अध्यायः 067
सोपहासमर्जुनसमाहूतेन दुर्योधनेन पुनः परावृत्याभियानम् ॥ 1 ॥ भीष्मादिभिस्तद्रक्षणाय परितोऽवस्थानम् ॥ 2 ॥ अर्जुनेन तैः सह चिरम् प्रयुध्य पश्चात्सम्मोहनास्त्रप्रयोगः ॥ 3 ॥ उत्तरेणार्जुनचोदनयाऽस्त्रमोहितानां द्रोणादीनां वस्त्रापहरणम् ॥ 4 ॥ अर्जुनेन बाणैर्भीष्माद्यभिवादनम् ॥ 5 ॥
वैशम्पायन उवाच KK04-04-067-001
आहूयमानस्तु स तेन सङ्ख्ये महात्मना वै धृतराष्ट्रसूनुः। KK04-04-067-001a
निवर्तितश्चापि गिराङ्कुशेन गजो मदोन्मत्त इवाङ्कुशेन ॥ KK04-04-067-001c
सोमृष्यमाणो वचसाऽभिमृष्टो महारथेनातिरथस्तरस्वी । KK04-04-067-002a
ततः स पर्याववृते रथेन भोगी यथा पादतलाभिमृष्टः ॥ KK04-04-067-002c
ततो दुर्योधनः क्रुद्धो विक्षिपन्धनुरुत्तमम् । KK04-04-067-003a
धृतिं कृत्वा सुविपुलां प्रत्युवाच धनञ्जयम् ॥ KK04-04-067-003c
सोहमिन्द्रादभिक्रुद्धान्न बिभेमीह भारत । KK04-04-067-004a
भुक्त्वा सुविपुलं राज्यं वित्तानि च सुखानि च । KK04-04-067-004c
किमर्थं युद्धसमये पलायिष्ये नरोत्तम ॥ KK04-04-067-004e
एवमुक्त्वा महाराजः प्रत्ययुध्यत भारत । KK04-04-067-005a
सन्न्यवर्तत शीघ्राश्वस्तोत्रार्दित इव द्विपः ॥ KK04-04-067-005c
आक्रान्तभोगस्तेजस्वी धनुर्वक्र इवोरगः । KK04-04-067-006a
रथं रथेन सङ्गम्य योधयामास पाण्डवम् ॥ KK04-04-067-006c
तं प्रेक्ष्य कर्णः परिवर्तमानं निवृत्य संस्तम्भितसर्वगात्रम् । KK04-04-067-007a
दुर्योधनं दक्षिणतोऽन्वरक्षत्पार्थान्महाबाहुरधिज्यधन्वा ॥ KK04-04-067-007c
गान्धारराजः शकुनिर्निवृत्य द्रौणिश्च सर्वास्त्रविदां वरिष्ठः । KK04-04-067-008a
ररक्षतुः कौरवमभ्युपेत्य पार्थान्नृवीरौ युधि सव्यतश्च ॥ KK04-04-067-008c
भीष्मस्ततः शान्तनवो विवृत्य हिरण्यकक्ष्यांस्त्वरया तुरङ्गान् । KK04-04-067-009a
दुर्योधनं पश्चिमतो ररक्ष पार्थान्महाबाहुरधिज्यधन्वा ॥ KK04-04-067-009c
द्रोणः कृपश्चैव विविंशतिश्च दुःशासनश्चैव निवृत्य शीघ्रम् । KK04-04-067-010a
सर्वे पुरस्तात्प्रणिधाय बाणान्दुर्योधनार्थं त्वरिताऽभ्युपेयुः ॥ KK04-04-067-010c
सर्वाण्यनीकानि निवर्तितानि सम्प्रेक्ष्य पूर्णौघनिभानि पार्थः । KK04-04-067-011a
हंसो महामेघमिवापतन्तं धनञ्जयः प्रत्यपतत्तरस्वी ॥ KK04-04-067-011c
ते सर्वतः सम्परिवार्य पार्थमस्त्राणि दिव्यानि समाददानाः । KK04-04-067-012a
ववर्षुरभ्येत्य शरैः समग्रैर्मेघा यथा भूधरमम्बुवेगैः ॥ KK04-04-067-012c
ततोऽस्त्रमस्त्रेण निवार्य तेषां गाण्डीवधन्वा कुरुपुङ्गवानाम् । KK04-04-067-013a
सम्मोहनं शत्रुसहोऽन्यदस्त्रं प्रादुश्चकारैन्द्रमवारणीयम् ॥ KK04-04-067-013c
