अध्यायः 077

विराटेनार्जुनम् प्रति स्वकुमार्या उत्तराया भार्यात्वेन प्रतिग्रहणप्रार्थने तम् प्रत्यर्जुनेन सहेतुकथनं स्नुषात्वेन परिग्रहाङ्गीकरणम् ॥ 1 ॥ दुर्योधनेन युधिष्ठिरम् प्रति दूतमुखेन त्रयोदशवत्सरस्यासम्पूर्तावेवार्जुनेनात्मप्रकाशनात्पुनर्वनवासविधेयतानिवेदनम् ॥ 2 ॥ युधिष्ठिरेण तम् प्रति तेनैव दूतेन भीष्ममुखात्सन्देहस्य परिहरणीयताप्रतिवेदनम् ॥ 3 ॥ भीष्मेण विचार्य निर्धारणपूर्वकं सङ्केतकालस्य पूर्णत्वोक्तिः ॥ 4 ॥ विराट उवाच KK04-05-077-001
यच्च वक्ष्याम्यहं तेऽद्य मा शङ्केथा युधिष्ठिर । KK04-05-077-001a
इदं सनगरं राष्ट्रं सजनं सवधूजनम् । KK04-05-077-001c
युष्यभ्यं सम्प्रदास्यामि भोक्ष्याम्युच्छिष्टमेव च ॥ KK04-05-077-001e
अहं वृद्धश्चिरं राजन्भुक्तभोगश्चिरं सुखम् । KK04-05-077-002a
राज्यं दत्त्वा तु युष्मभ्यं प्रव्रजिष्यामि काननम् ॥ KK04-05-077-002c
उत्तरां प्रतिगृह्णातु सव्यसाची धनञ्जयः । KK04-05-077-003a
अयं ह्यौपयिको भर्ता तस्याः पुरुषसत्तमः ॥ KK04-05-077-003c
वैशम्पायन उवाच KK04-05-077-004
एवमुक्तो धर्मराजः पार्थमैक्षद्धनञ्जयम् । KK04-05-077-004a
ईक्षितं चार्जुनो ज्ञात्वा मात्स्यं वचनमब्रवीत् ॥ KK04-05-077-004c
वयं वनान्तरात्प्राप्ता न ते राज्यं गृहामहे । KK04-05-077-005a
किन्तु दुर्योधनादीनां राज्ञां राज्यं गृहामहे ॥ KK04-05-077-005c
प्रतिगृह्णाम्यहं राजन्स्नुषां दुहितरं तव । KK04-05-077-006a
युक्तो ह्यावां हि सम्बन्धो मात्स्यभारतवंशयोः ॥ KK04-05-077-006c
विराट उवाच KK04-05-077-007
किमर्थं पाण्डवश्रेष्ठ भार्यां दुहितरं मम । KK04-05-077-007a
प्रतिग्रहीतुं नेमां त्वं मया दत्तमिहेच्छसि ॥ KK04-05-077-007c
अर्जुन उवाच KK04-05-077-008
अन्तःपुरेऽहमुषितः सदा पश्यन्सुतां तव । KK04-05-077-008a
सहस्यं च प्रकाशं च विश्वस्ता पितृवन्मयि ॥ KK04-05-077-008c
प्रियो बहुमतश्चाहं नर्तने गीतवादिते । KK04-05-077-009a
आचार्यवच्च मां नित्यं मन्यते दुहिता तव ॥ KK04-05-077-009c
वयस्यया तया राजन्सह संवत्सरोषितः । KK04-05-077-010a
अतिशङ्का ततोऽस्थाने तव लोकस्य च प्रभो ॥ KK04-05-077-010c
तस्मादामन्त्रये त्वाऽद्य पुत्रार्थं मे विशाम्पते । KK04-05-077-011a
शुद्धं जितेन्द्रियं मन्ये तस्याः शुद्धिः कृता मया ॥ KK04-05-077-011c
स्नुषायां दुहितुर्वापि पुत्रे चात्मनि वा पुनः । KK04-05-077-012a
