अध्यायः 071
अर्जुनकुरुयुद्धदिदृक्षया समागतैर्देवैरर्जुनं श्लाघमानैः सद्भिः पुनः स्वर्गम् प्रति गमनम् ॥ 1 ॥ उत्तरेण सवादित्रघोषम् पौरैः प्रत्युद्गम्यमानेन स्वनगरप्रवेशनम् ॥ 2 ॥
जनमेजय उवाच KK04-04-071-001
युद्धं तु मानुषं द्रष्टुमागतास्त्रिदशाः पुरा । KK04-04-071-001a
किमकुर्वन्त ते पश्चात्कथयस्व ममानघ ॥ KK04-04-071-001c
वैशम्पायन उवाच KK04-04-071-002
वासवप्रमुखाः सर्वे देवाः सर्षिपुरोगमाः । KK04-04-071-002a
यक्षगन्धर्वसङ्घाश्च गणा अप्सरसां तथा ॥ KK04-04-071-002c
युद्धं तु मानुषं दृष्ट्वा कुरूणां फल्गुनस्य च । KK04-04-071-003a
एकस्य च बहूनां च रौद्रमत्युग्रदर्शनम् ॥ KK04-04-071-003c
अस्त्राणामथ दिव्यानां प्रयोगानथ सङ्ग्रहान् । KK04-04-071-004a
लघु सुष्ठु च चित्रं च कृतीनां च प्रयत्नतः ॥ KK04-04-071-004c
भीष्मं शारद्वतं द्रोणं कर्णं गाण्डीवधन्वना । KK04-04-071-005a
जितानन्यान्भूमिपालान्दृष्ट्वा जग्मुर्दिवौकसः ॥ KK04-04-071-005c
सर्वे ते परितुष्टाश्च प्रशस्य च मुहुर्मुहुः । KK04-04-071-006a
असङ्गगतिना तेन विमानेनाशुगामिना । KK04-04-071-006c
प्रतिजग्मुरसङ्गास्ते त्रिदिवं च दिवौकसः ॥ KK04-04-071-006e
[*कुरवो निर्जिताः सर्वे भीष्मद्रोणकृपादयः । KK04-04-071-007a
अजय्यास्त्रिदशैः सर्वैः सेन्द्रैः सर्वैः सुरासुरैः । KK04-04-071-007c
पार्थेनैकेन सङ्ग्रामे विस्मयो नो महानहो ॥ KK04-04-071-007e
कस्मिन्मुहूर्ते सञ्जातः कस्य धर्मस्य वा फलम् ॥ KK04-04-071-008ac
किमाश्चर्यं फल्गुनेऽस्मिन्यो रुद्रेण न्ययोधयत् । KK04-04-071-009a
निवातकवचानाजौ यस्त्रिंशत्कोटिसम्मितान् ॥ KK04-04-071-009c
तस्य चैतत्किमाश्चर्यं स्तुवन्त इति ते सुराः । KK04-04-071-01a0
जग्मुः सुरालयं हृष्टा विस्मयाविष्टचेतसः ॥] KK04-04-071-010c
कुरवोऽर्जुनबाणैश्च ताडिताः शरविक्षताः । KK04-04-071-011a
कुरूनभिमुखा याताः समग्रबलवाहनाः ॥ KK04-04-071-011c
विराटनगराच्चैव गजाश्वरथसङ्कुलाः । KK04-04-071-012a
योधैः क्षत्रियदायादैर्बलवद्भिरधिष्ठिताः ॥ KK04-04-071-012c
विराटप्रहिता सेना नगराच्छीघ्रयायिनी । KK04-04-071-013a
उत्तरं सह सूतेन प्रत्ययात्तमरिन्दमम् ॥ KK04-04-071-013c
तस्मिंस्तूर्यशताकीर्णे हस्त्यश्वरथसङ्कुले । KK04-04-071-014a
प्रहर्षः स्त्रीकुमाराणां तुमुलः समपद्यत ॥ KK04-04-071-014c
अर्जुनस्तु ततो दृष्ट्वा सैन्यरेणुं समुत्थितम् । KK04-04-071-015a
सैन्यध्वजं निशम्याथ वैराटिं समभाषत ॥ KK04-04-071-015c
नगरे तुमुलः शब्दो रेणुश्चाक्रमते नभः । KK04-04-071-01a6
किन्नु खल्वपयातास्ते कुरवो नगरं गताः ॥ KK04-04-071-016c
ते चैव निर्जिताऽस्माभिर्महेष्वासाः सुतेजसः । KK04-04-071-017a
आमुञ्च कवचं वीर चोदयस्व च वाजिनः । KK04-04-071-017c
