अध्यायः 069

विराटेन युधिष्ठिरादिभिः सह सुशर्मादिजयानन्तरम् पुरम् प्रत्यागमनम् ॥ 1 ॥ तथा उत्तरस्य कुरुविजयाय सहबृहन्नलया गमनश्रवणेन तद्रक्षणाय सेनाचोदना ॥ 2 ॥ अत्रान्तरे विराटाय दूतैरुत्तरजयनिवेदनम् ॥ 3 ॥ KK04-04-069-001 वैशम्पायन उवाच
KK04-04-069-001a स विजित्य धनं चापि विराटो वाहिनीपतिः ।
KK04-04-069-001c प्राविशन्नगरं हृष्टश्चतुर्भिः सह पाण्डवैः ॥
KK04-04-069-002a जित्वा त्रिगर्तान्सङ्ग्रामे गाश्चैवानाय्य केवलाः ।
KK04-04-069-002c अशोभत महाराजः सह पार्थैः श्रिया वृतः ॥
KK04-04-069-003a तमासनगतं वीरं सुहृदां प्रीतिवर्धनम् ।
KK04-04-069-003c उपतस्थुः प्रकृतयः समन्ताद्ब्राह्मणैः सह ॥
KK04-04-069-004a सभाजितः सभासद्भिः प्रतिनन्द्य स मत्स्यराट् ।
KK04-04-069-004c विसर्जयामास तदा द्विजांश्च प्रकृतीस्तथा ॥
KK04-04-069-005a ततः स राजा मात्स्यानां विराटो वाहिनीपतिः ।
KK04-04-069-005c प्रविश्यान्तःपुरं रम्यं स्त्रीशतैरुपशोभितम् ।
KK04-04-069-005e उत्तरं तत्र नापश्यत्क्व यात इति चाब्रवीत् ॥
KK04-04-069-006a आचख्युस्तत्र संहृष्टाः स्त्रियः कन्याश्च वेश्मनि ।
KK04-04-069-006c अन्तःपुरचराश्चैव कुरुभिर्गोधनं हृतम् ॥
KK04-04-069-007a ताञ्जेतुमभिसंरब्ध एक एवातिसाहसात् ।
KK04-04-069-007c बृहन्नलासहायश्च निर्यातः पृथिवीञ्जयः ॥
KK04-04-069-008a उपयातानतिरथान्द्रोणं शान्तनवं कृपम् ।
KK04-04-069-008c कर्णं दुर्योधनं चैव द्रोणपुत्रं च षड्रथान् ॥
KK04-04-069-009a ततो विराटः परमाभितप्तः पुत्रं निशम्यैकरथेन यातम् ।
KK04-04-069-009c बृहन्नलासारथिमाजिमर्दनं प्रोवाच सर्वानथ मन्त्रिमुख्यान् ॥
KK04-04-069-010a गवां शतसहस्राणि उभिभूय ममात्मजम् ।
KK04-04-069-010c कुरवः कालयन्ति स्म सर्वे युद्धविशारदाः ॥
KK04-04-069-011a तस्माद्गच्छन्तु मे योधा बलेन महता वृताः ।
KK04-04-069-011c उत्तरस्य परीप्सार्थं ये त्रिगर्तैरविक्षताः ॥
KK04-04-069-012 वैशम्पायन उवाच
KK04-04-069-012a हयांश्च नागांश्च रथांश्च शीघ्रं वादित्रसङ्घांश्च ततः प्रभूतान् ।
KK04-04-069-012c प्रस्थापयामास सुतस्य हेतोर्विचित्रचित्राभरणोपपन्नान् ॥
KK04-04-069-013a एवं स राजा मात्स्यानां महानक्षोहिणीपतिः ।
KK04-04-069-013c व्यादिदेशाथ स क्षिप्रं वाहिनीं चतुरङ्गिणीम् ॥
KK04-04-069-014a कुमारमाशु जानीत यदि जीवति वा नवा ।
KK04-04-069-014c यस्य यन्ता गतः षण्डो मन्येऽहं स न जीवति ॥
KK04-04-069-015a तमब्रवीद्धर्मसुतो विराटमार्तं विदित्वा कुरुभिः प्रतप्तम् ।
KK04-04-069-015c बृहन्नला सारथिश्चेन्नरेन्द्र परे न नेष्यन्ति तवाद्य गाश्च ॥
KK04-04-069-016a सर्वान्महीपान्सहितान्कुरूंश्च तथैव देवासुरनागयक्षान् ।
KK04-04-069-016c अलं विजेतुं समरे सुतस्ते अनुष्ठितः सारथिना हि तेन ॥
KK04-04-069-017a सर्वथा कुरवश्चापि ये चान्ये वसुधाधिपाः ।
KK04-04-069-017c त्रिगर्तान्निर्जिताञ्श्रुत्वा न स्थास्यन्ति कथञ्चन ॥
KK04-04-069-018 वैशम्पायन उवाच
