अध्यायः 005

श्रीकृष्णेन द्रुपदवाक्यप्रशंसनपूर्वकं राज्ञां धृतराष्ट्रस्य च दूतपुरोहितप्रेषणं सन्दिश्य द्वारकाम् प्रति गमनम् ॥ 1 ॥ विराटद्रुपददूताहूतानां राज्ञामागमनम् ॥ 2 ॥ दुर्योधनदूताहूतानाञ्च राज्ञामागमनम् ॥ 3 ॥ वैशम्पायन उवाच KK05-01-005-001
द्रुपदेनैवमुक्ते तु वाक्ये वाक्यविदां वरः । KK05-01-005-001a
वसुदेवसुतस्तत्र वृष्णिसिंहोऽब्रवीदिदम् ॥ KK05-01-005-001c
उपपन्नमिदं वाक्यं सोमकानां धुरन्धरे । KK05-01-005-002a
अर्थसिद्धिकरं राज्ञः पाण्डवस्यामितौजसः ॥ KK05-01-005-002c
एतच्च पूर्वं कार्यं नः सुनीतिमभिकाङ्क्षताम् । KK05-01-005-003a
अन्यथा ह्याचरन्कर्म पुरुषः स्यात्सुबालिशः ॥ KK05-01-005-003c
किं तु सम्बन्धकं तुल्यमस्माकं कुरुपाण्डुषु । KK05-01-005-004a
यथेष्टं वर्तमानेषु पाण्डवेषु च तेषु च ॥ KK05-01-005-004c
ते विवाहार्थमानीता वयं सर्वे तथा भवान् । KK05-01-005-005a
कृते विवाहे मुदिता गमिष्यामो गृहान्प्रति ॥ KK05-01-005-005c
भवान्वृद्धतमो राज्ञां वयसा च श्रुतेन च । KK05-01-005-006a
शिष्यवत्ते वयं सर्वे भवामेह न संशयः ॥ KK05-01-005-006c
भवन्तं धृतराष्ट्रश्च सततं बहु मन्यते । KK05-01-005-007a
आचार्ययोः सखा चासि द्रोणस्य च कृपस्य च ॥ KK05-01-005-007c
स भवान्प्रेषयत्वद्य पाण्डवार्थकरं वचः । KK05-01-005-008a
सर्वेषां निश्चितं तन्नः प्रेषयिष्यति यद्भवान् ॥ KK05-01-005-008c
यदि तावच्छमं कुर्यासन्न्यायेन कुरुपुङ्गवः । KK05-01-005-009a
न भवेत्कुरुपाण्डूनां सौभ्रात्रेण महान्क्षयः ॥ KK05-01-005-009c
अथ दर्पान्वितो मोहान्न कुर्याद्धृतराष्ट्रजः । KK05-01-005-010a
अन्येषां प्रेषयित्वा च पश्चादस्मान्सभाह्वयेः ॥ KK05-01-005-010c
ततो दुर्योधनो मन्दः सहामात्यः सबान्धवः । KK05-01-005-011a
निष्ठामापत्स्यते मूढः क्रुद्धे गाण्डीवधन्वनि ॥ KK05-01-005-011c
वैशम्पायन उवाच KK05-01-005-012
ततः सत्कृत्य वार्ष्णेयं विराटः पृथिवीपतिः । KK05-01-005-012a
गृहान्प्रस्थापयामास सगणं सहबान्धवम् ॥ KK05-01-005-012c
द्वारकां तु गते कृष्णे युधिष्ठिरपुरोगमाः । KK05-01-005-013a
चक्रुः साङ्ग्रामिकं सर्वं विराटश्च महीपतिः ॥ KK05-01-005-013c
ततः सम्प्रेषयामास विराटः सह बान्धवैः । KK05-01-005-014a
सर्वेषां भूमिपालानां द्रुपदश्च महीपतिः ॥ KK05-01-005-014c
वचनात्कुरुसिंहानां मत्स्यपाञ्चालयोश्च ते । KK05-01-005-015a
समाजग्मुर्महीपालाः सम्प्रहृष्टा महाबलाः ॥ KK05-01-005-015c
तच्छ्रुत्वा पाण्डुपुत्राणां समागच्छन्महद्बलम् । KK05-01-005-016a
धृतराष्ट्रसुताश्चापि समानिन्युर्महीपतीन् ॥ KK05-01-005-016c
समाकुला मही राजन्कुरुपाण्डवकारणात् । KK05-01-005-017a
तदा समभवत्कृत्स्ना सम्प्रयाणे महीक्षिताम् ॥ KK05-01-005-017c
सङ्कुला च तदा भूमिश्चतुरङ्गबलान्विता । KK05-01-005-018a
बलानि तेषां वीराणामागच्छन्ति ततस्ततः ॥ KK05-01-005-018c
चालयन्तीव गां देवीं सपर्वतवनामिमाम् । KK05-01-005-019a
ततः प्रज्ञावयोवृद्धं पाञ्चाल्यः स्वपुरोहितम् । KK05-01-005-019c
कुरुभ्यः प्रेषयामास युधिष्ठिरमते स्थितः ॥ ॥ KK05-01-005-019e

इति श्रीमन्महाभारते उद्योगपर्वणि सेनोद्येगपर्वणि पञ्चमोऽध्यायः ॥

5-5-4 सम्बन्धकं तुल्यमिति । पाण्डवेषु कुन्तीद्वारा । कुरुषु दुर्योधनकन्यायाः साम्बेनाहरणात् ॥ 5-5-11 निष्टां नाशम् ॥