अध्यायः 075

अर्जुनेन विराटप्रश्नाद्वललादीनाम् भीमसेनादित्वकथनम् ॥ 1 ॥ उत्तरेण विराटम् प्रति तत्तल्लक्षणाभिधानपूर्वकं युधिष्ठिरादीनां निर्देशः ॥ 2 ॥ तथाऽर्जुनपराक्रमवर्णनम् ॥ 3 ॥ ततो विराटेन सप्रणामं युधिष्ठिरादिप्रसादनम् ॥ 4 ॥ विराट उवाच KK04-05-075-001
यद्येष राजा कौरव्यः कुन्तीपुत्रो युधिष्ठिरः । KK04-05-075-001a
कतमोऽस्यार्जुनो भ्राता भीमश्च कतमो बली ॥ KK04-05-075-001c
नकुलः सहदेवो वा द्रौपदी वा यशस्विनी । KK04-05-075-002a
यदा ह्यक्षैर्जिता ह्येते नान्तरा श्रूयते कथा ॥ KK04-05-075-002c
अर्जुन उवाच KK04-05-075-003
य एष वललोऽभूत्ते सूपकारश्च ते नृप । KK04-05-075-003a
एष भीमो महाभाग भीमवेगपराक्रमः ॥ KK04-05-075-003c
एष क्रोधवशान्हत्वा पर्वते गन्धमादने । KK04-05-075-004a
सौगन्धिकानि पुष्पाणि कृष्णार्थे समुपानयत् ॥ KK04-05-075-004c
गन्धर्व एष वै हन्ता कीचकानां दुरात्मनाम् । KK04-05-075-005a
व्याघ्रानृक्षान्गजांश्चैव हतवांश्च पुरे तव ॥ KK04-05-075-005c
हिडिम्बं च बकं चैव किर्मीरं च जटासुरम् । KK04-05-075-006a
हत्वा निष्कण्टकं चक्रे अरण्यं सर्वतः शुभम् ॥ KK04-05-075-006c
यश्चासीदश्वबन्धस्ते नकुलोऽयं परन्तप । KK04-05-075-007a
गोसङ्ख्यः सहदेवश्च माद्रीपुत्रौ महाबलौ ॥ KK04-05-075-007c
शृङ्गारवेषाभरणौ रूपवन्तौ मनस्विनौ । KK04-05-075-008a
नानारथसहस्राणां समर्थौ भरतर्षभौ ॥ KK04-05-075-008c
एषा पद्मपलाशाक्षी सुमध्या चारुहासिनी । KK04-05-075-009a
सैरन्ध्री द्रौपदी राजन्यत्कृते कीचका हताः ॥ KK04-05-075-009c
द्रुपदस्य प्रिया पुत्री धृष्टद्युम्नस्य चानुजा । KK04-05-075-010a
अग्निकुण्डात्समुद्भूता द्रौपदी त्ववगम्यताम् ॥ KK04-05-075-010c
भीम उवाच KK04-05-075-011
अस्त्रज्ञो दुर्लभः कश्चित्केवलं पृथिवीमनु । KK04-05-075-011a
धनुर्भृतामतिश्रेष्ठः कौन्तेयोयं धनञ्जयः ॥ KK04-05-075-011c
एतेन खाण्डवं तस्य ह्यकामस्य शतक्रतोः । KK04-05-075-012a
दग्धं नागवनं चैव सह नागैर्नराधिप ॥ KK04-05-075-012c
वर्षं च शरवर्षेण वारितं दुर्जयेन वै । KK04-05-075-013a
करमाहारिताः सर्वे पार्थिवाः पृथिवीतले ॥ KK04-05-075-013c
स्त्रीवेषं कृतवानेष तव राजन्निवेशने । KK04-05-075-014a
बृहन्नलेति यामाहुरर्जुनं जयतांवरम् ॥ KK04-05-075-014c
उषिताःस्म सुखं सर्वे तव राजन्निवेशने । KK04-05-075-015a
अज्ञातवासे निभृता गर्भवास इव प्रजाः ॥ KK04-05-075-015c
वैशम्पायन उवाच KK04-05-075-016
यदाऽर्जुनेन ते वीराः कथिताः पञ्च पाण्डवाः । KK04-05-075-016a
पुनरेव च तान्पार्थान्दर्शयामास चोत्तरः ॥ KK04-05-075-016c
उत्तर उवाच KK04-05-075-017
य एष जाम्बूनदशुद्धगौरतनुर्महान्सिंह इव प्रवद्धः । KK04-05-075-017a
प्रचण्डघोणः पृथुदीर्घनेत्रस्ताम्रायताक्षः कुरुराज एषः ॥ KK04-05-075-017c
अयं पुनर्मत्तगजेन्द्रगामी प्रतप्तचामीकरशुद्धगौरः । KK04-05-075-018a
पृथ्वायतांसो गुरुदीर्घबाहुर्वृकोदरः पश्यत पश्यतैनम् ॥ KK04-05-075-018c