अथोत्तरेण प्रहिता दूतास्ते शीघ्रगामिनः । KK04-04-069-018a
विराटनगरं प्राप्य जयं प्रावेदयंस्तदा ॥ KK04-04-069-018c
राजानं वृतमाचख्युर्मन्त्रिभिर्जयमुत्तमम् । KK04-04-069-019a
पराजयं कुरूणां च उपायान्तं तथोत्तरम् ॥ KK04-04-069-019c
सर्वा विनिर्जिता गावः कुरवश्च पराजिताः । KK04-04-069-020a
उत्तरः सह सूतेन कुशली च परन्तपः ॥ KK04-04-069-020c
कङ्क उवाच KK04-04-069-021
दिष्ट्या ते निर्जिता गावः कुरवश्च पराजिताः । KK04-04-069-021a
दिष्ट्या ते विजयी पुत्रः श्रूयते पार्थिवर्षभ ॥ KK04-04-069-021c
नाद्भुतं त्विह मन्येऽहं यत्ते पुत्रोऽजयत्कुरून् । KK04-04-069-022a
ध्रुव एव जयस्तस्य यस्य यन्ता बृहन्नला ॥ KK04-04-069-022c
देवेन्द्रसारथिश्चैव मातलिः ख्यातविक्रमः । KK04-04-069-023a
कृष्णस्य सारथिश्चैव न बृहन्नलया समौ ॥ KK04-04-069-023c
वैशम्पायन उवाच KK04-04-069-024
ततो विराटो नृपतिः सम्प्रहृष्टतनूरुहः । KK04-04-069-024a
श्रुत्वा तु विजयं तस्य कुमारस्यामितौजसः । KK04-04-069-024c
सन्तोषयित्वा दूतांस्तान्धनरत्नैश्च सर्वशः ॥ KK04-04-069-024e
गते त्वनुजने तस्मिन्दूतवाक्यं निशम्य च । KK04-04-069-025a
उत्तरस्य जयात्प्रीतो विराटः प्रत्यभाषत ॥ KK04-04-069-025c
राजमार्गाः क्रियन्तां वै पताकाभिरलङ्कृताः । KK04-04-069-026a
पुष्पोपहारैरर्च्यन्तां देवताश्चापि सर्वशः ॥ KK04-04-069-026c
कुमारा योधमुख्याश्च गणिकाश्च स्वलङ्कृताः । KK04-04-069-027a
वादित्राणि च सर्वाणि प्रत्युद्यान्तु सुतं मम ॥ KK04-04-069-027c
भवन्तु ते लब्धजये सुते मे पौराश्च मर्त्याश्च परे च नार्यः । KK04-04-069-028a
ते शुक्लवस्त्राः प्रभवन्तु मार्गे सुगन्धमाल्याभरणाश्च नार्यः ॥ KK04-04-069-028c
भजन्तु सर्वा गणिकाः सुतं मे नार्यश्च कन्याः सहसैनिकाश्च । KK04-04-069-029a
स्वलङ्कृतास्ताः सुभगाः सुवेषाः पुत्रस्य पन्थानमनुव्रजन्तु ॥ KK04-04-069-029c
घण्टापणवकाः शीघ्रं मत्तमारुह्य कुञ्जरम् । KK04-04-069-030a
शृङ्गाटकेषु सर्वेषु समाख्यान्तु जयं मम ॥ KK04-04-069-030c
उत्तरा च कुमारीभिर्बह्वाभरणभूषिता । KK04-04-069-031a
सखीं विजितसङ्ग्रामां प्रत्युद्यातु बृहन्नलाम् ॥ KK04-04-069-031c
श्रुत्वा तु वचनं तस्य पार्थिवस्य महात्मनः । KK04-04-069-032a
तथैव चक्रुः संहृष्टाः पौराः स्वस्तिकपाणयः ॥ KK04-04-069-032c
सूताश्च सर्वे सहमागधाश्च हृष्टा विराटस्य पुरे जनौघाः । KK04-04-069-033a
भेर्यश्च तूर्याणि च वारिजाश्च वेषैः परार्ध्यैः प्रमदाजनाश्च ॥ KK04-04-069-033c
वन्दिप्रवादाः पणवादिकाश्च तथैव वाद्यानि च वंशशब्दाः । KK04-04-069-034a
कांस्यं सतालं मधुरं च गीतमादाय नार्यो नगरान्निरीयुः ॥ KK04-04-069-034c
प्रत्युद्ययुः पुत्रमनन्तवीर्यं ते ब्राह्मणाः शान्तिपराः प्रधानाः । KK04-04-069-035a
स्वाध्यायवेदाध्ययनक्रमज्ञाः स्वस्तिक्रियागीतजपप्रधानाः ॥ ॥ KK04-04-069-035c

इति श्रीमन्महाभारते विराटपर्वणि गोग्रहणपर्वणि एकोनसप्ततितमोऽध्यायः ॥