अध्यायः 007

दुर्योधनार्जुनयोः कृष्णदर्शनाय यदृच्छया युगपत् द्वारकागमनम् ॥ 1 ॥ अर्जुनेन सारथ्येन वरयित्वा तेन सह युधिष्ठिरसमीपगमनम् ॥ 2 ॥ दुर्योधनेन नारायणाह्वयकृष्णकुमारानादाय कृतवर्मणासह स्वपुरगमनम् ॥ 3 ॥ वैशम्पायन उवाच KK05-01-007-001
पुरोहितं ते प्रस्थाप्य नगरं नागसाह्वयम् । KK05-01-007-001a
दूतान्प्रस्थापयामासुः पार्थिवेभ्यस्ततस्ततः ॥ KK05-01-007-001c
प्रस्थाप्य दूतानन्यत्र द्वारकां पुरुषर्षभः । KK05-01-007-002a
स्वयं जगाम कौरव्यः कुन्तीपुत्रो धनञ्जयः ॥ KK05-01-007-002c
गते द्वारवतीं कृष्ण बलदेवे च माधवे । KK05-01-007-003a
सह वृष्ण्यन्धकैः सर्वैर्भोजैश्च शतशस्तदा ॥ KK05-01-007-003c
सर्वमागमयामास पाण्डवानां विचेष्टितम् । KK05-01-007-004a
धृतराष्ट्रात्मजो राजा गूढैः प्रणिहितैश्चरैः ॥ KK05-01-007-004c
स श्रुत्वा माधवं यान्तं सदश्वैरनिलोपमैः । KK05-01-007-005a
बलेन नातिमहता द्वारकामभ्ययात्पुरीम् ॥ KK05-01-007-005c
तमेव दिवसं चापि कौन्तेयः पाण्डुनन्दनः । KK05-01-007-006a
आनर्तनगरीं रम्यां जगामाशु धनञ्जयः ॥ KK05-01-007-006c
तौ यात्वा पुरुषव्याघ्रौ द्वारकां कुरुनन्दनौ । KK05-01-007-007a
सुप्तं ददृशतुः कृष्णं शयानं चाभिजग्मतुः ॥ KK05-01-007-007c
दुर्योधनस्तु प्रथमं वासुदेवमुपाश्रयत् । KK05-01-007-008a
उच्छीर्षतश्च कृष्णस्य निषसाद वरासने ॥ KK05-01-007-008c
ततः किरीटी तस्यानु प्रविवेश महामनाः । KK05-01-007-009a
पश्चार्धे तु स कृष्णस्य प्रह्वोऽतिष्ठत्कृताञ्जलिः ॥ KK05-01-007-009c
प्रतिबुद्धः स वार्ष्णेयो ददर्शाग्रे किरीटिनाम् । KK05-01-007-010a
सिंहासनगतं पश्चात्परिवृत्य च दृष्टवान् ॥ KK05-01-007-010c
स तयोः स्वागतं कृत्वा यथावत्प्रतिपूज्य तौ । KK05-01-007-011a
तदागमनजं हेतुं पप्रच्छ मधुसूदनः ॥ KK05-01-007-011c
ततो दुर्योधनः कृष्णमुवाच प्रहसन्निव । KK05-01-007-012a
विग्रहेऽस्मिन्भवान्साह्यं मम दातुमिहार्हति ॥ KK05-01-007-012c
समं हि भवतः सख्यं मम चैवार्जुनेऽपि च । KK05-01-007-013a
तथा सम्बन्धकं तुल्यमस्माकं त्वयि माधव ॥ KK05-01-007-013c
अहं चाभिगतः पूर्वं त्वामद्य मधुसूदन । KK05-01-007-014a
अहं चाभिगतं सन्तो भजन्ते पूर्वसारिणः ॥ KK05-01-007-014c
त्वं च श्रेष्ठतमो लोके सतामद्य जनार्दन । KK05-01-007-015a
सततं सम्मतश्चैव सद्वृत्तमनुपालय ॥ KK05-01-007-015c
कृष्ण उवाच KK05-01-007-016
भवानभिगतः पूर्वमत्र मे नास्ति संशयः । KK05-01-007-016a
दृष्टस्तु प्रथमं राजन्मया पार्थो धनञ्जयः ॥ KK05-01-007-016c
तव पूर्वाभिगमनात्पूर्वं चाप्यस्य दर्शनात् । KK05-01-007-017a
साहाय्यमुभयोरेव करिष्यामि सुयोधन ॥ KK05-01-007-017c
प्रवारणं तु बालानां पूर्वं कार्यमिति श्रुतिः । KK05-01-007-018a
तस्मात्प्रवारणं पूर्वमर्हः पार्थो धनञ्जयः ॥ KK05-01-007-018c
मत्संहननतुल्यानां गोपानामर्बुदं महत् । KK05-01-007-019a
नारायणा इति ख्याताः सर्वे सङ्ग्रामयोधिनः ॥ KK05-01-007-019c
ते वा युधि दुराधर्षा भवन्त्वेकस्य सैनिकाः । KK05-01-007-020a
अयुध्यमानः सङ्ग्रामे न्यस्तशस्त्रोऽहमेकतः ॥ KK05-01-007-020c
आभ्यामन्यतरं पार्थ यत्ते हृद्यतरं मतम् । KK05-01-007-021a
तद्वृणीतां भवानग्रे प्रवार्यस्त्वं हि धर्मतः ॥ KK05-01-007-021c
