अध्यायः 073
भीमार्जुनादिभी रात्रौ युधिष्ठिरसमीपगमनम् ॥ 1 ॥ युधिष्ठिरेण सहर्षं स्वानभिभाषणे अर्जुनेन भीमम् प्रति तत्कारणप्रश्नः ॥ 2 ॥ युधिष्ठिरेण तम् प्रति विराटेनाक्षताडनस्य तत्कारणत्वकथनम् ॥ 3 ॥ भीमादिभिः क्रोधाद्विराटवधाध्यवसाये युधिष्ठिरेण हेतुकथनेन तत्प्रतिषेधनम् ॥ 4 ॥
वैशम्पायन उवाच KK04-04-073-001
प्रदाय वस्त्राणि किरीटमाली विराटगेहे मुदितः सखीभ्यः । KK04-04-073-001a
कृत्वा महत्कर्म तदाऽऽजिमध्ये दिदृक्षया सोऽभिजगाम पार्थम् ॥ KK04-04-073-001c
तं प्रेक्षमाणस्त्वथ धर्मराजं पप्रच्छ पार्थोऽथ स भीमसेनम् । KK04-04-073-002a
किं धर्मराजो हि यथापुरं मां मुखं प्रतिच्छाद्य न चाह किञ्चित् ॥ KK04-04-073-002c
तमेवमुक्त्वा परिशङ्कमानं दृष्ट्वाऽर्जुनं भीमसेनं च राजा । KK04-04-073-003a
तदाऽब्रवीत्तावभिवीक्ष्य राजन्युधिष्ठिरस्तत्परिमृज्य रक्तम् ॥ KK04-04-073-003c
दुरात्मना त्वय्यभिपूज्यमाने विराटराज्ञाऽभिहतोऽस्मि पार्थ । KK04-04-073-004a
तस्मात्प्रहाराद्रुधिरस्य बिन्दून्पश्यन्न चेमे पृथिवीं स्पृशेयुः । KK04-04-073-004c
इति प्रतिच्छाद्य मुखं ततोऽहं मन्युं नियच्छन्नुपविष्ट आसम् ॥ KK04-04-073-004e
शुभार्ह राष्ट्रं न खिलीकृतं भवेद्वयं तु यस्मिन्सुखिनोऽभवाम । KK04-04-073-005a
क्रुद्धे तु वीरे त्वयि चाप्रतीते राजा विराटो न लभेत शर्म ॥ KK04-04-073-005c
अजानता तेन च शौर्यमाजौ छन्नस्य सत्रेण बलं च पार्थ । KK04-04-073-006a
इदं विराटेन मयि प्रयुक्तं त्वां वीक्षमाणो न गतोस्मि हर्षम् ॥ KK04-04-073-006c
वैशम्पायन उवाच KK04-04-073-007
तेनाप्रमेयेन महाबलेन तस्मिंस्तथोक्ते शममास्थितेन । KK04-04-073-007a
तं भीमसेनो बलवानमर्षी धनञ्जयं क्रुद्धमुवाच वाक्यम् ॥ KK04-04-073-007c
न पार्थ नित्यं क्षमकालमाह बृहस्पतिर्ज्ञानवतां वरिष्ठः । KK04-04-073-008a
क्षमीह सर्वैः परिभूयतेसौ यथा भुजङ्गो विषवीर्यहीनः ॥ KK04-04-073-008c
विराटमद्यैव निहत्य शीघ्रं सपुत्रपौत्रं सकुलं ससैन्यम् । KK04-04-073-009a
योक्ष्यामहे धर्मसुतं च राज्ये अद्यैव शीघ्रं त्वरिरेष मात्स्यः ॥ KK04-04-073-009c
अनेन पाञ्चालसुताऽथ कृष्णा उपेक्षिता कीचकेनाभियुक्ता । KK04-04-073-010a
तस्मादयं नार्हति राजशब्दं राजा भव त्वं नृप पार्थवीर्यात् ॥ KK04-04-073-010c
राजा कुरूणां च युधिष्ठिरोऽयं मात्स्येषु राजा भवतु प्रवीरः KK04-04-073-011a
तं मात्स्यदेहं शतधा भिनद्मि पूर्णोदकं कुम्भमिवाश्मनीह ॥ KK04-04-073-011c
अर्जुन उवाच KK04-04-073-012
भवतः क्षमया राजन्त्सर्वे दोषाश्च नोऽभवन् । KK04-04-073-012a
तं मात्स्यं सबलं हत्वा सपुत्रज्ञातिबान्धवम् । KK04-04-073-012c
पश्चाच्चैव कुरून्सर्वान्हनिष्यामि न संशयः ॥ KK04-04-073-012e
भीमसेनश्च ये चान्ये तथैवेति तमब्रुवन् ॥ KK04-04-073-013ac
तमब्रवीद्धर्मसुतो महात्मा क्षमी वदान्यः कुपितं च भीमम् । KK04-04-073-014a
न प्रत्युपस्थास्यति चेत्सदारः प्रसादने सम्यगथास्तु वध्यः ॥ KK04-04-073-014c
न हन्तव्यो दुरात्माऽयं विराटश्चापि तेऽर्जुन ॥ KK04-04-073-015ac
श्वः प्रभाते प्रवेक्ष्यामः सभां सिंहासनेष्वपि । KK04-04-073-016a
राजवेषेण संयुक्ताः स्थानमस्य स्वलङ्कृताः ॥ KK04-04-073-016c
विराटो यदि तत्रस्थान्राजालङ्कारशोभितान् । KK04-04-073-017a
राजलक्षणसम्पन्नान्यदि तत्र न मंस्यते । KK04-04-073-017c
पश्चाद्धन्यामहे पार्थ विराटं सहबान्धवम् ॥ KK04-04-073-017e
इतिकर्तव्यतां सर्वे मन्त्रयित्वा तु पाण्डवाः । KK04-04-073-018a
न्यवसंश्चैव तां रात्रिं धर्मज्ञा धर्मवत्सलाः ॥ KK04-04-073-018c
सहपुत्रेण मात्स्यः स सम्प्रहृष्टो नराधिपः । KK04-04-073-019a
तां रात्रिमवसत्प्रीतः सम्प्रहृष्टेन चेतसा ॥ ॥ KK04-04-073-019c
इति श्रीमन्महाभारते विराटपर्वणि गोग्रहणपर्वणि त्रिसप्ततितमोऽध्यायः ॥