अध्यायः 003
सात्यकिना बलरामवचनप्रतिक्षेपपूर्वकं दुर्योधननिग्रहनिर्धारणम् ॥ 1 ॥
सात्यकिरुवाच KK05-01-003-001
यादृशः पुरुषस्यात्मा तादृशं सम्प्रभाषते । KK05-01-003-001a
यथारूपोऽन्तरात्मा ते तथारूपं प्रभाषसे ॥ KK05-01-003-001c
सन्ति वै पुरुषाः शूराः सन्ति कापुरुषास्तथा । KK05-01-003-002a
उभावेतौ दृढौ पक्षौ दृश्येते पुरुषान्प्रति ॥ KK05-01-003-002c
एकस्मिन्नेव जायेते कुले क्लीबमहाबलौ । KK05-01-003-003a
फलाफलवती शाखे यथैकस्मिन्वनस्पतौ ॥ KK05-01-003-003c
नाभ्यसूयामि ते वाक्यं ब्रुवतो लाङ्गलध्वज । KK05-01-003-004a
ये तु शृण्वन्ति ते वाक्यं तानसूयामि माधव ॥ KK05-01-003-004c
कथं हि धर्मराजस्य दोषमल्पमपि ब्रुवन् । KK05-01-003-005a
लभते परिषन्मध्ये व्याहर्तुमकुतोभयः ॥ KK05-01-003-005c
समाहूय महात्मानं जितवन्तोऽक्षकोविदाः । KK05-01-003-006a
अनक्षज्ञं यथाऽश्रद्धं तेषु धर्मजयः कुतः । KK05-01-003-006c
यदि कुन्तीसुतं गेहे क्रीडन्तं भ्रातृभिः सह । KK05-01-003-007a
अभिगम्य जयेयुस्ते तत्तेषां धर्मतो भवेत् ॥ KK05-01-003-007c
समाहूय तु राजानं क्षत्रधर्मरतं सदा । KK05-01-003-008a
निकृत्या जितवन्तस्ते किं नु तेषां परं शुभम् ॥ KK05-01-003-008c
कथं प्रणिपतेच्चायमिह कृत्वा पणं परम् । KK05-01-003-009a
वनवासाद्विमुक्तस्तु प्राप्तः पैतामहं पदम् ॥ KK05-01-003-009c
यद्ययं परवित्तानि कामयेत युधिष्ठिरः । KK05-01-003-010a
एवमप्ययमत्यन्तं परान्नार्हति याचितुम् ॥ KK05-01-003-010c
कथं च धर्मयुक्तास्ते न च राज्यं जिहीर्षवः । KK05-01-003-011a
निवृत्तवनवासांस्तान्य आहुर्विदिता इति ॥ KK05-01-003-011c
अनुनीता हि भीष्मेण द्रोणेन विदुरेण च । KK05-01-003-012a
न व्यवस्यन्ति पाण्डूनां प्रदातुं पैतृकं वसु ॥ KK05-01-003-012c
अहं तु ताञ्छितैर्बाणैरनुनीय रणे बलात् । KK05-01-003-013a
पादयोः पातयिष्यामि कौन्तेयस्य महात्मनः ॥ KK05-01-003-013c
अथ ते न व्यवस्यन्ति प्रणिपाताय धीमतः । KK05-01-003-014a
गमिष्यन्ति सहामात्या यमस्य सदनं प्रति ॥ KK05-01-003-014c
न हि ते युयुधानस्य संरब्धस्य युयुत्सतः । KK05-01-003-015a
वेगं समर्थाः संसोढुं वज्रस्येव महीधराः ॥ KK05-01-003-015c
को हि गाण्डीवधन्वानं कश्च चक्रायुधं युधि । KK05-01-003-016a
मां चापि विषहेत्क्रुद्धं कश्च भीमं दुरासदम् ॥ KK05-01-003-016c
यमौ च दृढधन्वानौ यमकल्पौ महाद्युती । KK05-01-003-017a
विराटद्रुपदौ वीरौ यमकालोपमद्युती ॥ KK05-01-003-017c
को जिजीविषुरासादेद्धृष्टद्युम्नं च पार्षतम् । KK05-01-003-018a
पञ्चैतान्पाण्डवेयांस्तु द्रौपद्याः कीर्तिवर्धनान् ॥ KK05-01-003-018c
समप्रमाणान्पाण्डूनां समवीर्यान्मदोत्कटान् । KK05-01-003-019a
सौभद्रं च महेष्वासममरैरपि दुःसहम् ॥ KK05-01-003-019c
गदप्रद्युम्नसाम्बांश्च कालसूर्यानलोपमान् । KK05-01-003-020a
ते वयं धृतराष्ट्रस्य पुत्रं शकुनिना सह ॥ KK05-01-003-020c
कर्णं चैव निहत्याजावभिषेक्ष्याम पाण्डवम् । KK05-01-003-021a
नाधर्मो विद्यते कश्चिच्छत्रून्हत्वाऽऽततायिनः ॥ KK05-01-003-021c
अधर्म्यमयशस्यं च शात्रवाणां प्रयाचनम् । KK05-01-003-022a
हृद्भतस्तस्य यः कामस्तं कुरुध्वमतन्द्रिताः ॥ KK05-01-003-022c
धार्तराष्ट्रो ह्ययुद्धेन न राज्यं दातुमिच्छति । KK05-01-003-023a
अद्य पाण्डुसुतो राज्यं लभतां वा युधिष्ठिरः । KK05-01-003-023c
निहता वा रणे सर्वे स्वप्स्यन्ति वसुधातले ॥ ॥ KK05-01-003-023e
इति श्रीमन्महाभारते उद्योगपर्वणि सेनोद्योगपर्वणि तृतीयोऽध्यायः ॥
5-3-3 फलाफलावती । सुपो लुक् आर्षः पूर्वसवर्णो वा ॥ 3 ॥