अध्यायः 070

उत्तरजयश्रवणहृष्टेन विराटेन युधिष्ठिरेण सह द्यूतदेवनम् ॥ 1 ॥ विराटेनोत्तरप्रशंसने कङ्केन बृहन्नलया कुरुपराजयकथनम् ॥ 2 ॥ ततो रुष्टेन विराटेन कङ्कस्य कर्णमूलेऽक्षेणाभिहननम् ॥ 3 ॥ सैरन्ध्र्या क्षतात्प्रस्रवतो रक्तस्य निजोत्तरीयेण ग्रहणम् ॥ 4 ॥ तथा विराटेन तद्ग्रहणकारणप्रश्ने तत्कथनम् ॥ 5 ॥ वैशम्पायन उवाच KK04-04-070-001
प्रस्थाप्य सेनां कन्याश्च गणिकाश्च स्वलङ्कृताः । KK04-04-070-001a
मत्स्यराजो महाराजः प्रहृष्ट इदमब्रवीत् ॥ KK04-04-070-001c
व्रिगर्ताः कुरवः सर्वे सङ्ग्रामे निर्जिता मया । KK04-04-070-002a
प्रविश्यान्तःपुरं हृष्टा द्यूतं दीव्याम ब्राह्मण ॥ KK04-04-070-002c
अक्षानाहर सैरन्ध्रि आसनं चोपकल्पय । KK04-04-070-003a
आदाय व्यजनं त्वं च पार्श्वतोऽनन्तरा भव ॥ KK04-04-070-003c
तं तथावादिनं दृष्ट्वा पाण्डवः प्रत्यभाषत । KK04-04-070-004a
न देवितव्यं हृष्टेन कितवेनेति नः श्रुतम् ॥ KK04-04-070-004c
न त्वामद्य मुदा युक्तमहं देवितुमुत्सहे । KK04-04-070-005a
प्रियं तु ते चिकीर्षामि वर्ततां यदि रोचते । KK04-04-070-005c
द्यूतं कर्तुं न वाञ्छामि नरेन्द्र जनसंसदि ॥ KK04-04-070-005e
विराट उवाच KK04-04-070-006
स्त्रियो गावो हिरण्यं च यच्चान्यद्वसु किञ्चन । KK04-04-070-006a
न मे किञ्चित्त्वया कार्यमन्तरेणापि देवितम् ॥ KK04-04-070-006c
कङ्क उवाच KK04-04-070-007
किं ते द्यूतेन राजेन्द्र बहुदोषेण मानद । KK04-04-070-007a
देवने बहवो दोषास्तस्मात्तत्परिवर्जयेत् ॥ KK04-04-070-007c
श्रुतो वा यदि वा दृष्टो धर्मराजो युधिष्ठिरः । KK04-04-070-008a
स राज्यं धनमक्षय्यं पणमेकममन्यत ॥ KK04-04-070-008c
कृष्णां च भार्यां दयितां भ्रातॄंश्च त्रिदशोपमान् । KK04-04-070-009a
निःसंशयं स कितवः पश्चात्तप्यति पाण्डवः ॥ KK04-04-070-009c
विविधानां च रत्नानां धनानां च पराजये । KK04-04-070-010a
अभीप्सितविनाशश्च वाक्पारुष्यमनन्तरम् ॥ KK04-04-070-010c
अविश्वास्यं बुधैर्नित्यमेकाह्ना द्रव्यनाशनम् । KK04-04-070-011a
द्यूते हारितवान्सर्वं तस्माद्द्यूतं न रोचये ॥ KK04-04-070-011c
अथवा मन्यसे राजन्दीव्याव यदि रोचते । KK04-04-070-012a
एवमाभाष्य वाक्यैस्तु क्रीडतस्तौ नरोत्तमौ ॥ KK04-04-070-012c
प्रवर्तमाने द्यूते तु मात्स्यः पाण्डवमब्रवीत् ॥ KK04-04-070-013ac
पश्य पुत्रेण मे युद्धे तादृशाः कुरवो जिताः । KK04-04-070-014a
कुरवोऽतिरथाः सर्वे देवैरपि सुदुर्जयाः ॥ KK04-04-070-014c
ततोऽब्रवीद्धर्मराजो द्यूते मात्स्यं युधिष्ठिरः । KK04-04-070-015a
दिष्ट्या ते विजिता गावः कुरवश्च पराजिताः ॥ KK04-04-070-015c
अत्यद्भुततमं मन्ये उत्तरश्चेत्कुरूञ्जयेत् । KK04-04-070-016a
यन्ता बृहन्नला यस्य स कथञ्चिद्विजेष्यते ॥ KK04-04-070-016c
ततो विराटः क्षुभितो मन्युना च परिप्लुतः । KK04-04-070-017a
