अध्यायः 076
उत्तरेण विराटम् प्रति युधिष्ठिरादिकृतोपकारस्मारणपूर्वकमुत्तरायाः प्रदानेन तत्प्रसादनचोदना ॥ 1 ॥ युधिष्ठिरेणोत्तरायाः पुरस्कारेण सप्रणामम् प्रसादयते विराटायाभयप्रदानम् ॥ 2 ॥
वैशम्पायन उवाच KK04-05-076-001
विराटस्य वचः श्रुत्वा पार्थिवस्य महात्मनः । KK04-05-076-001a
उत्तरः प्रत्युवाचेदमभिपन्नो युधिष्ठिरे ॥ KK04-05-076-001c
प्रसादनं प्राप्तकालं पाण्डवस्याभिरोचये । KK04-05-076-002a
तेजस्वी बलवाञ्शूरो राजराजेश्वरः प्रभुः ॥ KK04-05-076-002c
उत्तरां च स्वसारं मे पार्थस्यामित्रकर्शन । KK04-05-076-003a
प्रणिपत्य प्रयच्छामस्ततः शिष्टा भवामहे । KK04-05-076-003c
वयं च सर्वे सामात्याः कुन्तीपुत्रं युधिष्ठिरम् । KK04-05-076-004a
प्रसाद्याभ्युपतिष्ठामो राजन्किं करवामहे ॥ KK04-05-076-004c
राजंस्त्वमसि सङ्ग्रामे गृहीतस्तेन मोक्षितः । KK04-05-076-005a
एतेषां बाहुवीर्येण गावश्च विजितास्त्वया ॥ KK04-05-076-005c
कुरवो निर्जिता यस्मात्सङ्ग्रामेऽमिततेजसः । KK04-05-076-006a
एष तत्सर्वमकरोत्कुन्तीपुत्रो युधिष्ठिरः ॥ KK04-05-076-006c
अर्च्याः पूज्याश्च मान्याश्च प्रत्युत्थेयाश्च पाण्डवाः । KK04-05-076-007a
अर्घार्हाश्चाभिवाद्याश्च प्राप्तकालं च मे मतम् ॥ KK04-05-076-007c
पूज्यतां पूजनीयाश्च महाभागाश्च पाण्डवाः । KK04-05-076-008a
न ह्येते कुपिता शेषं कुर्युराशीविषोपमाः ॥ KK04-05-076-008c
तस्माच्छीघ्रं प्रपद्येम कुन्तीपुत्रं युधिष्ठिरम् । KK04-05-076-009a
प्रसादयाम्यहं तत्र सह पार्थैर्महात्मभिः ॥ KK04-05-076-009c
उत्तरामग्रतः कृत्वा शिरःस्नातां कृताञ्जलिः । KK04-05-076-010a
जानाम्यहमिदं सर्वमेषां तु बलपौरुषम् । KK04-05-076-010c
कुले च जन्म महति फल्गुनस्य च विक्रमम् ॥ KK04-05-076-010e
वैशम्पायन उवाच KK04-05-076-011
उत्तरात्पाण्डवाञ्श्रुत्वा विराटो रिपुसूदनः । KK04-05-076-011a
उत्तरं चापि सम्प्रेक्ष्य प्राप्तकालमचिन्तयत् ॥ KK04-05-076-011c
ततो विराटः सामात्यः सहपुत्रः सबान्धवः । KK04-05-076-012a
उत्तरामग्रतः कृत्वा शिरःस्नातां कृताञ्जलिः । KK04-05-076-012c
भूमौ निपतितस्तूर्णं पाण्डवस्य समीपतः ॥ KK04-05-076-012e
विराट उवाच KK04-05-076-013
प्रसीदतु महाराजो धर्मपुत्रो युधिष्ठिरः । KK04-05-076-013a
प्रच्छन्नरूपवेषत्वान्नाग्निर्दृष्टस्तृणैर्वृतः ॥ KK04-05-076-013c
शिरसाऽभिप्रपन्नोस्मि सपुत्रपरिचारकः ॥ KK04-05-076-014ac
यदस्माभिरजानद्भिरधिक्षिप्तो महीपतिः । KK04-05-076-014a
अवमत्य कृतं सर्वमज्ञानात्प्राकृते यथा । KK04-05-076-014c
क्षन्तुमर्हसि तत्सर्वं धर्मज्ञो धर्मवत्सल ॥ KK04-05-076-014e
यदिदं मामकं राष्ट्रं पुरं राज्यं च पार्थिव । KK04-05-076-015a
सदण्डकोशं विसृजे तव वश्योस्मि पार्थिव । KK04-05-076-015c
वयं च सर्वे सामात्या भवन्तं शरणं गताः ॥ KK04-05-076-015e
वैशम्पायन उवाच KK04-05-076-016
तं धर्मराजः पतितं महीतले सबन्धुवर्गं प्रसमीक्ष्य पार्थिवम् । KK04-05-076-016a
उवाच वाक्यं परलोकदर्शनः प्रनष्टमन्युर्गतशोकमत्सरः ॥ KK04-05-076-016c
न ते भयं पार्थिव विद्यते मयि प्रतीतरूपोस्म्यनुचिन्त्य मानसम् । KK04-05-076-017a
एतत्त्वया सम्यगिहोपपादितं द्विजैरमात्यैः सदृशैश्च पण्डितैः । KK04-05-076-017c
इमां च कन्यां समलङ्कृतां भृशं समीक्ष्य तुष्टोस्मि नरेन्द्रसत्तम ॥ KK04-05-076-017e
क्षान्तमेतन्महाबाहो यन्मां वदसि पार्थिव । KK04-05-076-018a
न चैव किञ्चित्पश्यामि विकृतं ते नराधिप ॥ KK04-05-076-018c
वैशम्पायन उवाच KK04-05-076-019
ततो विराटः परमाभितुष्टः समेत्य राज्ञा समयं चकार । KK04-05-076-019a
राज्यं च सर्वं विससर्ज तस्मै सदण्डकोशं सपुरं महात्मा ॥ ॥ KK04-05-076-019c
इति श्रीमन्महाभारते विराटपर्वणि वैवाहिकपर्वणि षट्सप्ततितमोऽध्यायः ॥
4-76-1 अभिपन्नोऽपराधं कृतवान् ॥ 1 ॥ 4-76-3 ततस्तुष्टा भवन्तु ते इति थ. पाठः ॥ 3 ॥