन्द्रेण भारत ॥ KK05-01-009-002c
त्वष्टा प्रजापतिर्ह्यासीद्देवश्रेष्ठो महातपाः । KK05-01-009-003a
स पुत्रं वै त्रिशिरसमिन्द्रद्रोहात्किलासृजत् ॥ KK05-01-009-003c
ऐन्द्रं स प्रार्थयत्स्थानं विश्वरूपो महाद्युतिः । KK05-01-009-004a
तैस्त्रिभिर्वदनैर्घोरैः सूर्येन्दुज्वलनोपमैः ॥ KK05-01-009-004c
वेदानेकेन सोऽधीते सुरामेकेन चापिबत् । KK05-01-009-005a
एकेन च दिशः सर्वाः पिबन्निव निरीक्षते ॥ KK05-01-009-005c
स तपस्वी मृदुर्दान्तो धर्मे तपसि चोद्यतः । KK05-01-009-006a
तपस्तस्य महत्तीव्रं सुदुश्चरमरिन्दम ॥ KK05-01-009-006c
तस्य दृष्ट्वा तपोवीर्यं सत्यं चामिततेजसः । KK05-01-009-007a
विषादमगमच्छक्र इन्द्रोऽयं मा भवेदिति ॥ KK05-01-009-007c
कथं सज्जेच्च भोगेषु न च तप्येन्महत्तपः । KK05-01-009-008a
विवर्धमानस्त्रिशिराः सर्वं हि भुवनं ग्रसेत् ॥ KK05-01-009-008c
इति सञ्चिन्त्य बहुधा बुद्धिमान्भरतर्षभ । KK05-01-009-009a
आज्ञापयत्सोऽप्सरसस्त्वष्टृपुत्रप्रलोभने ॥ KK05-01-009-009c
यथा स सज्जेत्त्रिशिराः कामभोगेषु वै भृशम् । KK05-01-009-010a
क्षिप्रं कुरुत गच्छध्वं प्रलोभयत माचिरम् ॥ KK05-01-009-010c
शृङ्गारवेषाः सुश्रोण्यो हारैर्युक्ता मनोहरैः । KK05-01-009-011a
हावभावसमायुक्ताः सर्वाः सौन्दर्यशोभिताः ॥ KK05-01-009-011c
प्रलोभयत भद्रं वः शमयध्वं भयं मम । KK05-01-009-012a
अस्वस्थं ह्यात्मनात्मानं लक्षयामि वराङ्गनाः ॥ KK05-01-009-012c
भयं तन्मे महाघोरं क्षिप्रं नाशयताबलाः । KK05-01-009-013a
अप्सरस ऊचुः KK05-01-009-013
तथा यत्नं करिष्यामः शक्र तस्य प्रलोभने । KK05-01-009-013c
यथा नावाप्स्यसि भयं तस्माद्बलनिषूदन ॥ KK05-01-009-013e
निर्दहन्निव चक्षुर्भ्यां योऽसावास्ते तपोनिधिः । KK05-01-009-014a
तं प्रलोभयितुं देव गच्छामः सहिता वयम् ॥ KK05-01-009-014c
यतिष्यामो वशे कर्तुं व्यपनेतुं च ते भयम् । KK05-01-009-015a
शल्य उवाच KK05-01-009-015
इन्द्रेण तास्त्वनुज्ञाता जग्मुस्त्रिशिरसोऽन्तिकम् । KK05-01-009-015c
तत्र ता विविधैर्भावैर्लोभयन्त्यो वराङ्गनाः ॥ KK05-01-009-015e
नृत्तं सन्दर्शयामासुस्तथैवाङ्गेषु सौष्ठवम् । KK05-01-009-016a
नाभ्यगच्छत्प्रहर्षं ताः स पश्यन्सुमहातपाः ॥ KK05-01-009-016c
इन्द्रियाणि वशे कृत्वा पूर्णसागरसन्निभः । KK05-01-009-017a
तास्तु यत्नं परं कृत्वा पुनः शक्रमुपस्थिताः ॥ KK05-01-009-017c
कृताञ्जलिपुटाः सर्वा देवराजमथाब्रुवन् । KK05-01-009-018a
न स शक्यः सुदुर्धर्षो धैर्याच्चालयितुं प्रभो ॥ KK05-01-009-018c
यत्ते कार्यं महाभाग क्रियतां तदनन्तरम् । KK05-01-009-019a
