अध्यायः 072

उत्तरेण राजाभ्यनुज्ञयाऽन्तःपुरमेत्य तदभिवादनम् ॥ 1 ॥ युधिष्ठिरव्रणावलोकनभीतोत्तरचोदनया विराटेन युधिष्ठिरक्षमापनम् ॥ 2 ॥ ततोऽर्जुनस्यान्तःप्रवेशः ॥ 3 ॥ उत्तरस्यैव जेतृत्वभ्रमहृष्टेन विराटेन तत्प्रशंसनम् ॥ 4 ॥ तेन तम् प्रपि कस्यचिद्देवपुत्रस्यैव जेतृत्वकथनम् ॥ 5 ॥ ततोऽर्जुनेनोत्तराप्रभृतिभ्यः कुरुवस्त्रप्रदानम् ॥ 6 ॥ वैशम्पायन उवाच KK04-04-072-001
सभाज्यमानः पौरैश्च स्त्रीभिर्जानपदैरपि । KK04-04-072-001a
आसाद्यान्तःपुरद्वारं पित्रे सम्प्रत्यवेदयत् ॥ KK04-04-072-001c
ततो द्वाःस्थः समासाद्य प्रणिपत्य कृताञ्जलिः । KK04-04-072-002a
वर्धयित्वा जयाशीर्भिरिदं वचनमब्रवीत् ॥ KK04-04-072-002c
राजन्पृथुयशस्तुभ्यं जित्वा शत्रून्समागतः । KK04-04-072-003a
उत्तरः सह सूतेन द्वारि तिष्ठति वारितः ॥ KK04-04-072-003c
कुमारो योधमुख्यैश्च गणिकाभिश्च संवृतः । KK04-04-072-004a
पौरजानपदैर्युक्तः पूज्यमानो जयाशिषा ॥ KK04-04-072-004c
ततो हृष्टो महीपालः क्षत्तारमिदमब्रवीत् । KK04-04-072-005a
प्रवेशयोभौ तौ तूर्णं दर्शनेप्सुरहं तयोः ॥ KK04-04-072-005c
क्षत्तारं कुरुराजस्तु शनैः कर्ण उपाजपत् । KK04-04-072-006a
उत्तरः प्रविशत्वेको न प्रवेश्या बृहन्नला ॥ KK04-04-072-006c
तस्य हि महाबाहोर्व्रतं नित्यं महात्मनः । KK04-04-072-007a
यो ममाङ्गे व्रणं कुर्याच्छोणितं वा प्रदर्शयेत् । KK04-04-072-007c
अन्यत्र सङ्ग्रामगतान्न स जीवेत्कथञ्चन ॥ KK04-04-072-007e
व्यक्तं भृशं सुसङ्क्रुद्धो मां दृष्ट्वैव सशोणितम् । KK04-04-072-008a
विराटमिह सामात्यं हन्यात्सबलवाहनम् ॥ KK04-04-072-008c
इन्द्रं वापि कुबेरं वा यमं वा वरुणं तथा । KK04-04-072-009a
मम शोणितकर्तारं मृद्नीयात्किं पुनर्नरम् ॥ KK04-04-072-009c
क्षणमात्रं तु तत्रैव द्वारि तिष्ठतु वीर्यवान् । KK04-04-072-010a
इति प्रोवाच धर्मात्मा युधिष्ठिर उदारधीः ॥ KK04-04-072-010c
इत्युक्त्वा क्षमया युक्तो धर्मराजो घृणान्वितः । KK04-04-072-011a
सभायां सह मात्स्येन तूष्णीमुपविवेश ह ॥ KK04-04-072-011c
ततो राजसुतो ज्येष्ठः प्राविशत्पृथिवीञ्जयः । KK04-04-072-012a
ववन्दे स पितुः पादौ कङ्कं चाप्युपतिष्ठत ॥ KK04-04-072-012c
पश्यन्युधिष्ठिरं दृष्ट्या वक्रया चरणौ पितुः । KK04-04-072-013a
अभिवाद्य ततो दृष्ट्वा कङ्कस्य रुधिरप्लुतम् । KK04-04-072-013c
हृदयेऽदह्यत तदा मृत्युग्रस्त इवोत्तरः ॥ KK04-04-072-013e
ततो रुधिरसिक्ताङ्गमनेकाग्रमनागसम् । KK04-04-072-014a
