अध्यायः 078

अज्ञातवासपरिसमापनानन्तरमुपप्लाव्यनगरे वसद्भिः पाण्डवैर्दूतमुखेन समाहूतै रामकृष्णादिभिः सुभद्राभिमन्युप्रभृतिभिः सहोपप्लाव्यम् प्रत्यागमनम् ॥ 1 ॥ तथा द्रौपदेयादिभिः सह द्रुपदादिभिरागमनम् ॥ 2 ॥ तत उत्तरयाऽभिमन्योरुद्वाहः ॥ 3 ॥ वैशम्पायन उवाच KK04-05-078-001
ततस्त्रयोदशे वर्षे निवृत्ते पञ्च पाण्डवाः । KK04-05-078-001a
उपप्लाव्ये विराटस्य वासं चक्रुः पुरोत्तमे ॥ KK04-05-078-001c
दूतान्मित्रेषु सर्वेषु ज्ञातिसम्बन्धिकेष्वपि । KK04-05-078-002a
प्रेषयामास कौन्तेयो विराटश्च महीपतिः ॥ KK04-05-078-002c
तेषु तत्रोपविष्टेषु प्रेषितेषु ततस्ततः । KK04-05-078-003a
तत्रागमन्महाबाहुर्वनमाली बलानुजः ॥ KK04-05-078-003c
तस्मिन्काले निशम्याथ दूतवाक्यं जनार्दनः । KK04-05-078-004a
दयितं स्वस्रियं पुत्रं सुभद्रायाः सुमानितम् । KK04-05-078-004c
अभिमन्युं समादाय रामेण सहितस्तदा ॥ KK04-05-078-004e
सर्वयादवमुख्यैश्च संवृतः परवीरहा । KK04-05-078-005a
शङ्खदुन्दुभिनिर्घोषैर्विराटनगरं ययौ ॥ KK04-05-078-005c
कृतवर्मा च हार्दिक्यो युयुधानश्च सात्यकिः । KK04-05-078-006a
अनाधृष्टिस्तथाऽक्रूरः साम्बो निशठ एव च । KK04-05-078-006c
प्रद्युम्नश्च महाबाहुरुल्मुकश्च महाबलः ॥ KK04-05-078-006e
अभिमन्युमुपादाय सह मात्रा परन्तपाः । KK04-05-078-007a
कृष्णेन सहिताः सर्वे पाण्डवान्द्रष्टुमागताः ॥ KK04-05-078-007c
इन्द्रसेनादयश्चैव रथैस्तैः सुसमाहितैः । KK04-05-078-008a
उपेयुः सहिताः सर्वे परिसंवत्सरोषिताः ॥ KK04-05-078-008c
दशनागसहस्राणि हयानां द्विगुणं तथा । KK04-05-078-009a
रथानां नियुतं पूर्णं निखर्वं च पदातयः ॥ KK04-05-078-009c
वृष्ण्यन्धकाश्च शतशो भोजाश्च परमौजसः । KK04-05-078-010a
अन्वयुर्वृष्णिशार्दूलं वासुदेवं महाबलम् ॥ KK04-05-078-010c
वासुदेवं तथाऽऽयान्तं श्रुत्वा पाण्डुसुतास्तदा । KK04-05-078-011a
मात्स्येन सहिताः सर्वे प्रत्युद्याता जनार्दनम् ॥ KK04-05-078-011c
शङ्खदुन्दुभिनिर्घोषैर्मङ्गलैश्च जनार्दनम् । KK04-05-078-012a
ववन्दुर्मुदिताः सर्वे पादयोस्तस्य पाण्डवाः । KK04-05-078-012c
मात्स्येन सहिताः सर्वे आनन्दाश्रुपरिप्लुताः ॥ KK04-05-078-012e
पाण्डवा ऊचुः KK04-05-078-013
तव कृष्ण प्रसादाद्वै वर्षाण्येतानि सर्वशः । KK04-05-078-013a
त्रयोदशोपि दाशार्ह यथा स समयः कृतः ॥ KK04-05-078-013c
उषिताः स्मो जगन्नाथ त्वं नाथो नो जनार्दन । KK04-05-078-014a
रक्षस्व देवदेवेश त्वामार्य शरणं गताः ॥ KK04-05-078-014c
वैशम्पायन उवाच KK04-05-078-015
तान्वन्दमानान्सहसा परिष्वज्य जनार्दनः । KK04-05-078-015a
विराटस्य सहायांस्तान्सर्वयादवसंवृतः ॥ KK04-05-078-015c
यथार्हं पूजयामास मुदा परमया युतः । KK04-05-078-016a
वृष्णिवीराश्च तान्सर्वान्यथार्हं प्रतिपेदिरे ॥ KK04-05-078-016c
कृष्णा च देवकीपुत्रं ववन्दे पादयोस्तथा । KK04-05-078-017a
तामुद्यम्य सुकेशान्तां नयने परिमृज्य च । KK04-05-078-017c
उवाच वाक्यं देवेशः सर्वयादवसन्निधौ ॥ KK04-05-078-017e
मा शोकं कुरु कल्याणि धार्तराष्ट्रान्समाहितान् । KK04-05-078-018a