सम्पूज्याप्सरसः शक्रो विसृज्य च महामतिः ॥ KK05-01-009-019c
चिन्तयामास तस्यैव वधोपायं युधिष्ठिर । KK05-01-009-020a
स तूष्णीं चिन्तयन्वीरो देवराजः प्रतापवान् ॥ KK05-01-009-020c
विनिश्चितमतिर्धीमान्वधे त्रिशिरसोऽभवत् । KK05-01-009-021a
वज्रमस्य क्षिपाम्यद्य स क्षिप्रं नभविष्यति ॥ KK05-01-009-021c
शत्रुः प्रवृद्धो नोपेक्ष्यो दुर्बलोऽपि बलीयसा । KK05-01-009-022a
शास्त्रबुद्ध्या विनिश्चित्य कृत्वा बुद्धिं वधे दृढाम् ॥ KK05-01-009-022c
अथ वैश्वानरनिभं घोररूपं भयावहम् । KK05-01-009-023a
मुमोच वज्रं सङ्क्रुद्धः शक्रस्त्रिशिरसं प्रति ॥ KK05-01-009-023c
स पपात हतस्तेन वज्रेण दृढमाहतः । KK05-01-009-024a
पर्वतस्येव शिखरं प्रणुन्नं मेदिनीतले ॥ KK05-01-009-024c
तं तु वज्रहतं दृष्ट्वा शयानमचलोपमम् । KK05-01-009-025a
न शर्म लेभे देवेन्द्रो दीपिततस्तस्य तेजसा ॥ KK05-01-009-025c
हतोऽपि दीप्ततेजाः स जीवन्निव हि दृश्यते । KK05-01-009-026a
घातितस्य शिरांस्याजौ जीवन्तीवाद्भुतानि वै ॥ KK05-01-009-026c
'शिरांसि तस्याजायन्त त्रीण्येव शकुनास्त्रयः । KK05-01-009-027a
तित्तिरिः कलविङ्कश्च तथैव च कपिञ्जलः । KK05-01-009-027c
विश्वरूपशिरांस्येव जायन्ते तानि भारत ' ॥ KK05-01-009-027e
ततोऽतिभीतगात्रस्तु शक्र आस्ते विचारयन् । KK05-01-009-028a
अथाजगाम परशुं स्कन्धेनादाय वर्धकिः ॥ KK05-01-009-028c
तदरण्यं महाराज यत्रास्तेऽसौ निपातितः । KK05-01-009-029a
स भीतस्तत्र तक्षाणं घटमानं शचीपतिः ॥ KK05-01-009-029c
अपश्यदब्रवीच्चैनं सत्वरं पाकशासनः । KK05-01-009-030a
क्षिप्रं छिन्धि शिरांस्यस्य कुरुष्व वचनं मम ॥ KK05-01-009-030c
तक्षोवाच KK05-01-009-031
महास्कन्धो भृशं ह्येष परशुर्नभविष्यति । KK05-01-009-031a
कर्तुं चाहं न शक्ष्यामि कर्म सद्भिर्विगर्हितम् ॥ KK05-01-009-031c
इन्द्र उवाच KK05-01-009-032
मा भैस्त्वं शीघ्रमेतद्वै कुरुष्व वचनं मम । KK05-01-009-032a
मत्प्रसादाद्धि ते शस्त्रं वज्रकल्पं भविष्यति ॥ KK05-01-009-032c
तक्षोवाच KK05-01-009-033
कं भवन्तमहं विद्यां घोरकर्माणमद्य वै । KK05-01-009-033a
एतदिच्छाम्यहं श्रोतुं तत्त्वेन कथयस्व मे ॥ KK05-01-009-033c
इन्द्र उवाच KK05-01-009-034
अहमिन्द्रो देवराजस्तक्षन्विदितमस्तु ते । KK05-01-009-034a
कुरुष्वैतद्यथोक्तं मे तक्षन्माऽत्र विचारय ॥ KK05-01-009-034c
'मया हि निहतः शेते त्रिशिरास्त्वं च विद्धि वै । KK05-01-009-035a
वैशम्पायन उवाच KK05-01-009-035
स प्रह्वः प्राञ्जलिर्भूत्वा इदं वचनमब्रवीत्' ॥ KK05-01-009-035c
क्रूरेण नापत्रपसे कथं शक्रेह कर्मणा । KK05-01-009-036a