भूमावेकान्त आसीनं सैरन्ध्र्या समुपासितम् । KK04-04-072-014c
ततः पप्रच्छ राजानं त्वरमाण इवोत्तरः ॥ KK04-04-072-014e
केनायं ताडितः कङ्कः केन पापमिदं कृतम् । KK04-04-072-015a
को वा जिगमिषुर्मृत्युं केन स्पृष्टः पदोरगः ॥ KK04-04-072-015c
श्रोत्रियो ब्राह्मणश्रेष्ठ इन्द्रासनरतिक्षमः । KK04-04-072-016a
पूजनीयोऽभिवाद्यश्च न प्रबाध्योऽयमीदृशः ॥ KK04-04-072-016c
वैशम्पायन उवाच KK04-04-072-017
स पुत्रस्य वचः श्रुत्वा विराटो राष्ट्रवर्धनः । KK04-04-072-017a
प्रत्युवाचोत्तरं वाक्यं साध्वसाद्ध्वस्तमानसः ॥ KK04-04-072-017c
पुत्र ते विजयं श्रुत्वा प्रहृष्टोऽहं मुदा भृशम् । KK04-04-072-018a
अक्षक्रीडनयाऽनेन कालक्षेपमकारिषम् ॥ KK04-04-072-018c
तत्राजयत्कुरून्सर्वानुत्तरो राष्ट्रवर्धनः । KK04-04-072-019a
इत्युक्तं हि मया पुत्र नेति कङ्को बृहन्नला । KK04-04-072-019c
अजयत्सा कुरून्सर्वानिति मामब्रवीन्मुहुः ॥ KK04-04-072-019e
प्रशंसिते मया पुत्र विजये तव विश्रुते । KK04-04-072-020a
बृहन्नलाया विजयं कङ्कोऽस्तुवत वै रुषा ॥ KK04-04-072-020c
मया प्रशस्यमाने तु त्वयि षण्डं प्रशंसति । KK04-04-072-021a
बृहन्नलाप्रशंसाभिरभ्यसूयमहं तदा । KK04-04-072-021c
ताडितोऽयं मया पुत्र दुरात्मा शत्रुपक्षकृत् ॥ KK04-04-072-021e
ताडितोऽयं यतिः कङ्क इत्युक्तं तद्वचोत्तरः । KK04-04-072-022a
श्रुत्वा पितुर्भृशं क्रुद्धः पितरं वाक्यमब्रवीत् ॥ KK04-04-072-022c
अकार्यं ते कृतं राजन्क्षिप्रमेष प्रसाद्यताम् । KK04-04-072-023a
मा त्वा ब्रह्मविषं घोरं समूलमुपनिर्दहेत् ॥ KK04-04-072-023c
यावन्न क्षयमायाति कुलं सर्वमशेषतः । KK04-04-072-024a
स्फीतं वृद्धं च मात्स्यानामयं तावत्प्रसाद्यताम् ॥ KK04-04-072-024c
प्रणम्य पादयोरस्य दण्डवत्क्षितिमण्डले । KK04-04-072-025a
प्रगृह्य पादौ पाणिभ्यामयं तावत्प्रसाद्यताम् ॥ KK04-04-072-025c
दक्षेण पाणिना स्पृष्ट्वा शपे त्वां क्षपितं मया । KK04-04-072-026a
इति यावद्वदेत्कङ्क अयं तावत्प्रसाद्यताम् ॥ KK04-04-072-026c
स पुत्रस्य वचः श्रुत्वा विराटः साध्वसाकुलः । KK04-04-072-027a
क्षमयामास कौन्तेयं छन्नं ब्राह्मणवर्चसा ॥ KK04-04-072-027c
क्षमयन्तं तु राजानं पाण्डवः प्रत्यभाषत । KK04-04-072-028a
चिरं क्षान्तं मया राजन्मन्युर्मम न विद्यते ॥ KK04-04-072-028c
यदि स्म तत्पतेद्भूमौ रुधिरं मम पार्थिव । KK04-04-072-029a
सराष्ट्रस्त्वमिहोच्छेदमापद्येथा नरर्षभ ॥ KK04-04-072-029c