अचिराद्घातयित्वाऽहं पार्थेन सहितः क्षितिम् ॥ KK04-05-078-018c
युधिष्ठिराय दास्यामि यातु ते मानसो ज्वरः । KK04-05-078-019a
अभिमन्युना च पार्थेन रौक्मिणेयेन ते शपे ॥ KK04-05-078-019c
सत्यमेतद्वचो मह्यमवैहि त्वमनिन्दिते । KK04-05-078-020a
इत्युक्त्वा तां विसृज्याथ प्रीयमाणो युधिष्ठिरम् । KK04-05-078-020c
अन्वास्त वृष्णिशार्दूलः सह वृष्ण्यन्धकैस्तथा ॥ KK04-05-078-020e
काशिराजश्च शैब्यश्च भजमानौ युधिष्ठिरम् । KK04-05-078-021a
अक्षौहिणीभ्यां सहितावागतौ पृथिवीपती ॥ KK04-05-078-021c
अक्षौहिणीभिः पाञ्चालस्तिसृभिश्च महाबलः । KK04-05-078-022a
द्रौपद्याश्च सुता वीराः शिखण्डी चापराजितः ॥ KK04-05-078-022c
धृष्टद्युम्नश्च दुर्धर्षः सर्वशस्त्रभृतांवरः । KK04-05-078-023a
उपप्लाव्यं ययुः शीघ्रं पाण्डवार्थे महाबलाः ॥ KK04-05-078-023c
ततः शतसहस्राणि प्रयुतान्यर्बुदानि च । KK04-05-078-024a
समीपमभिवर्तन्ते योधा यौधिष्ठिरं बलम् ॥ KK04-05-078-024c
समुद्रमिव घर्मान्ते स्रोतःश्रेष्ठाः पृथक्पृथक् । KK04-05-078-025a
आपूरयन्महीपाला यज्वानो भूरिदक्षिणैः । KK04-05-078-025c
वेदावभृथसम्पन्नाः शूराः सर्वे तनुत्यजः ॥ KK04-05-078-025e
तानागतानभिप्रेक्ष्य पार्थो ज्ञानभृतां वरः । KK04-05-078-026a
पूजयामास विधिवद्यथार्हं राजसत्तमान् ॥ KK04-05-078-026c
पारिबर्हं ददौ कृष्णः पाण्डवानां महात्मनाम् । KK04-05-078-027a
स्त्रियो वासांसि रत्नानि पृथक्पृथगनेकशः ॥ KK04-05-078-027c
राजानो राजपुत्राश्च निवृत्ते समये तथा । KK04-05-078-028a
यथार्हं पाण्डवश्रेष्ठैरवर्तन्ताभिपूजिताः । KK04-05-078-028c
आसन्प्रहृष्टमनसः पारिबर्हं ददुस्तदा ॥ KK04-05-078-028e
सर्वेषु समवेतेषु राजभिर्वृष्णिभिः सह । KK04-05-078-029a
विवाहो विधवद्राजन्ववृधे कुरुमात्स्ययोः ॥ KK04-05-078-029c
ततः शङ्खा मृदङ्गाश्च गोमुखा डिण्डिमास्तदा । KK04-05-078-030a
अभिमन्योर्विवाहे तु नेदुर्मात्स्यस्य वेश्मनि ॥ KK04-05-078-030c
उच्चावचान्मृगाञ्जघ्नुर्मेध्यांश्च शतशस्तथा । KK04-05-078-031a
भक्ष्यान्नभोज्यपानानि प्रभूतान्यभ्यहारयन् ॥ KK04-05-078-031c
गायनाख्यानशीलाश्च नटा वैतालिकास्तथा । KK04-05-078-032a
स्तुवन्तस्तानुपातिष्ठन्सूताश्च सह मागधैः ॥ KK04-05-078-032c
स्त्रियो वृद्धास्तरुण्यश्च उत्सवे तस्य मङ्गले । KK04-05-078-033a
द्रौपद्यन्तःपुरे चैव विराटस्य गृहे स्त्रियः ॥ KK04-05-078-033c
सुदेष्णां तु पुरस्कृत्य मत्स्यानामपि च स्त्रियः । KK04-05-078-034a
आजग्मुश्चारुपीनाङ्ग्यः सुमृष्टमणिकुण्डलाः ॥ KK04-05-078-034c
वर्णोपपन्नास्ता नार्यो रूपवत्यः स्वलङ्कृताः । KK04-05-078-035a
सर्वासामभवत्कृष्णा रूपेण वपुषाऽधिका ॥ KK04-05-078-035c
परिवार्योत्तरां श्लाघ्यां राजपुत्रीमलङ्कृताम् । KK04-05-078-036a
सुतामिव महेन्द्रस्य पुरस्कृत्योपतस्थिरे ॥ KK04-05-078-036c
भृङ्गारुं तु समादाय सौवर्णं जलपूरितम् । KK04-05-078-037a
पार्थस्य हस्ते सहसा सुतामिन्दीवरेक्षणाम् । KK04-05-078-037c