उवाच वचनं क्रुद्धः परिव्राजमनन्तरम् ॥ KK04-04-070-017c
तादृशेन तु योधेन महेष्वासेन धीमता । KK04-04-070-018a
कुरवो निर्जिता युद्धे तत्र किं ब्राह्मणाद्भुतम् ॥ KK04-04-070-018c
युधिष्ठिर उवाच KK04-04-070-019
यन्ता तथाविधो यस्य रथे तिष्ठति वीर्यवान् । KK04-04-070-019a
यदि तद्दुष्करं कुर्यात्तत्र किं नाद्भुतं भवेत् ॥ KK04-04-070-019c
विराट उवाच KK04-04-070-020
समं षण्डेन मे पुत्रं ब्रह्मबन्धो प्रशंससि । KK04-04-070-020a
वाच्यावाच्यं न जानीषे नूनं मामवमन्यसे ॥ KK04-04-070-020c
पुमांसो बहवो दृष्टाः सूताश्च बहवो मया । KK04-04-070-021a
विक्रम्य यन्ता योद्धा च न मे दृष्टः कदाचन ॥ KK04-04-070-021c
विप्रियं न चरेद्राज्ञामनुकूलं प्रियं वदेत् । KK04-04-070-022a
आचरन्विप्रियं राज्ञां न जातु सुखमेधते ॥ KK04-04-070-022c
वयस्यत्वात्तु ते सर्वमपराधमिमं क्षमे । KK04-04-070-023a
नेदृशीं प्रवदेर्वाचं यदि जीवितुमिच्छसि ॥ KK04-04-070-023c
वैशम्पायन उवाच KK04-04-070-024
ततोऽब्रवीत्पुनः कङ्कः प्रहस्य कुरुवर्धनः । KK04-04-070-024a
बृहन्नलाया राजेन्द्र घुष्यतां नगरे जयः ॥ KK04-04-070-024c
उत्तरेण तु सारथ्यं कृतं नूनं भविष्यति । KK04-04-070-025a
निमित्तं किञ्चिदुत्पन्नं तर्कश्चापि दृढो मम । KK04-04-070-025c
यतो जानामि राजेन्द्र नान्यथा तद्भविष्यति ॥ KK04-04-070-025e
कुरवोऽपि महावीर्या देवैरपि सुदुर्जयाः । KK04-04-070-026a
ससोमवरुणादित्यैः सयक्षेशहुताशनैः ॥ KK04-04-070-026c
यत्र शान्तनवो भीष्मो द्रोणकर्णौ सुदुर्जयौ । KK04-04-070-027a
अश्वत्थामा विकर्णश्च सोमदत्तो जयद्रथः ॥ KK04-04-070-027c
भूरिश्रवाः शलो भूरिर्जलसन्धिश्च वीर्यवान् । KK04-04-070-028a
दुर्योधनो दुष्प्रसहो दुःशासनविविंशती ॥ KK04-04-070-028c
वृषसेनोऽश्ववेगश्च वायुवेगसुवर्चसौ । KK04-04-070-029a
बाह्लीकः शूरसेनश्च युयुत्सुश्च परन्तपः ॥ KK04-04-070-029c
सौबलः शकुनिश्चैव द्युमत्सेनश्च साल्वराट् । KK04-04-070-030a
अन्ये च बहवः शूरा नानाजनपदेश्वराः ॥ KK04-04-070-030c
कृपेणाचार्यमुख्येन सहिताः कुरवो नृपाः । KK04-04-070-031a
सज्जकार्मुकनिस्त्रिंशा रथिनो रथयूथपाः । KK04-04-070-031c
अन्ये चैव महावीर्या राजपुत्रा महारथाः ॥ KK04-04-070-031e
मरुद्गणैः परिवृतः साक्षादपि पुरन्दरः । KK04-04-070-032a
तद्बलं न जयेत्क्रुद्धो भीष्मद्रोणादिभिर्वृतम् ॥ KK04-04-070-032c
कस्तद्बृहन्नलादन्यो मनुष्यः प्रतियोत्स्यति । KK04-04-070-033a
यस्य बाहुबले तुल्यो न भविष्यति कश्चन ॥ KK04-04-070-033c
अतीव समरं दृष्ट्वा हर्षो यस्याभिवर्धते । KK04-04-070-034a
किमेवं पुरुषो लोको दिवि वा भुवि विद्यते ॥ KK04-04-070-034c
वैशम्पायन उवाच KK04-04-070-035
तेन सङ्क्षुभितो राजा दीर्यमाणेन चेतसा । KK04-04-070-035a
अब्रवीद्वचनं क्रूरमजानन्वै युधिष्ठिरम् ॥ KK04-04-070-035c