ऋषिपुत्रमिमं हत्वा ब्रह्महत्याभयं न ते ॥ KK05-01-009-036c
शक्र उवाच KK05-01-009-037
पश्चाद्धर्मं चरिष्यामि पावनार्थं सुदुश्चरम् । KK05-01-009-037a
शत्रुरेष महावीर्यो वज्रेण निहतो मया ॥ KK05-01-009-037c
अद्यापि चाहमुद्विग्नस्तक्षन्नस्माद्बिभेमि वै । KK05-01-009-038a
क्षिप्रं छिन्धि शिरांसि त्वं करिष्येऽनुग्रहं तव ॥ KK05-01-009-038c
शिरः पशोस्ते दास्यन्ति भागं यज्ञेषु मानवाः । KK05-01-009-039a
एष तेऽनुग्रहस्तक्षन्क्षिप्रं कुरु मम प्रियम् ॥ KK05-01-009-039c
शल्य उवाच KK05-01-009-040
एतच्छ्रुत्वा तु तक्षा स महेन्द्रवचनात्तदा । KK05-01-009-040a
शिरांस्यथ त्रिशिरसः कुठारेणाच्छिनत्तदा ॥ KK05-01-009-040c
निकृत्तेषु ततस्तेषु निष्क्रामन्नण्डजास्त्वथ । KK05-01-009-041a
कपिञ्जलास्तित्तिराश्च कलविङ्काश्च सर्वशः ॥ KK05-01-009-041c
येन वेदानधीते स्म पिबते सोममेव च । KK05-01-009-042a
तस्माद्वक्त्रार्द्विनिश्चेरुः क्षिप्रं तस्य कपिञ्जलाः ॥ KK05-01-009-042c
येन सर्वा दिशो राजन्पिबन्निव निरीक्षते । KK05-01-009-043a
तस्माद्वक्त्राद्विनिश्चेरुस्तित्तिरास्तस्य पाण्डव ॥ KK05-01-009-043c
यत्सुरापं तु तस्यासीद्वक्त्रं त्रिशिरसस्तदा । KK05-01-009-044a
कलविङ्काः समुत्पेतुः श्येनाश्च भरतर्षभ ॥ KK05-01-009-044c
ततस्तेषु निकृत्तेषु विज्वरो मघवानथ । KK05-01-009-045a
'तक्ष्णे तथा वरं दत्त्वा प्रहृष्टस्त्रिदशेश्वरः ॥' KK05-01-009-045c
जगाम त्रिदिवं देवस्तक्षाऽपि स्वगृहान्ययौ । KK05-01-009-046a
मेने कृतार्थमात्मानं हत्वा शत्रुं सुरारिहा ॥ KK05-01-009-046c
'तक्षापि स्वगृहं गत्वा नैव शंसति कस्यचित् । KK05-01-009-047a
अथैनं नाभिजानन्ति वर्षमेकं तथागतम् ॥ KK05-01-009-047c
अथ संवत्सरे पूर्णे भूताः पशुपतेः प्रभो । KK05-01-009-048a
तमाक्रोशन्त मघवान्नः प्रभुर्ब्रह्महा इति । KK05-01-009-048c
तत इन्द्रो व्रतं घोरमाचरत्पाकशासनः । KK05-01-009-049a
तपसा च सुसंयुक्तः सह देवैर्मरुद्गणैः ॥ KK05-01-009-049c
समुद्रेषु पृथिव्यां च वनस्पतिषु स्त्रीषु च । KK05-01-009-050a
विभज्य ब्रह्महत्यां च तान्वरैरप्ययोजयत् ॥ KK05-01-009-050c
वरदस्तु वरं दत्त्वा पृथिव्यै सागराय च । KK05-01-009-051a
वनस्पतिभ्यः स्त्रीभ्यश्च ब्रह्महत्यां नुनोद ताम् ॥ KK05-01-009-051c
ततस्तु शुद्धो भगवान्देवैर्लोकैश्च पूजितः । KK05-01-009-052a
इन्द्रस्थानमुपातिष्ठत्पूज्यमानो महर्षिभिः' ॥ KK05-01-009-052c
त्वष्टा प्रजापतिः श्रुत्वा शक्रेणाथ हतं सुतम् । KK05-01-009-053a
क्रोधसंरक्तनयन इदं वचनमब्रवीत् ॥ KK05-01-009-053c