स्नुषार्थं प्राक्षिपद्वारि विराटो वाहिनीपतिः ॥ KK04-05-078-037e
तां प्रत्यगृह्णात्कौन्तेयः सुतस्यार्थे महामनाः । KK04-05-078-038a
सौभद्राश्चानवद्याङ्गो विराटतनयां तदा ॥ KK04-05-078-038c
तत्रातिष्ठद्गृहीत्वा तु रूपमिन्द्रस्य धारयन् । KK04-05-078-039a
स्नुषां तां परिगृह्णानः कुन्तीपुत्रो युधिष्ठिरः ॥ KK04-05-078-039c
द्रुपदश्च विराटश्च शिखण्डी च महाबलः । KK04-05-078-040a
युयुधानश्च शैब्यश्च धृष्टद्युम्नश्च सात्यकिः ॥ KK04-05-078-040c
सप्तैतेऽक्षौहिणीपाला यज्वानो भूरिदक्षिणाः । KK04-05-078-041a
पाण्डवं परिवार्यैते निवेशं चक्रिरे तदा ॥ KK04-05-078-041c
तत्रस्थायां तु सेनायां मात्स्यो धर्मभृतांवरः । KK04-05-078-04a2
प्रीतो दुहितरं गृह्य प्रददावभिमन्यवे ॥ KK04-05-078-042c
प्रतिगृह्योत्तरां पार्थः पुरस्कृत्य जनार्दनम् । KK04-05-078-043a
विवाहं कारयामास सौभद्रस्य महात्मनः ॥ KK04-05-078-043c
ततो विवाहो ववृधे स्फीतः सर्वगुणान्वितः । KK04-05-078-044a
सौभद्रस्याद्भुतं कर्म पितुस्तव पितुस्तदा ॥ KK04-05-078-044c
धौम्यः शिष्यैः परिवृतो जुहावाग्नौ विधानतः । KK04-05-078-045a
अग्निं प्रदक्षिणीकुर्वन्सौभद्रः पाणिमग्रहीत् ॥ KK04-05-078-045c
ततः पार्थाय संहृष्टो मात्स्यराजो धनं महत् । KK04-05-078-046a
तस्मै शतसहस्राणि हयानां वातरंहसाम् ॥ KK04-05-078-046c
द्वे च नागशते मुख्ये धनं बहुविधं तदा । KK04-05-078-047a
प्रादान्मात्स्यपतिर्हृष्टः कन्याधनमनुत्तमम् ॥ KK04-05-078-047c
पारिबर्हं च पार्थेभ्यः प्रददौ मत्स्यपुङ्गवः । KK04-05-078-048a
कृष्णेन सह कौन्तेयः प्रत्यगृह्णात्प्रभूतवत् ॥ KK04-05-078-048c
कृते विवाहे तु तदा धर्मपुत्रो युधिष्ठिरः । KK04-05-078-049a
ब्राह्मणेभ्यो ददौ वित्तं यदुपाहरदच्युतः ॥ KK04-05-078-049c
गोसहस्राणि वस्त्राणि रत्नानि विविधानि च । KK04-05-078-05a0
भूषणानि च सर्वाणि यानानि शयनानि च ॥ KK04-05-078-050c
नागरान्प्रीतिभिर्दिव्यैस्तर्पयामास भूपतिः ॥ KK04-05-078-051ac
तन्महोत्सवसङ्काशं हृष्टपुष्टजनाकुलम् । KK04-05-078-052a
नगरं मत्स्यराजस्य शुशुभे भरतर्षभ ॥ KK04-05-078-052c
पुरोहितैरमात्यैश्च पौरैर्जानपदैः सह । KK04-05-078-053a
विराटो नृपतिः श्रीमान्सौभद्रायाभिमन्यवे । KK04-05-078-053c
तां सुतामुत्तरां दत्त्वा मुमुदे परमं तदा ॥ KK04-05-078-053e
जनमेजय उवाच KK04-05-078-054
वृत्ते विवाहे हृष्टात्मा यदुवाच युधिष्ठिरः । KK04-05-078-054a
तत्सर्वं कथयस्वेह कृतवन्तो यदुत्तरम् ॥ ॥ KK04-05-078-054c

इति श्रीमन्महाभारते शतसाहस्रिकायां संहितायां वैयासिक्यां विराटपर्वणि वैवाहिकपर्वणि अष्टसप्ततितमोऽध्यायः ॥ ॥ वैवाहिकपर्व समाप्तम् ॥ 5 ॥ ॥ समाप्तञ्च विराटपर्व ॥ 4 ॥

अतः परमुद्योगपर्व भविष्यति । तस्यायमाद्यः श्लोकः । कृत्वा विवाहं तु कुरुप्रवीरास्तदाऽभिमन्योर्मुदिताः सपक्षाः । विश्रम्य रात्रावुषसि प्रतीताः सभां विराटस्य ततोऽभिजग्मुः ॥ इदं विराटपर्वं कुम्भघोणस्थेन टीo आर्o कृष्णाचार्येण टीo आर्o व्यासाचार्येण च मुम्बय्यां निर्णयसागरमुद्रायन्त्रे मुद्रापितम् । शकाब्दाः 1831 सन 1909.