ततो दिशश्चानुदिशो निवार्य शरैः सुघोरैर्निशितैः सुपुङ्खैः । KK04-04-067-014a
गाण्डीवशब्देन मनांसि तेषां महाबलं प्रव्थयाञ्चकार ॥ KK04-04-067-014c
ततः पुनर्भीमरवं निगृह्य दोर्भ्यां महाशङ्खमुदारघोषम् । KK04-04-067-015a
व्यनादयन्सम्प्रदिशो दिशः खं भुवं च पार्थो द्विषतां निहन्ता ॥ KK04-04-067-015c
सम्मोहनास्त्रप्रभवैः शरौघैर्विनष्टदेहाश्च निपत्य योधाः । KK04-04-067-016a
निःसत्ववेगाः कुरुराजसैन्याः कुड्योपमास्तस्थुरनीहमानाः ॥ KK04-04-067-016c
ते शङ्खनादेन कुरुप्रवीराः सम्मोहिताः पार्थसमीरितेन । KK04-04-067-017a
उत्सृज्य चापानि दुरासदानि सर्वे तदा मोहपरा बभूवुः ॥ KK04-04-067-017c
ततो विसञ्ज्ञानि परेषु पार्थः संस्मृत्य सन्देशमथोत्तरायाः । KK04-04-067-018a
निर्याहि वाहादिति मात्स्यपुत्रमुवाच यावत्कुरवो विसञ्ज्ञाः ॥ KK04-04-067-018c
आचार्यशारद्वतयोः सुशुक्ले कर्णस्य पीतं रुचिरं च वस्त्रम् । KK04-04-067-019a
द्रौणेश्च राज्ञश्च तथैव नीले वस्त्रे समादत्स्व नरप्रवीर ॥ KK04-04-067-019c
भीष्मस्य सञ्ज्ञां तु तथैव मन्ये जानाति मेऽस्त्रप्रतिघातमेषः । KK04-04-067-020a
एतस्य वाहान्कुरु सव्यतस्त्वमेवं प्रयातव्यममूढसञ्ज्ञैः ॥ KK04-04-067-020c
रश्मीन्समुत्सृज्य ततो महात्मा रथादवप्लुत्य विराटपुत्रः । KK04-04-067-021a
वस्त्राण्युपादाय महारथानां नानाविधान्यद्भुतवर्णकानि ॥ KK04-04-067-021c
महान्ति चीनांशुदुकूलकानि पट्टांशुकानि विविधानि मनोज्ञकानि । KK04-04-067-022a
हारांश्च राज्ञां मणिभूषणानि सुवर्णनिष्काभरणानि मारिष ॥ KK04-04-067-022c
माणिक्यबाह्वङ्गदकङ्कणानि अन्यानि राज्ञां मणिभूषणानि । KK04-04-067-023a
वस्त्राण्युपादाय महारथानां तूर्णं पुनः स्वं रथमारुरोह ॥ KK04-04-067-023c
राज्ञश्च सर्वान्कृतसन्निकाशान्सम्मोहनास्त्रेण विसञ्ज्ञकल्पान् । KK04-04-067-024a
नासाग्रविन्यस्तकराङ्गुलीकः पार्थो जहास स्मयमानचेताः ॥ KK04-04-067-024c
ततोऽन्वशात्तांश्चतुरः सदश्वान्पुत्रो विराटस्य हिरण्यकक्ष्यान् । KK04-04-067-025a
ते तद्व्यतीयुर्द्विषतामनीकं श्वेता वहन्तोऽर्जुनमाजिमध्यात् ॥ KK04-04-067-025c
तथा प्रयान्तं पुरुषप्रवीरं भीष्मः शरैरभ्यहनत्तरस्वी । KK04-04-067-026a
स चापि भीष्मस्य हयान्निहत्य विव्याध भीष्मं दशभिः पृषत्कैः ॥ KK04-04-067-026c
ततोऽर्जुनो भीष्ममपास्य युद्धे विद्ध्वाऽस्य यन्तारमरिष्टधन्वा । KK04-04-067-027a
तस्थौ विमुक्तो रथवृन्दमध्याद्राहुं विदार्येव सहस्ररश्मिः ॥ KK04-04-067-027c
लब्ध्वा तु सञ्ज्ञां पुरुषप्रवीरः पार्थं निरीक्ष्याथ महेन्द्रकल्पम् । KK04-04-067-028a
