अध्यायः 004

द्रुपदेन सात्यकिमतानुमोदनेन राज्ञामाह्वानाय दूतप्रस्थनकथनपूर्वकं स्वपुरोहितस्य धृतराष्ट्रम् प्रति प्रेषणकथनम् ॥ 1 ॥ द्रुपद उवाच KK05-01-004-001
एवमेतन्महाबाहो भविष्यति न संशयः । KK05-01-004-001a
न हि दुर्योधनो राज्यं मधुरेण प्रदास्यति ॥ KK05-01-004-001c
अनुवर्त्स्यति तं चापि धृतराष्ट्रः सुतप्रियः । KK05-01-004-002a
भीष्मद्रोणौ च कार्पण्यान्मौर्ख्याद्राधेयसौबलौ ॥ KK05-01-004-002c
बलदेवस्य वाक्यं तु मम ज्ञाने न युज्यते । KK05-01-004-003a
एतद्धि पुरुषेणाग्रे कार्यं सुनयमिच्छता ॥ KK05-01-004-003c
न तु वाच्यो मृदुवचो धार्तराष्ट्रः कथञ्चन । KK05-01-004-004a
नहि मार्दवसाध्योऽसौ पापबुद्धिर्मतो मम ॥ KK05-01-004-004c
गर्दभे मार्दवं कुर्याद्गोषु तीक्ष्णं समाचरेत् । KK05-01-004-005a
मृदु दुर्योधने वाक्यं यो ब्रूयात्पापचेतसि ॥ KK05-01-004-005c
मृदुं वै मन्यते पापो भाषमाणमशक्तिकम् । KK05-01-004-006a
हितमर्थं न जानीयादबुद्धिर्मार्दवे सति ॥ KK05-01-004-006c
एतच्चैव करिष्यामो यत्नश्च क्रियतामिह । KK05-01-004-007a
प्रस्थापयाम मित्रेभ्यो बलान्युद्योजयन्तु नः ॥ KK05-01-004-007c
शल्यस्य धृष्टकेतोश्च जयत्सेनस्य वा विभो । KK05-01-004-008a
केकयानां च सर्वेषां दूता गच्छन्तु शीघ्रगाः ॥ KK05-01-004-008c
स च दुर्योधनो नूनं प्रेषयिष्यति सर्वशः । KK05-01-004-009a
पूर्वाभिपन्नाः सन्तश्च भजन्ते पूर्वचोदनम् ॥ KK05-01-004-009c
तत्त्वरध्वं नरेन्द्राणां पूर्वमेव प्रचोदने । KK05-01-004-010a
महद्धि कार्यं वोढव्यमिति मे वर्तते मतिः ॥ KK05-01-004-010c
शल्यस्य प्रेष्यतां शीघ्रं ये च तस्यानुगा नृपाः । KK05-01-004-011a
भगदत्ताय राज्ञे च पूर्वसागरवासिने ॥ KK05-01-004-011c
अमितौजसे तथोग्राय हार्दिक्यायान्धकाय च । KK05-01-004-012a
दीर्घप्रज्ञाय शूराय रोचमानाय वा विभो ॥ KK05-01-004-012c
आनीयतां बृहन्तश्च सेनाबिन्दुश्च पार्थिवः । KK05-01-004-013a
सेनजित्प्रतिविन्ध्यश्च चित्रवर्मा सुवास्तुकः ॥ KK05-01-004-013c
बाह्लीको मुञ्जकेशश्च चैद्याधिपतिरेव च । KK05-01-004-014a
सुपार्श्वश्च सुबाहुश्च पौरवश्च महारथः ॥ KK05-01-004-014c
शकानां पह्लवानां च दरदानां च ये नृपाः । KK05-01-004-015a
सुरारिश्च नदीजश्च कर्णवेष्टश्च पार्थिवः ॥ KK05-01-004-015c
नीलश्च वीरधर्मा च भूमिपालश्च वीर्यवान् । KK05-01-004-016a
दुर्जयो दन्तवक्त्रश्च रुक्मी च जनमेजयः ॥ KK05-01-004-016c
आषाढो वायुवेगश्च पूर्वपाली च पार्थिवः । KK05-01-004-017a
भूरितेजा देवकश्च एकलव्यः सहात्मजैः ॥ KK05-01-004-017c
कारूषकाश्च राजानः क्षेमधूर्तिश्च वीर्यवान् । KK05-01-004-018a
काम्भोजा ऋषिका ये च पश्चिमानूपकाश्च ये ॥ KK05-01-004-018c
जयत्सेनश्च काश्यश्च तथा पञ्चनदा नृपाः । KK05-01-004-019a
क्राथपुत्रश्च दुर्धर्षः पार्वतीयाश्च ये नृपाः ॥ KK05-01-004-019c
जानकिश्च सुशर्मा च मणिमान्योतिमत्सकः । KK05-01-004-020a
पांशुराष्ट्राधिपश्चैव धृष्टकेतुश्च वीर्यवान् ॥ KK05-01-004-020c
तुण्डश्च दण्डधारश्च बृहत्सेनश्च वीर्यवान् । KK05-01-004-021a
अपराजितो निषादश्च श्रेणिमान्वसुमानपि ॥ KK05-01-004-021c
बृहद्बलो महौजाश्च बाहुः परपुरञ्जयः । KK05-01-004-022a
समुद्रसेनो राजा च सह पुत्रेण वीर्यवान् ॥ KK05-01-004-022c
उद्भवः क्षेमकश्चैव वाटधानश्च पार्थिवः । KK05-01-004-023a
श्रुतायुश्च दृढायुश्च साल्वपुत्रश्च वीर्यवान् ॥ KK05-01-004-023c
कुमारश्च कलिङ्गानामीश्वरो युद्धदुर्मदः । KK05-01-004-024a
एतेषां प्रेष्यतां शीघ्रमेतद्धि मम रोचते ॥ KK05-01-004-024c
अयं च ब्राह्मणो विद्वान्मम राजन्पुरोहितः । KK05-01-004-025a
प्रेष्यतां धृतराष्ट्राय वाक्यमस्मै प्रदीयताम् ॥ KK05-01-004-025c
यथा दुर्योधनो वाच्यो यथा शान्तनवो नृपः । KK05-01-004-026a
धृतराष्ट्रो यथा वाच्यो द्रोणश्च रथिनां वरः ॥ ॥ KK05-01-004-026c

इति श्रीमन्महाभारते उद्योगपर्वणि सेनोद्योगपर्वणि चतुर्थोऽध्यायः ॥

5-4-2 कार्पण्यात् तदन्नभक्षणेन दैन्यात् ॥ 2 ॥