उद्योगपर्व
अध्यायः 001
विराटसभाम् प्रविष्टेषु राजसु श्रीकृष्णेन पाण्डववृत्तान्तकथनपूर्वकं धृतराष्ट्रम् प्रति दूतप्रेषणनिर्धारणम् ॥ 1 ॥
श्रीवेदव्यासाय नमः ।
नारायणं नमस्कृत्य नरं चैव नरोत्तमम् । KK05-01-001-001
देवीं सरस्वतीं चैव ततो जयमुदीरयेत् ॥ KK05-01-001-001
वैशम्पायन उवाच KK05-01-001-001
कृत्वा विवाहं तु कुरुप्रवीरास्तदाऽभिमन्योर्मुदिताः सपक्षाः । KK05-01-001-001a
विश्रम्य रात्रावुषसि प्रतीताः सभां विराटस्य ततोऽभिजग्मुः ॥ KK05-01-001-001c
सभा तु सा मत्स्यपतेः समृद्धा मणिप्रवेकोत्तमरत्नचित्रा । KK05-01-001-002a
न्यस्तासना माल्यवती सुगन्धा तामभ्ययुस्ते नरराजवर्याः ॥ KK05-01-001-002c
अथासनान्याविशतां पुरस्तादुभौ विराटद्रुपदौ नरेन्द्रौ । KK05-01-001-003a
वृद्धौ च मान्यौ पृथिवीपतीनां पित्रा समं रामजनार्दनौ च ॥ KK05-01-001-003c
पाञ्चालराजस्य समीपतस्तु शिनिप्रवीरः सहरौहिणेयः । KK05-01-001-004a
मत्स्यस्य राज्ञस्तु सुसन्निकृष्टौ जनार्दनश्चैव युधिष्ठिरश्च ॥ KK05-01-001-004c
सुताश्च सर्वे द्रुपदस्य राज्ञो भीमार्जुनौ माद्रवतीसुतौ च । KK05-01-001-005a
प्रद्युम्नसाम्बौ च युधि प्रवीरौ विराटपुत्रैश्च सहाभिमन्युः ॥ KK05-01-001-005c
सर्वे च शूराः पितृभिः समाना वीर्येण रूपेण बलेन चैव । KK05-01-001-006a
उपाविशन्द्रौपदेयाः कुमाराः सुवर्णचित्रेषु वरासनेषु ॥ KK05-01-001-006c
तथोपविष्टेषु महारथेषु विराजमानाभरणाम्बरेषु । KK05-01-001-007a
रराज सा राजवती समृद्धा ग्रहैरिव द्यौर्विमलैरुपेता ॥ KK05-01-001-007c
ततः कथास्ते समवाययुक्ताः कृत्वा विचित्राः पुरुषप्रवीराः । KK05-01-001-008a
तस्थुर्मुहूर्तं परिचिन्तयन्तः कृष्णं नृपास्ते समुदीक्षमाणाः ॥ KK05-01-001-008c
कथान्तमासाद्य च माधवेन सङ्घट्टिताः पाण्डवकार्यहेतोः । KK05-01-001-009a
ते राजसिंहाः सहिता ह्यश्रृण्वन्वाक्यं महार्थं सुमहोदयं च ॥ KK05-01-001-009c
श्रीकृष्ण उवाच KK05-01-001-010
सर्वैर्भवद्भिर्विदितं यथाऽयं युधिष्ठिरः सौबलेनाक्षवत्याम् । KK05-01-001-010a
जितो निकृत्याऽपहृतं च राज्यं वनप्रवासे समयः कृतश्च ॥ KK05-01-001-010c
शक्तैर्विजेतुं तरसा महीं च सत्ये स्थितैः सत्यरथैर्यथावत् । KK05-01-001-011a
पाण्डोः सुतैस्त्रद्रुतमुग्ररूपं वर्षाणि षट् सप्त च चीर्णमग्र्यैः ॥ KK05-01-001-011c
त्रयोदशश्चैव सुदुस्तरोऽयमज्ञायमानैर्भवतां समीपे । KK05-01-001-012a
क्लेशानसह्यान्विविधान्सहद्भिर्महात्मभिश्चापि वने निविष्टम् । KK05-01-001-012c
एतैः परप्रेष्यनियोगयुक्तैरिच्छद्भिराप्तं स्वकुलेन राज्यम् ॥ KK05-01-001-012e
एवं गते धर्मसुतस्य राज्ञो दुर्योधनस्यापि च यद्धितं स्यात् । KK05-01-001-013a