अतिशङ्कां न पश्यामि तेन शुद्धिर्भविष्यति ॥ KK04-05-077-012c
अभिषङ्गादहं भीतो मिथ्याचारात्परन्तप । KK04-05-077-013a
स्नुषार्थमुत्तरां राजन्प्रतिगृह्णामि ते सुताम् ॥ KK04-05-077-013c
स्वस्रीयो वासुदेवस्य साक्षाद्देवसुतो यथा । KK04-05-077-014a
दयितश्चक्रहस्तस्य बलवानस्त्रकोविदः ॥ KK04-05-077-014c
अभिमन्युर्महाबाहुः पुत्रो मम विशाम्पते । KK04-05-077-015a
जामाता तव युक्तो वै भर्ता च दुहितुस्तव ॥ KK04-05-077-015c
विराट उवाच KK04-05-077-016
उपपन्नं कुरुश्रेष्ठे कुन्तीपुत्रे धनञ्जये । KK04-05-077-016a
सदैव धर्मनित्यश्च ज्ञातज्ञानश्च पाण्डवः ॥ KK04-05-077-016c
यत्कृत्यं मन्यसे पार्थ क्रियतां तदनन्तरम् । KK04-05-077-017a
सर्वे कामाः समृद्धा मे सम्बन्धी यस्य मेऽर्जुनः ॥ KK04-05-077-017c
वैशम्पायन उवाच KK04-05-077-018
एवं ब्रुवति राजेन्द्रे कुन्तीपुत्रो युधिष्ठिरः । KK04-05-077-018a
अन्वजानत सम्बन्धं समये कृष्णमात्स्ययोः ॥ KK04-05-077-018c
दूतान्सर्वेषु मित्रेषु वासुदेवे च भारत । KK04-05-077-019a
प्रेषयामास कौन्तेयो विराटश्च महीपतिः ॥ KK04-05-077-019c
प्रतिगृह्य स्नुषार्थं वै दर्शयन्व्रतमात्मनः । KK04-05-077-020a
शीलशौचसमाचारं लोकस्यावेद्य फल्गुनः ॥ KK04-05-077-020c
लोके विख्याप्य माहात्म्यं यशश्च स परन्तपः । KK04-05-077-021a
कृतार्थः शुचिरव्यग्रस्तुष्टिमानभवत्तदा ॥ KK04-05-077-021c
युधिष्ठिर उवाच KK04-05-077-022
राजन्प्रीतोस्मि भद्रं ते सखा मेऽसि परन्तप । KK04-05-077-022a
सुखमध्युषिताः सर्वे अज्ञातास्त्वयि पार्थिव ॥ KK04-05-077-022c
वैशम्पायन उवाच KK04-05-077-023
विराटनगरे राजा धर्मात्मा संशितव्रतः । KK04-05-077-023a
पूजितश्चाभिषिक्तश्च रत्नैश्च शतशोर्चितः ॥ KK04-05-077-023c
तथा ब्रुवन्तं प्रसमीक्ष्य राजा परं प्रहृष्टः स्वजनेन तेन । KK04-05-077-024a
स्नेहात्परिष्वज्य नृपो भुजाभ्यां ददौ महार्थं कुरुपाण्डवानाम् ॥ KK04-05-077-024c
युद्धात्प्रयाताः कुरवो हि मार्गे समेत्य सर्वे हितमेव तत्र । KK04-05-077-025a
आचार्यपुत्रः शकुनिश्च राजा दुर्योधनः सूतपुत्रश्च कर्णः । KK04-05-077-025c
सम्मन्त्र्य राजन्सहिताः समर्थाः समादिशन्दूतमथो समग्राः ॥ KK04-05-077-025e
युधिष्ठिरश्चापि सुसम्प्रहृष्टो दुर्योधनाद्दूतमपश्यदागतम् । KK04-05-077-026a