'एतद्विदित्वा कौन्तेय विचार्य च पुनः पुनः । KK05-01-007-022a
तान्वा वरय साहाय्ये मां साचिव्येऽथवा पुनः '॥ KK05-01-007-022c
वैशम्पायन उवाच KK05-01-007-023
एवमुक्तस्तु कृष्णेन कुन्तीपुत्रे धनञ्जयः । KK05-01-007-023a
अयुध्यमानं सङ्ग्रामे वरयामास केशवम् ॥ KK05-01-007-023c
नारायणममित्रघ्नं कामाज्जातमजं नृषु । KK05-01-007-024a
सर्वक्षत्रस्य पुरतो देवदानवयोरपि ॥ KK05-01-007-024c
दुर्योधनस्तु तत्सैन्यं सर्वमावरयत्तदा । KK05-01-007-025a
सहस्राणां सहस्रं तु योधानां प्राप्य भारत ॥ KK05-01-007-025c
कृष्णं चापहृतं ज्ञात्वा सम्प्राप परमां मुदम् । KK05-01-007-026a
दुर्योधनस्तु तत्सैन्यं सर्वमादाय पार्थिवः ॥ KK05-01-007-026c
ततोऽभ्ययाद्भीमबलो रौहिणेयं महाबलम् । KK05-01-007-027a
सर्वं चागमने हेतुं स तस्मै सन्न्यवेदयत् । KK05-01-007-027c
प्रत्युवाच ततः शौरिर्धार्तराष्ट्रमिदं वचः ॥ KK05-01-007-027e
बलदेव उवाच KK05-01-007-028
विदितं ते नरव्याघ्र सर्वं भवितुमर्हति । KK05-01-007-028a
यन्मयोक्तं विराटस्य पुरा वैवाहिके तदा ॥ KK05-01-007-028c
निगृह्योक्तो हृषीकेशस्त्वदर्थं कुरुनन्दन । KK05-01-007-029a
मया सम्बन्धकं तुल्यमिति राजन्पुनःपुनः ॥ KK05-01-007-029c
न च तद्वाक्यमुक्तं वै केशवं प्रत्यपद्यत । KK05-01-007-030a
न चाहमुत्सहे कृष्णं विना स्थातुमपि क्षणम् ॥ KK05-01-007-030c
नाहं सहायः पार्थस्य नापि दुर्योधनस्य वै । KK05-01-007-031a
इति मे निश्चिता बुद्धिर्वासुदेवमवेक्ष्य ह ॥ KK05-01-007-031c
जातोऽसि भारते वंशे सर्वपार्थिवपूजिते । KK05-01-007-032a
गच्छ युध्यस्व धर्मेण क्षात्रेण पुरुषर्षभ ॥ KK05-01-007-032c
वैशम्पायन उवाच KK05-01-007-033
इत्येवमुक्तस्तु तदा परिष्वज्य हलायुधम् । KK05-01-007-033a
कृष्णं चापि महाबाहुमामन्त्र्य भरतर्षभ ॥ KK05-01-007-033c
सोऽभ्ययात्कृतवर्माणं धृतराष्ट्रसुतो नृपः । KK05-01-007-034a
कृतवर्मा ददौ तस्य सेनामक्षौहिणीं तदा ॥ KK05-01-007-034c
स तेन सर्वसैन्येन भीमेन कुरुनन्दनः । KK05-01-007-035a
वृतः परिययौ हृष्टः सुहृदः सम्प्रहर्षयन् ॥ KK05-01-007-035c
ततः पीताम्बरधरो जगत्स्रष्टा जनार्दनः । KK05-01-007-036a
गते दुर्योधने कृष्णः किरीटिनमथाब्रवीत् ॥ KK05-01-007-036c
अयुध्यमानः कां बृद्धिमास्थायाहं वृतस्त्वया । KK05-01-007-037a
अर्जुन उवाच KK05-01-007-037
भवान्समर्थस्तान्सर्वान्निहन्तुं नात्र संशयः । KK05-01-007-037c
निहन्तुमहमप्येकः समर्थः पुरुषर्षभ ॥ KK05-01-007-037e
भवांस्तु कीर्तिमाल्ँलोके तद्यशस्त्वां गमिष्यति । KK05-01-007-038a
यशसां चाहमप्यर्थी तस्मादसि मया वृतः ॥ KK05-01-007-038c
सारथ्यं तु त्वया कार्यमिति मे मानसं सदा । KK05-01-007-039a
चिररात्रेप्सितं कामं तद्भवान्कर्तुमर्हति ॥ KK05-01-007-039c
वासुदेव उवाच KK05-01-007-040
उपपन्नमिदं पार्थ यत्स्पर्धसि मया सह । KK05-01-007-040a
सारथ्यं ते करिष्यामि कामः सम्पद्यतां तव ॥ KK05-01-007-040c
वैशम्पायन उवाच KK05-01-007-041
एवं प्रमुदितः पार्थः कृष्णेन सहितस्तदा । KK05-01-007-041a
वृतो दाशार्हप्रवरैः पुनरायाद्युधिष्ठिरम् ॥ ॥ KK05-01-007-041c

इति श्रीमन्महाभारते उद्योगपर्वणि सेनोद्योगपर्वणि सप्तमोऽध्यायः ॥

5-7-10 प्रवारणम् ईप्सितप्रदानम् । पूर्वमर्हः त्वत्तः कनिष्ठत्वादित्यर्थः ॥ 10 ॥