न दूषयामि राजेन्द्र यस्तु हन्याददूषकम् । KK04-04-072-030a
फलं तस्य महाराज क्षिप्रं दारुणमाप्नुयात् ॥ KK04-04-072-030c
वैशम्पायन उवाच KK04-04-072-031
शोणिते तु व्यतिक्रान्ते प्रविवेश बृहन्नला । KK04-04-072-031c
अभिवाद्य महाराजं कङ्कं चाप्युपतिष्ठत ॥ KK04-04-072-031c
क्षमयित्वा तु कौरव्यं रणादुत्तरमागतम् । KK04-04-072-032a
परिष्वज्य दृढं राजा प्रवेश्य भवनोत्तमम् । KK04-04-072-032c
प्रशशंस ततो मात्स्यः शृण्वतः सव्यसाचिनः ॥ KK04-04-072-032e
विराट उवाच KK04-04-072-033
त्वया दायादवानस्मि कैकेयीनन्दिवर्धन । KK04-04-072-033a
त्वया मे सदृशः पुत्रो न भूतो न भविष्यति ॥ KK04-04-072-033c
पदं पदसहस्रेण यश्चरन्नापराध्नुयात् । KK04-04-072-034a
तेन कर्णेन ते तात कथमासीत्समागमः ॥ KK04-04-072-034c
रणे यं प्रेक्ष्य सीदन्ति हृतवीर्यपराक्रमाः । KK04-04-072-035a
कृपेन तेन ते तात कथमासीत्समागमः ॥ KK04-04-072-035c
यस्य तद्विश्रुतं लोके महद्वृत्तमनुत्तमम् । KK04-04-072-036a
पितुः कृते कृतं घोरं ब्रह्मचर्यमनुत्तमम् ॥ KK04-04-072-036c
योऽयोधीत्समरे रामं जामदग्न्यं प्रतापिनम् । KK04-04-072-037a
भीष्मोसौ पुरुषव्याघ्र न च युद्धे पराजितः ॥ KK04-04-072-037c
पराक्रमी च दुर्धर्षो विद्वाञ्शूरो जितेन्द्रियः । KK04-04-072-038a
दृढवेधी क्षिप्रकारी विश्रुतः सर्वकर्मसु ॥ KK04-04-072-038c
तेन ते सह भीष्मेण कुरुवृद्धेन संयुगे । KK04-04-072-039a
युद्धमासीत्कथं तात सर्वमेतद्ब्रवीहि मे ॥ KK04-04-072-039c
पर्वतं यो विनिर्भिन्द्याद्राजपुत्रो वरेषुभिः । KK04-04-072-040a
दुर्योधनेन ते तात कथमासीत्समागमः ॥ KK04-04-072-040c
आचार्यो वृष्णिवीराणां पाञ्चालानां च यः प्रभुः । KK04-04-072-041a
कुरूणां पाण्डवानां च सर्वक्षत्रस्य यो गुरुः ॥ KK04-04-072-041c
सर्वशस्त्रभृतां श्रेष्ठः सर्वलोकेषु विश्रुतः । KK04-04-072-042a
तेन द्रोणेन ते तात कथमासीत्समागमः ॥ KK04-04-072-042c
आचार्यपुत्रो यः शूरो द्रोणादनवमो रणे । KK04-04-072-043a
तेन वीरेण ते तात कथमासीत्समागमः ॥ KK04-04-072-043c
सर्वे चैव महावीर्या धार्तराष्ट्रा महारथाः । KK04-04-072-044a
तैस्तैर्वीरैश्च ते तात कथमासीत्समागमः ॥ KK04-04-072-044c
उत्तर उवाच KK04-04-072-045
न मया निर्जिता गावो न मया कुरवो जिताः । KK04-04-072-045a
कृतं च कर्म तत्सर्वं देवपुत्रेण केनचित् ॥ KK04-04-072-045c
स हि भीतं द्रवन्तं मां भीष्मद्रोणमुखान्कुरून् । KK04-04-072-046a