कङ्क मा ब्रूहि मे वाक्यं प्रतिकूलं द्विजोत्तम । KK04-04-070-036a
बहुशः प्रतिषिद्धस्त्वं न च वाचं नियच्छसि ॥ KK04-04-070-036c
नियन्ता चेन्न विद्येत न कश्चिद्धर्ममाचरेत् । KK04-04-070-037a
इति प्रक्षुभितो राजा सोऽक्षेणाभ्यहनद्भृशम् ॥ KK04-04-070-037c
तस्य तक्षकभोगाभं बाहुमुत्क्षिप्य दक्षिणम् । KK04-04-070-038a
विराटः प्राहनत्क्रुद्धः कर्णमाश्रित्य दक्षिणम् ॥ KK04-04-070-038c
मुखे युधिष्ठिरं कोपान्मैवमित्यवभर्त्सयन् । KK04-04-070-039a
बलवत्प्रतिविद्धस्य नस्तः शोणितमास्रवत् ॥ KK04-04-070-039c
अक्षेणाभिहतो राजा विराटेन युधिष्ठिरः । KK04-04-070-040a
तूष्णीमासीन्महाबाहुः कृष्णां पश्यन्सुदुःखिताम् ॥ KK04-04-070-040c
तस्य रक्तोत्पलनिभं शिरसः शोणितं तदा । KK04-04-070-041a
प्रावर्तत महाबाहोरभिघातान्महात्मनः ॥ KK04-04-070-041c
तदप्राप्तं महीं पार्थः पाणिभ्यां समधारयत् । KK04-04-070-042a
अवैक्षत च धर्मात्मा द्रौपदीं पार्श्वतः स्थिताम् ॥ KK04-04-070-042c
सा वेदनामभिज्ञाय भर्तुश्चित्तवशानुगा । KK04-04-070-043a
सा विषण्णा च भीता च क्रुद्धा च द्रुपदात्मजा ॥ KK04-04-070-043c
बाष्पं नियम्य कृच्छ्रेण भर्तुर्निःश्रेयसैषिणी । KK04-04-070-044a
उत्तरीयेण सूक्ष्मेण तूर्णं जग्राह शोणितम् ॥ KK04-04-070-044c
निगृह्य रक्तं वस्त्रेण सैरन्ध्री दुःखमोहिता । KK04-04-070-045a
सौवर्णं गृह्य भृङ्गारं शोणितं तदपामृजत् । KK04-04-070-045c
युधिष्ठिरस्य राजेन्द्र द्रुपदेन्द्रसुता तदा ॥ KK04-04-070-045e
विराट उवाच KK04-04-070-046
सैरन्ध्रि किमिदं रक्तमुत्तरीयेण गृह्यते । KK04-04-070-046a
कोत्र हेतुर्विशालाक्षि तन्मप्राचक्ष्व तत्वतः ॥ KK04-04-070-046c
सैरन्ध्र्युवाच KK04-04-070-047
रक्तबिन्दनि यावन्ति कङ्कस्य धरणीतले । KK04-04-070-047a
तावद्वर्षाणि राष्ट्रे ते अनावृष्टिर्भविष्यति ॥ KK04-04-070-047c
एतन्निमित्तं मात्स्येन्द्र कङ्कस्य रुधिरं मया । KK04-04-070-048a
गृहीतमुत्तरीयेण विनाशो मा भवेत्तव ॥ KK04-04-070-048c
यतीशं यो विहन्येत तस्यायुर्विनशिष्यति । KK04-04-070-049a
यो यतीशं नियम्येत सहस्रं यातना यमे ॥ KK04-04-070-049c
यतौ रक्तं दर्शयति यावत्पांसुरगृह्यत । KK04-04-070-050a
तावन्तः पितृलोकस्थाः पितरः प्रपतन्त्यधः ॥ KK04-04-070-050c
इति ज्ञात्वा विराटेन्द्र धृतं रक्तं च वाससा । KK04-04-070-051a
मया तव हितार्थाय त्वयि प्रणयकारणात् ॥ ॥ KK04-04-070-051c

इति श्रीमन्महाभारते विराटपर्वणि गोग्रहणपर्वणि सप्ततितमोऽध्यायः ॥

4-70-10 धनानां च विनाशः वाक्पारुष्यं चाभवदिति शेषपूरणेन योजना ॥ 10 ॥ 4-70-19 किं किमपि ॥ 19 ॥ 4-70-47 धरणीतले पतेयुरिति शेषः ॥ 47 ॥ 4-70-48 नियम्येत नियमयेत् तस्येति शेषः ॥ 49 ॥ 4-70-50 अगृह्यत गृह्येत रक्तेनेति ॥ 50 ॥ 4-70-51 इतीममर्थम् ॥ 51 ॥