स चाब्रवीद्धर्मराजं समेत्य युधिष्ठिरं पाण्डवमुग्रवीर्यम् ॥ KK04-05-077-026c
धनञ्जयेनासि पुनर्वनाय प्रव्राजितः समये तिष्ठ पार्थ । KK04-05-077-027a
त्रयोदशे ह्येव किरीटमाली संवत्सरे पाण्डवेयोऽद्य दृष्टः ॥ KK04-05-077-027c
वैशम्पायन उवाच KK04-05-077-028
ततोऽब्रवीद्धर्मसुतः प्रहस्य क्षिप्रं गत्वा ब्रूहि सुयोधनं तम् । KK04-05-077-028a
पितामहः शान्तनवो ब्रवीतु पूर्णो न पूर्णोऽद्य त्रयोदशो नः ॥ KK04-05-077-028c
संवत्सरात्ते तु धनञ्जयेन विष्फारितं गाण्डिवमाजिमध्ये । KK04-05-077-029a
पूर्णो न पूर्णो न इति ब्रवीतु यदस्य सत्यं मम तत्प्रमाणम् ॥ KK04-05-077-029c
तेनैवमुक्तः स निवृत्य दूतो दुर्योधनं प्राप्य शशंस तत्त्वम् ॥ KK04-05-077-030ac
समेत्य दूतेन स राजपुत्रो दुर्योधनो मन्त्रयामास तत्र । KK04-05-077-031a
भीष्मेण कर्णेन कृपेण चैव द्रोणेन भूरिश्रवसा च सार्धम् ॥ KK04-05-077-031c
सम्मन्त्र्य रात्रौ बहुभिः सुहृद्भिर्भीष्मोऽब्रवीद्धार्तराष्ट्रं महात्मा । KK04-05-077-032a
तीर्णप्रतिज्ञेन धनञ्जयेन विष्फारितं गाण्डिवमाजिमध्ये ॥ KK04-05-077-032c
वैशम्पायन उवाच KK04-05-077-033
नेच्छन्त्यसत्येन सुरेन्द्रलोकं पाण्डोः सुता ब्रह्मणश्चापि लोकम् । KK04-05-077-033a
तथ्यं च ते पथ्यमहं ब्रवीमि स्वर्ग्यं यशस्यं परलोकपथ्यम् ॥ KK04-05-077-033c
कुन्तीसुतैस्त्वं समुपैहि सन्धिं भुङ्क्ष्व स्वराज्यं सह पाण्डवेयैः । KK04-05-077-034a
युध्यस्व नोचेत्स्थिरबुद्धिराजौ कुन्तीसुतैर्यद्यपि राज्यमिच्छेः ॥ KK04-05-077-034c
आन्तं न शक्यं कपटेन भोक्तुं राज्यं परेषां महतां बलीनाम् । KK04-05-077-035a
जित्वा शत्रून्भुङ्क्ष्व राज्यं समग्रं हतो भवान्भोक्ष्यति वज्रिलोकम् ॥ KK04-05-077-035c
वैशम्पायन उवाच KK04-05-077-036
ततः स भागीरथिसूनुवाक्यं निशम्य गान्धारितनूद्भवो नृपः । KK04-05-077-036a
उवाच भीष्मं प्रमुखे च पित्रोर्महीं न दद्यामणुमात्रिकामपि । KK04-05-077-036c
निहन्मि पाण्डूदरसम्भवान्वा हतोस्मि तैर्वा सुरलोकमेमि ॥ KK04-05-077-036e
ते धार्तराष्ट्राः समयं निशम्य तीर्णप्रतिज्ञस्य धनञ्जयस्य । KK04-05-077-037a
सञ्चिन्त्य सर्वे सहिताः सुहृद्भिः सपार्थिवाः स्वानि गृहाणि जग्मुः ॥ ॥ KK04-05-077-037c

इति श्रीमन्महाभारते विराटपर्वणि वैवाहिकपर्वणि सप्तसप्ततितमोऽध्यायः ॥

4-77-6 आवाम् आवयोः ॥ 6 ॥