दृष्ट्वा विषण्णं सङ्ग्रामे देवपुत्रो न्यवारयत् ॥ KK04-04-072-046c
स हि तिष्ठन्रथोपस्थे वज्रपाणिनिभो युवा । KK04-04-072-047a
तेन ते निर्जिता गावस्तेन ते कुरवो जिताः ॥ KK04-04-072-047c
तस्य तत्कर्म वीरस्य न मया तात तत्कृतम् । KK04-04-072-048a
स हि शारद्वतं द्रोणं द्रोणपुत्रं च वीर्यवान् । KK04-04-072-048c
सूतपुत्रं च भीष्मं च चकार विमुखाञ्शरैः ॥ KK04-04-072-048e
दुर्योधनं च समरे प्रभिन्नमिव कुञ्जरम् । KK04-04-072-049a
प्रभग्नमब्रवीद्भीतं राजपुत्रं महाबलम् ॥ KK04-04-072-049c
न हास्तिनपुरे त्राणं तव पश्यामि किञ्चन । KK04-04-072-050a
न हास्तिनपुरे भोगा भोक्तुं शक्याः पलायता ॥ KK04-04-072-050c
व्यायामेन परीप्सस्व जीवितं कौरवात्मज । KK04-04-072-051a
न मोक्ष्यसे पलायंस्त्वं लोके युद्धमना भव । KK04-04-072-051c
पृथिवीं भोक्ष्यसे जित्वा हतो वा स्वर्गमाप्स्यसि ॥ KK04-04-072-051e
स निवृत्तो नरव्याघ्रो मुञ्चन्वज्रनिभाञ्शरान् । KK04-04-072-052a
सचिवैः संवृतो राजा भीष्मद्रोणकृपादिभिः । KK04-04-072-052c
ततो मे रोमहर्षोऽभूदूरुस्तम्भश्च मेऽभवत् ॥ KK04-04-072-052e
यदभूद्घनसङ्काशमनीकं व्यधमच्छरैः । KK04-04-072-053a
तत्प्रणुद्य रथानीकं सिंहदर्पसमो युवा । KK04-04-072-053c
तान्कुरून्द्रावयद्राजन्रणे नाग इव श्वसन् ॥ KK04-04-072-053e
एकेन तेन शूरेण षड्रथाः परिनिर्जिताः । KK04-04-072-054a
शार्दूलेनेव मत्तेन मृगास्तृणचरा यथा ॥ KK04-04-072-054c
हयानां च गजानां च शूराणां च धनुष्मताम् । KK04-04-072-055a
निहतानि सहस्राणि भग्ना च कुरुवाहिनी ॥ KK04-04-072-055c
सूतपुत्रं शतैर्विद्ध्वा हयान्हत्वा महारथः । KK04-04-072-056a
अस्त्रेण मोहयित्वा तं रक्तवस्त्रं समाददे ॥ KK04-04-072-056c
चतुर्भिः पुनरानर्च्छद्भीष्मं शान्तनवं शरैः । KK04-04-072-057a
स तं विद्ध्वा हयांश्चाशु नास्य वस्त्रं समाददे ॥ KK04-04-072-057c
दुर्योधनं च बलवान्बाणैर्विव्याध सप्तभिः । KK04-04-072-058a
तं स विद्ध्वा हयांश्चास्य पीतवस्त्रं समाददे ॥ KK04-04-072-058c
द्रोणं कृपं च बलवान्सोमदत्तं जयद्रथम् । KK04-04-072-059a
भूरिश्रवसमिन्द्राभं शकुनिं च महारथम् ॥ KK04-04-072-059c
त्रिभिस्त्रिभिः स विद्ध्वा तु दुःशासनमुखानपि । KK04-04-072-060a
विविधानि च वस्त्राणि महार्हाण्याजहार सः ॥ KK04-04-072-060c
द्वाभ्यां शराभ्यां विद्ध्वाऽथ तथाऽऽचार्यसुतं रणे । KK04-04-072-061a
चापं छित्त्वा विकर्णस्य नीले चादत्त वाससी ॥ KK04-04-072-061c