यस्त्वेव पार्श्वेऽस्य महाधनुष्माञ्श्यामो युवा वारणयूथपोपमः । KK04-05-075-019a
सिंहोन्नतांसो गजराजगामी पद्मायताक्षोऽर्जुन एष वीरः ॥ KK04-05-075-019c
राज्ञः समीपे पुरुषोत्तमौ तु यमाविमौ विष्णुमहेन्द्रकल्पौ । KK04-05-075-020a
मनुष्यलोके सकले समोऽस्ति ययोर्न रूपे न बले न शीले ॥ KK04-05-075-020c
आभ्यां तु पार्श्वे कनकोत्तमाङ्गी यैषा प्रभा मूर्तिमतीव गौरी । KK04-05-075-021a
नीलोत्पलाभा सुरदेवतेव कृष्णा स्थिता मूर्तिमतीव लक्ष्मीः ॥ KK04-05-075-021c
वैशम्पायन उवाच KK04-05-075-022
एवं निवेद्य तान्पार्थान्पाण्डवान्पञ्च भूपतेः । KK04-05-075-022a
ततोऽर्जुनस्य वैराटिः कथयामास विक्रमम् ॥ KK04-05-075-022c
अयं स द्विषतां मध्ये मृगाणामिव केसरी । KK04-05-075-023a
अचरद्रथबृन्देषु निघ्नंस्तेषां परावरान् ॥ KK04-05-075-023c
अनेन विद्धा मातङ्गा महामेघोपमास्तदा । KK04-05-075-024a
हिरण्यकक्ष्याः सङ्ग्रामे दन्ताभ्यामगमन्महीम् ॥ KK04-05-075-024c
अनेन विजिता गावो निर्जिताः कुरवो युधि । KK04-05-075-025a
अस्य शङ्खस्य शब्देन कर्णौ मे बधिरीकृतौ ॥ KK04-05-075-025c
जायते रोमर्षो मे संस्मृत्यास्य धनुर्ध्वनिम् । KK04-05-075-026a
ध्वजस्य वानरं भूतैराक्रोशन्तं सहानुगैः ॥ KK04-05-075-026c
नाददानं शरान्घोरान्न मुञ्चन्तं शरोत्करान् । KK04-05-075-027a
न कार्मुकं विकर्षन्तमेनं पश्यामि संयुगे ॥ KK04-05-075-027c
एतद्धनुःप्रमुक्ताश्च शराः पुङ्खानुपुङ्खिनः । KK04-05-075-028a
नालक्ष्येषु रणे पेतुर्नाराचा रक्तभोजनाः ॥ KK04-05-075-028c
तीक्ष्णनाराचसङ्कृत्तशिरोबाहूरुवक्षसाम् । KK04-05-075-029a
कलेबराणि दृश्यन्ते योधानां साश्वसादिनाम् ॥ KK04-05-075-029c
अनेन तटिनी तत्र शोणिताम्बुप्रवाहिनी । KK04-05-075-030a
प्रवर्तिता भीमरूपा यां स्मृत्वाऽद्यापि मे मनः । KK04-05-075-030c
प्रकम्पते चण्डवायुकम्पिता कदली यथा ॥ KK04-05-075-030e
अनेन राजन्वीरेण भीष्मद्रोणमुखा रथाः । KK04-05-075-031a
दुर्योधनेन सहिता निर्जिता भीमकर्मणा ॥ KK04-05-075-031c
अयं भीतं द्रवन्तं मां देवपुत्रो न्यवारयत् । KK04-05-075-032a
यस्य बाहुबलेनास्मि जीवन्प्रत्यागतः पुरम् ॥ KK04-05-075-032c
वैशम्पायन उवाच KK04-05-075-033
तस्य तद्वचनं श्रुत्वा मात्स्यराजः प्रतापवान् । KK04-05-075-033a
धनञ्जयं परिष्वज्य पाण्डवानथ सर्वशः ॥ KK04-05-075-033c
धर्मराजं नमस्कृत्य राजा राज्येऽभिषेचितम् । KK04-05-075-034a
नातृप्यद्दर्शने तेषां विराटो वाहिनीपतिः ॥ KK04-05-075-034c
सम्प्रीयमाणो राजानां युधिष्ठिरमथाब्रवीत् । KK04-05-075-035a
दिष्ट्या भवन्तः सम्प्राप्ताः सर्वे कुशलिनो वनात् । KK04-05-075-035c
दिष्ट्या विचरितं कृच्छ्रमज्ञातं च दुरात्मभिः ॥ KK04-05-075-035e
इदं राज्यं च वः सर्वं यच्चापि वसु किञ्चन । KK04-05-075-036a
विभक्तमेतद्भवतां नोत्कण्ठां कर्तुमर्हथ । KK04-05-075-036c
अविभक्तं भवद्भिर्मे न सन्देहो नराधिपाः ॥ ॥ KK04-05-075-036e

इति श्रीमन्महाभारते विराटपर्वणि वैवाहिकपर्वणि पञ्चसप्ततितमोऽध्यायः ॥