त्वष्टोवाच KK05-01-009-054
तप्यमानं तपो नित्यं क्षान्तं दान्तं जितेन्द्रियम् । KK05-01-009-054a
विनाऽपराधेन यतः पुत्रं हिंसितवान्मम ॥ KK05-01-009-054c
तस्माच्छक्रविनाशाय वृत्रमुत्पादयाम्यहम् । KK05-01-009-055a
लोकाः पश्यन्तु मे वीर्यं तपसश्च बलं महत् । KK05-01-009-055c
स च पश्यतु देवेन्द्रो दुरात्मा पापचेतनः ॥ KK05-01-009-055e
उपस्पृश्य ततः क्रुद्धस्तपस्वी सुमहायशाः । KK05-01-009-056a
अग्नौ हुत्वा समुत्पाद्य घोरं वृत्रमुवाच ह ॥ KK05-01-009-056c
इन्द्रशत्रो विवर्धस्व प्रभावात्तपसो मम । KK05-01-009-057a
सोऽवर्घत दिवं स्तब्ध्वा सूर्यवैश्वानरोपमः ॥ KK05-01-009-057c
किं करोमीति चोवाच कालसूर्य इवोदितः । KK05-01-009-058a
शक्रं जहीति चाप्युक्तो जगाम त्रिदिवं ततः ॥ KK05-01-009-058c
ततो युद्धं समभवद्वृत्रवासवयोर्महत् । KK05-01-009-059a
सङ्क्रुद्धयोर्महाघोरं प्रसक्तं कुरुसत्तम ॥ KK05-01-009-059c
ततो जग्राह देवेन्द्रं वृत्रो वीरः शतक्रतुम् । KK05-01-009-060a
अपावृत्याक्षिपद्वक्त्रे शक्रं कोपसमन्वितः ॥ KK05-01-009-060c
ग्रस्ते वृत्रेण शक्रे तु सम्भ्रान्तास्त्रिदिवेश्वराः । KK05-01-009-061a
असृजंस्ते महासत्वा जृम्भिकां वृत्रनाशिनीम् ॥ KK05-01-009-061c
विजृम्भमाणस्य ततो वृत्रस्यास्यादपावृतात् । KK05-01-009-062a
स्वान्यङ्गान्यभिसङ्क्षिप्य निष्क्रान्तो बलनाशनः ॥ KK05-01-009-062c
ततः प्रभृति लोकस्य जृम्भिका प्राणिसंश्रिता । KK05-01-009-063a
जहृषुश्च सुराः सर्वे शक्रं दृष्ट्वा विनिःसृतम् ॥ KK05-01-009-063c
ततः प्रववृते युद्धं वृत्रवासवयोः पुनः । KK05-01-009-064a
संरब्धयोस्तदा घोरं सुचिरं भरतर्षभ ॥ KK05-01-009-064c
यदा व्यवर्धत रणे वृत्रो बलसमन्वितः । KK05-01-009-065a
त्वष्टुस्तेजोबलाविद्धस्तदा शक्रो न्यवर्तत ॥ KK05-01-009-065c
निवृत्ते च तदा देवा विषादमगमन्परम् । KK05-01-009-066a
समेत्य सह शक्रेण त्वष्टुस्तेजोविमोहिताः ॥ KK05-01-009-066c
अमन्त्रयन्त ते सर्वे मुनिभिः सह भारत । KK05-01-009-067a
किं कार्यमिति वै राजन्विचिन्त्य भयमोहिताः ॥ KK05-01-009-067c
जग्मुः सर्वे महात्मानं मनोभिर्विष्णुमव्ययम् । KK05-01-009-068a
उपविष्टा मन्दराग्रे सर्वे वृत्रवधेप्सवः ॥ ॥ KK05-01-009-068c

इति श्रीमन्महाभारते उद्योगपर्वणि सेनोद्योगपर्वणि नवमोऽध्यायः ॥

5-9-11 हावाः शृङ्गारचेष्टाः । भावाः चित्तविकारा हर्षादयस्तैर्युक्ताः ॥ 5-9-16 सौष्ठवं सौन्दर्यम् । प्रहर्षं लब्धभोगोऽस्मीति तोषम् ॥ 5-9-28 वर्धकिः तक्षा ॥ 5-9-31 नभविष्यति नङ्क्ष्यति ॥ 5-9-56 उपस्पृश्य आचम्य ॥ 5-9-60 अपावृत्य मुखं सम्प्रसार्य ॥