अध्यायः 006
द्रुपदेन धृतराष्ट्रम् प्रति स्वपुरोहितप्रेषणम् ॥ 1 ॥ पुरोहितस्य हास्तिनपुरगमनम् ॥ 2 ॥
द्रुपद उवाच KK05-01-006-001
भूतानां प्राणिनः श्रेष्ठाः प्राणिनां बुद्धिजीविनः । KK05-01-006-001a
बुद्धिमत्सु नराः श्रेष्ठा नरेष्वपि द्विजातयः ॥ KK05-01-006-001c
द्विजेषु वैद्याः श्रेयांसो वैद्येषु कृतबुद्धयः । KK05-01-006-002a
कृतबुद्धिषु कर्तारः कर्तृषु ब्रह्मवादिनः ॥ KK05-01-006-002c
स भवान्कृतबुद्धीनां प्रधान इति मे मतिः । KK05-01-006-003a
कुलेन च विशिष्टोऽसि वयसा च श्रुतेन च । KK05-01-006-003c
प्रज्ञया सदृशश्चासि शुक्रेणाङ्गिरसेन च ॥ KK05-01-006-003e
विदितं चापि ते सर्वं यथावृत्तः स कौरवः । KK05-01-006-004a
पाण्डवश्च यथावृत्तः कुन्तीपुत्रो युधिष्ठिरः ॥ KK05-01-006-004c
धृतराष्ट्रस्य विदिते वञ्चिताः पाण्डवाः परैः । KK05-01-006-005a
विदुरेणानुनीतोऽपि पुत्रमेवानुवर्तते ॥ KK05-01-006-005c
शकुनिर्बुद्धिपूर्वं हि कुन्तीपुत्रं समाह्वयत् । KK05-01-006-006a
अनक्षज्ञं मताक्षः सन्क्षत्रवृत्ते स्थितं शुचिम् ॥ KK05-01-006-006c
ते तथा वञ्चयित्वा तु धर्मराजं युधिष्ठिरम् । KK05-01-006-007a
न कस्याञ्चिदवस्थायां राज्यं दास्यन्ति वै स्वयम् ॥ KK05-01-006-007c
भवांस्तु धर्मसंयुक्तं धृतराष्ट्रं ब्रुवन्वचः । KK05-01-006-008a
मनांसि तस्य योधानां ध्रुवमावर्तयिष्यति ॥ KK05-01-006-008c
विदुरश्चापि तद्वाक्यं साधयिष्यति तावकम् । KK05-01-006-009a
भीष्मद्रोणकृपादीनां भेदं सञ्जनयिष्यति ॥ KK05-01-006-009c
अमात्येषु च भिन्नेषु योधेषु विमुखेषु च । KK05-01-006-010a
पुनरेकत्र करणं तेषां कर्म भविष्यति ॥ KK05-01-006-010c
एतस्मिन्नन्तरे पार्थाः सुखमेकाग्रबुद्धयः । KK05-01-006-011a
सेनाकर्म करिष्यन्ति द्रव्याणां चैव सञ्चयम् ॥ KK05-01-006-011c
भिद्यमानेषु च स्वेषु लम्बमाने तथा त्वयि । KK05-01-006-012a
न तथा ते करिष्यन्ति सेनाकर्म न संशयः ॥ KK05-01-006-012c
एतत्प्रयोजनं चात्र प्राधान्येनोपलभ्यते । KK05-01-006-013a
सङ्गत्या धृतराष्ट्रश्च कुर्याद्धर्म्यं वचस्तव ॥ KK05-01-006-013c
स भवान्धर्मयुक्तश्च धर्म्यं तेषु समाचरन् । KK05-01-006-014a
कृपालुषु परिक्लेशान्पाण्डवीयान्प्रकीर्तयन् ॥ KK05-01-006-014c
वृद्धेषु कुलधर्मं च ब्रुवन्पूर्वैरनुष्ठितम् । KK05-01-006-015a
विभेत्स्यति मनांस्येषामिति मे नात्र संशयः ॥ KK05-01-006-015c
न च तेभ्यो भयं तेऽस्ति ब्राह्मणो ह्यसि वेदवित् । KK05-01-006-016a
दूतकर्मणि युक्तश्च स्थविरश्च विशेषतः ॥ KK05-01-006-016c
स भवान्पुष्ययोगेन मुहूर्तेन जयेन च । KK05-01-006-017a
कौरवेयान्प्रयात्वाशु कौन्तेयस्यार्थसिद्धये ॥ KK05-01-006-017c
वैशम्पायन उवाच KK05-01-006-018
तथाऽनुशिष्टः प्रययौ द्रुपदेन महात्मना । KK05-01-006-018a
पुरोधा वृत्तसम्पन्नो नगरं नागसाह्वयम् ॥ KK05-01-006-018c
शिष्यैः परिवृतो विद्वान्नीतिशास्त्रार्थकोविदः । KK05-01-006-019a
पाण्डवानां हितार्थाय कौरवान्प्रतिजग्मिवान् ॥ ॥ KK05-01-006-019c
इति श्रीमन्महाभारते उद्योगपर्वणि सेनोद्योगपर्वणि षष्ठोऽध्यायः ॥
5-6-2 वैद्याः विद्यावन्तः । कृतबुद्धयः सिद्धान्तज्ञाः ॥ 2 ॥