जवेनाभिप्रपद्यस्व विराटनगरं प्रति ॥ KK04-04-071-017e
न तावत्तलनिर्घोषं गाण्डीवस्य च निस्वनम् । KK04-04-071-018a
ध्वजं वा दर्शयिष्यामि अथवा स्वजनो भवेत् ॥ KK04-04-071-018c
उत्तर उवाच KK04-04-071-019
सेनाग्रमेतन्मात्स्यानां गणिकाश्च स्वलङ्कृताः । KK04-04-071-019a
कन्या रथेषु दृश्यन्ते योधा विविधवाससः ॥ KK04-04-071-019c
उत्तरामत्र पश्यामि सखीभिः परिवारिताम् । KK04-04-071-020a
अनीकिन्यः प्रदृश्यन्ते हस्तिनोश्वाश्च वर्मिताः ॥ KK04-04-071-020c
रथिनश्च पदाताश्च बहवो न च शस्त्रिणः । KK04-04-071-021a
विराटवचनात्सर्वे संहृष्टाः प्रतिभान्ति मे । KK04-04-071-021c
न च मेऽत्र प्रतीघातश्चित्तस्य स्वजने यथा ॥ KK04-04-071-021e
वैशम्पायन उवाच KK04-04-071-022
ततः शीघ्रं समासाद्य उत्तरं स्वजनो बहु । KK04-04-071-022a
परस्परममित्रघ्नं सस्वजे तं समागतम् ॥ KK04-04-071-022c
जना ऊचुः KK04-04-071-023
प्रीतिमान्पुरुषव्याघ्रो हर्षयुक्तः पुनः पुनः । KK04-04-071-023a
दिष्ट्या जयसि भद्रं ते दिष्ट्या सूतो बृहन्नला । KK04-04-071-023c
दिष्ट्या सङ्ग्राममागम्य भयं तव न किञ्चन ॥ KK04-04-071-023e
उत्तर उवाच KK04-04-071-024
अजैषीदेष ताञ्जिष्णुः कुरूनेकरथो रणे । KK04-04-071-024a
एतस्य बाहुवीर्यं तद्येन गावो जिता मया । KK04-04-071-024c
कुरवो निर्जिता यस्मात्सङ्ग्रामेऽमिततेजसः ॥ KK04-04-071-024e
अकार्षीदेष तत्कर्म देवपुत्रोपमो युवा । KK04-04-071-025a
एष तत्पुरुषव्याघ्रो विक्षोभ्य कुरुमण्डलम् । KK04-04-071-025c
गावः प्रसह्य विजिता रणे मां चाभ्यपालयत् ॥ KK04-04-071-025e
वैशम्पायन उवाच KK04-04-071-026
उत्तरस्य वचः श्रुत्वा शंसमानस्य चार्जुनम् । KK04-04-071-026a
चोदिता राजपुत्रेण जयं मङ्गलवादिनः ॥ KK04-04-071-026c
ततो गन्धैश्च माल्यैश्च धूपैश्च वसुसम्भृतैः । KK04-04-071-027a
कन्याः पार्थममित्रघ्नं किरन्त्यः समपूजयन् ॥ KK04-04-071-027c
आपूर्यमाणो माल्यैश्च गन्धैश्च विविधैः शुभैः । KK04-04-071-028a
सम्पूज्यमानो लोकेन नगरद्वारमागमत् ॥ KK04-04-071-028c
भेर्यश्च तूर्याणि च वेणवश्च विचित्रवेषाः प्रमदाजनाश्च । KK04-04-071-029a
पुरो विराटस्य महाबलस्य निष्क्रम्य भूमिञ्जयमभ्यनन्दन् ॥ KK04-04-071-029c
प्रशस्यमानस्तु जयेन तत्र पुत्रो विराटस्य न हृष्यति स्म । KK04-04-071-030a
सम्भाष्यमाणस्तु जयेन तत्र सोऽन्तर्मनाः पाण्डवमीक्षमाणः ॥ KK04-04-071-030c
पुत्र्यै विराटस्य ततो वराणि वस्त्राण्यदात्पाण्डुसुतः सखीभ्यः । KK04-04-071-031a
सभाजयंश्चापि समागतास्ता दृष्ट्वा जयं तच्च बलं कुमार्यः ॥ ॥ KK04-04-071-031c
इति श्रीमन्महाभारते विराटपर्वणि गोग्रहणपर्वणि एकसप्ततितमोऽध्यायः ॥
4-71-7 *इमे श्लोकाः थ. पुस्तकमात्रे वर्तन्ते । जिष्णुः जयशील ॥ 26॥ अन्तर्मना दुर्मना ॥ 30 ॥