विराट उवाच KK04-04-072-062
क्व स वीरो महाबाहुर्देवपुत्रो महायशाः । KK04-04-072-062a
यो ममामोचयत्पुत्रं कुरुभिर्ग्रस्तमाहवे ॥ KK04-04-072-062c
इच्छामि तममित्रघ्नं दुष्टुमर्चितुमेव च । KK04-04-072-063a
येन मे त्वं च गावश्च मोक्षिता देवसूनुना ॥ KK04-04-072-063c
तस्मै दास्यामि तां पुत्रीं ग्रामांश्चैव तु हाटकान् । KK04-04-072-064a
स्फुरितं कटिसूत्रं च स्त्रीसहस्रशतानि च ॥ KK04-04-072-064c
उत्तर उवाच KK04-04-072-065
अन्तर्धानं गतस्तात देवपुत्रः प्रतापवान् । KK04-04-072-065a
अद्य श्वो वा परश्वो वा मन्ये प्रादुर्भविष्यति ॥ KK04-04-072-065c
वैशम्पायन उवाच KK04-04-072-066
एवमाख्यायमानस्तु छन्नं सत्रेण पाण्डवम् । KK04-04-072-066a
वसन्तं तं तु नाज्ञासीद्विराटः पार्थमर्जुनम् ॥ KK04-04-072-066c
ततः पार्थोऽभ्यनुज्ञातो विराटेन महात्मना । KK04-04-072-067a
सह पुत्रेण मात्स्यस्य मन्त्रयित्वा धनञ्जयः ॥ KK04-04-072-067c
इत्येवं ब्रूहि राजानं विराटं समुपस्थितम् । KK04-04-072-068a
इत्युक्त्वा सहसा पार्थः प्रविश्यान्तःपुरं शुभम् । KK04-04-072-068c
ददौ वस्त्राणि रत्नानि विराटदुहितुः स्वयम् ॥ KK04-04-072-068e
उत्तरा तु महार्हाणि वस्त्राण्याभरणानि च । KK04-04-072-069a
प्रगृह्य तानि सर्वाणि प्रीता सानुचराऽभवत् ॥ ॥ KK04-04-072-069c

इति श्रीमन्महाभारते विराटपर्वणि गोग्रहणपर्वणि द्विसप्ततितमोऽध्यायः ॥

4-72-5 क्षत्तारं सारथिम् ॥ 5 । 4-72-6 कर्ण उपाजपत् कर्णे इति च्छेदः ॥ 6 ॥ 4-72-7 ममाङ्ग इति मम युधिष्ठिरस्य । सङ्ग्रामाय गतात् गमनात् ॥ 7 ॥ 4-72-13 रुधिरप्लुतं रुधिरस्रावम् ॥ 13 ॥ 4-72-14 अनेकाग्रं व्यग्रम् । युधिष्ठिरं दृष्ट्वा राजानं पप्रच्छेत्यन्वयः ॥ 14 ॥ 4-72- 22 तद्वचः इति च्छेदः सन्धिरार्षः ॥ 22 ॥ 4-72-30 तस्येति । स इति शेषः । स हन्ता तस्य स्वकृतहननस्य ॥ 30 । 4-72-31 उपतिष्ठत उपातिष्ठत असेवत ॥ 31 ॥ 4-72- 33 दायादवान्पुत्रवान् ॥ 33 । 4-72-34 पदसहस्रेण लक्ष्यसहस्रार्थम् । हेत्वर्थे तृतीया । युगपत्सहस्रलक्ष्याणि वेद्धुमित्यर्थः । चरन् बाणैः । पदम् एकमपि लक्ष्यं नापराध्नुयात् लक्ष्यात् च्युतसायको न भवेदित्यर्थः ॥ 34 ॥ 4-72-47 तिष्ठन् अयुध्यतेति शेषः ॥ 47 ॥ 4-72-52 स निवृत्तोऽभूदित्यन्वयः ॥ 52 ॥ 4-72-53 सिंहेन दर्पे समः । द्रावयत् अद्रावयत् ॥ 53 ॥ 4-72-54 तृणचरास्तृणभक्षकाः ॥ 54 ॥ 4-72-66 सत्रेण वेषान्तरेण ॥ 66 ॥ 4-72-68 श्व इतो ब्रूहि राजानं विराटञ्चेति थ. पाठः ॥ 68 ॥