अध्यायः 002

बलरामेण कृष्णमतानुमोदनपूर्वकं स्वस्य दुर्योधने पक्षपाताविष्करणम् ॥ 1 ॥ बलदेव उवाच KK05-01-002-001
श्रुतं भवद्भिर्गदपूर्वजस्य वाक्यं यथा धर्मवदर्थवच्च । KK05-01-002-001a
अजातशत्रोश्च हितं च युक्तं दुर्योधनस्यापि तथैव राज्ञः ॥ KK05-01-002-001c
अर्धं हि राज्यस्य विसृज्य वीराः कुन्तीसुतास्तस्य कृते यतन्ते । KK05-01-002-002a
प्रदाय चार्धं धृतराष्ट्रपुत्रः सुखी सहास्माभिरतीव मोदेत् ॥ KK05-01-002-002c
लब्ध्वा हि राज्यं पुरुषप्रवीराः सम्यक्प्रवृत्तेषु परेषु चैव । KK05-01-002-003a
ध्रुवं प्रशान्ताः सुखमाविशेयुस्तेषां प्रशान्तिश्च हितं प्रजानाम् ॥ KK05-01-002-003c
दुर्योधनस्यापि मतं च वेत्तुं वक्तुं च वाक्यानि युधिष्ठिरस्य । KK05-01-002-004a
प्रियं च मे स्याद्यदि तत्र कश्चिद्व्रजेच्छमार्थं कुरुपाण्डवानाम् ॥ KK05-01-002-004c
स भीष्ममामन्त्र्य कुरुप्रवीरं वैचित्रवीर्यं च महानुभावम् । KK05-01-002-005a
द्रोणं सपुत्रं विदुरं कृपं च गान्धारराजं च ससूतपुत्रम् ॥ KK05-01-002-005c
सर्वे च येऽन्ये धृतराष्ट्रपुत्रा बलप्रधाना निगमप्रधानाः । KK05-01-002-006a
स्थिताश्च धर्मेषु यथा स्वकेषु लोकप्रवीराः श्रुतशीलवृद्धाः ॥ KK05-01-002-006c
एतेषु सर्वेषु समागतेषु पौरेषु वृद्धेषु च सङ्गतेषु । KK05-01-002-007a
ब्रवीतु वाक्यं प्रणिपातयुक्तं कुन्तीसुतस्यार्थकरं यथा स्यात् ॥ KK05-01-002-007c
सर्वास्ववस्थासु च ते न कोप्या ग्रस्तो हि सोऽर्थो बलमाश्रितैस्तैः । KK05-01-002-008a
प्रियाभ्युपेतस्य युधिष्ठिरस्य द्यूते प्रसक्तस्य हृतं च राज्यम् ॥ KK05-01-002-008c
निवार्यमाणश्च कुरुप्रवीरः सर्वैः सुहृद्भिर्ह्ययमप्यतज्ज्ञः । KK05-01-002-009a
स दीव्यमानः प्रतिदीव्य चैनं गान्धारराजस्य सुतं मताक्षम् ॥ KK05-01-002-009c
हित्वा हि कर्णं च सुयोधनं च समाह्वयद्देवितुमाजमीढः । KK05-01-002-010a
दुरोदरास्तत्र सहस्रशोऽन्ये युधिष्ठिरो यान्विषहेत जेतुम् ॥ KK05-01-002-010c
उत्सृज्य तान्सौबलमेव चायं समाह्वयत्तेन जितोऽक्षवत्याम् । KK05-01-002-011a
स दीव्यमानः प्रतिदेवनेन अक्षेषु नित्यं स्वपराङ्मुखेषु ॥ KK05-01-002-011c
संरम्भमाणो विजितः प्रसह्य तत्रापराधः शकुनेर्न कश्चित् । KK05-01-002-012a
तस्मात्प्रणम्यैव वचो ब्रवीतु वैचित्रवीर्यं बहुसामयुक्तम् ॥ KK05-01-002-012c
तथा हि शक्यो धृतराष्ट्रपुत्रः स्वार्थे नियोक्तुं पुरुषेण तेन । KK05-01-002-013a
अयुद्धमाकाङ्क्षत कौरवाणां साम्नैव दुर्योधनमाश्वसध्वम् ॥ KK05-01-002-013c
साम्ना जितोऽर्थोऽर्थकरो भवेत युद्धेऽनयो भविता नेह सोऽर्थः ॥ KK05-01-002-014ac
वैशम्पायन उवाच KK05-01-002-015
एवं ब्रुवत्येव मधुप्रवीरे शिनिप्रवीरः सहसोत्पपात । KK05-01-002-015a
तच्चापि वाक्यं परिनिन्द्य तस्य समाददे वाक्यमिदं समन्युः ॥ ॥ KK05-01-002-015c

इति श्रीमन्महाभारते उद्योगपर्वणि सेनोद्योगपर्वणि द्वितीयोऽध्यायः ॥

5-2-3 राज्यं राज्यार्धम् ॥ 3 ॥ 5-2-6 बलं चतुरङ्गम् । निगमो नीतिशास्त्रं ते उभे प्रधानं येषाम् ॥ 5-2-10 दुरोदराः द्यूतकाराः ॥ 5-2-12 संरम्भमाणः हठं कुर्वाणः ॥