तच्चिन्तयध्वं कुरुपाण्डवानां धर्म्यं च युक्तं च यशस्करं च ॥ KK05-01-001-013c
अधर्मयुक्तं न च कामयेत राज्यं सुराणामपि धर्मराजः । KK05-01-001-014a
धर्मार्थयुक्तं तु महीपतित्वं ग्रामेऽपि कस्मिंश्चिदयं बुभूषेत् ॥ KK05-01-001-014c
पित्र्यं हि राज्यं विदितं नृपाणां यथाऽपकृष्टं धृतराष्ट्रपुत्रैः । KK05-01-001-015a
मिथ्योपचारेण यथा ह्यनेन कृच्छ्रं महत्प्राप्तमसह्यरूपम् ॥ KK05-01-001-015c
न चापि पार्थो विजितो रणे तैः स्वतेजसा धृतराष्ट्रस्य पुत्रैः । KK05-01-001-016a
तथाऽपि राजा सहितः सुहृद्भिरभीप्सतेऽनामयमेव तेषाम् ॥ KK05-01-001-016c
यत्तु स्वयं पाण्डुसुतैर्विजित्य समाहृतं भूमिपतीन्प्रपीड्य । KK05-01-001-017a
तत्प्रार्थयन्ते पुरुषप्रवीराः कुन्तीसुता माद्रवतीसुतौ च ॥ KK05-01-001-017c
बलाभियुक्तैर्विविधैरुपायैः सम्प्रार्थिता हन्तुममित्रसङ्घैः । KK05-01-001-018a
राज्यं जिहीर्षद्भिरसद्भिरुग्रैः सर्वं च तद्वो विदितं यथावत् ॥ KK05-01-001-018c
तेषां च लोभं प्रसमीक्ष्य वृद्धं धर्मज्ञतां चापि युधिष्ठिरस्य । KK05-01-001-019a
सम्बन्धितां चापि समीक्ष्य तेषां मतिं कुरुध्वं सहिताः पृथक्व ॥ KK05-01-001-019c
इमे च सत्येऽभिरताः सदैव तं पालयित्वा समयं यथावत् । KK05-01-001-020a
अतोऽन्यथा तैरुपचर्यमाणा हन्युः समेतान्धृतराष्ट्रपुत्रान् ॥ KK05-01-001-020c
तैर्विप्रकारं च निशम्य कार्ये सुहृज्जनास्तान्परिवारयेयुः । KK05-01-001-021a
युद्धेन बाधेयुरिमांस्तथैवं तैर्बाध्यमाना युधि तांश्च हन्युः ॥ KK05-01-001-021c
तथाऽपि नेमेऽल्पतयाऽसमर्थास्तेषां जयायेति भवेन्मतिर्वः । KK05-01-001-022a
समेत्य सर्वे सहिताः सुहृद्भिस्तेषां विनाशाय यतेयुरेव ॥ KK05-01-001-022c
दुर्योधनस्यापि मतं यथावन्न ज्ञायते किं नु करिष्यतीति । KK05-01-001-023a
अज्ञायमाने च मते परस्य मन्त्रस्य पारं कथमभ्युपेमः ॥ KK05-01-001-023c
तस्मादितो गच्छतु धर्मशीलः शुचिः कुलीनः पुरुषोऽप्रमत्तः । KK05-01-001-024a
दूतः समर्थः प्रशमाय तेषां राज्यार्धदानाय युधिष्ठिरस्य ॥ KK05-01-001-024c
निशम्य वाक्यं तु जनार्दनस्य धर्मार्थयुक्तं मधुरं समं च । KK05-01-001-025a
समाददे वाक्यमथाग्रजोऽस्य सम्पूज्य वाक्यं तदतीव राजन् ॥ ॥ KK05-01-001-025c
इति श्रीमन्महाभारते उद्योगपर्वणि सेनोद्योगपर्वणि प्रथमोऽध्यायः ॥
5-1-1 प्रतीताः प्रबुद्धाः ॥ 1 ॥ 5-1-3 आविशतामुपविष्टौ । पित्रा वसुदेवेन ॥ 3 ॥ 5-1-10 अक्षवत्यां द्यूतक्रीडायाम् ॥ 10 ॥ 5-1-11 सत्यं रथवदारोढुं योग्यं योषाम् ॥ 11 ॥ 5-1-14 बुभूषेत् प्राप्तुमिच्छेत् । तदृभाव आर्षः ॥ 14 ॥ 5-1-16 अनामयं कुशलम् ॥ 16 ॥ 5-1-20 अतो राज्यार्धप्रदानात् ॥ 20 ॥