रणात्प्रमुक्तं पुरुषप्रवीरं स धार्तराष्ट्रस्त्वरितो बभाषे ॥ KK04-04-067-028c
अयं कथञ्चिद्भवतो विमुक्तस्तं वै प्रबध्नीत यथा न मुच्येत् । KK04-04-067-029a
तमब्रवीच्छान्तनवः प्रहस्य क्व ते गता बुद्धिरभूत्क्व वीर्यम् ॥ KK04-04-067-029c
शान्तिं परां प्राप्य यथा स्थितस्त्वमुत्सृज्य बाणांश्च धनुश्च चित्रम् । KK04-04-067-030a
न त्वेव बीभत्सुरलं नृशंसं कर्तुं न पापेऽस्य मनो निविष्टम् ॥ KK04-04-067-030c
जह्यान्न धर्मं त्रिदिवस्य हेतोः सर्वे तु तस्मान्न हता रणेऽस्मिन् । KK04-04-067-031a
क्षिप्रं कुरून्याहि कुरुप्रवीर विजित्य गाश्च प्रतियातु पार्थः ॥ KK04-04-067-031c
सम्मोहनास्त्रप्रतिमोहिताः स्थ यूयं न जानीथ धनापहारम् । KK04-04-067-032a
पश्यामि वस्त्राभरणानि राजन्विराटपुत्रेण समाहृतानि ॥ KK04-04-067-032c
नृपेषु सर्वेषु च मोहितेषु हन्तुं यदीच्छेत्स हनिष्यतीति । KK04-04-067-033a
तदा तु धर्मात्मतया नृवीरो न चाहनद्वो बलभित्तनूजः ॥ KK04-04-067-033c
भाग्येन युष्मानवधीन्न पार्थः सन्धिं कुरूणामनुमन्यमानः । KK04-04-067-034a
तद्यात यूयं सहसैनिकैस्तैर्हतावशिष्टैर्गजसाह्वयं पुरुम् ॥ KK04-04-067-034c
वैशम्पायन उवाच KK04-04-067-035
दुर्योधनस्तस्य निशम्य वाक्यं पितामहस्यात्महितं प्रशस्य । KK04-04-067-035a
अतीतकामो युधि सोऽत्यमर्षी राजा विनिश्वस्य बभूव तूष्णीम् ॥ KK04-04-067-035c
तद्भीष्मवाक्यं हि निशम्य सर्वे धनञ्जयाग्निं च विवर्धमानम् । KK04-04-067-036a
निवर्तनायैव मतिं निदध्युर्दुर्योधनं तं परिरक्षमाणाः ॥ KK04-04-067-036c
तान्प्रस्थितान्प्रीतमनाः समर्थो धनञ्जयः सर्वकुरुप्रवीरः । KK04-04-067-037a
आमन्त्र्य वीरोऽनुययौ मुहूर्तं गाण्डीवघोषेण विनद्य लोकम् ॥ KK04-04-067-037c
तेषामनीकानि निरीक्ष्य पार्थो विकीर्णयानध्वजकार्मुकाणि । KK04-04-067-038a
गाण्डीवधन्वा प्रहसन्कुरूणां शङ्खं प्रदध्मौ बलवान्बलेन ॥ KK04-04-067-038c
ते शङ्खशब्दं तुमुलं निशम्य ध्वजस्य शब्दं च ततोऽन्तरिक्षे । KK04-04-067-039a
गाण्डीवशब्देन मुहुर्मुहुस्ते भीता ययुः सर्वधनं विहाय ॥ KK04-04-067-039c
तानर्जुनो दूरतरं विभज्य धनं च सर्वं निखिलं निवर्त्य । KK04-04-067-040a
आपृच्छ्य तान्दूरमनुप्रयात्वा धनञ्जयस्तत्र कुरून्महात्मा । KK04-04-067-040c
गुरूंश्च सर्वानभिवाद्य बाणैर्न्यवर्ततोदग्रमनाः शरैः सह ॥ KK04-04-067-040e
पितामहं शान्तनवं महात्मा द्वाभ्यां शराभ्यामभिवाद्य वीरः । KK04-04-067-041a
द्रोणं कृपं चैव कुरूंश्च मान्याञ्शरैश्च सर्वानभिवाद्य सङ्ख्ये । KK04-04-067-041c
दुर्योधनस्योत्तमरत्नचित्रं चिच्छेद पार्थो मकुटं शरौघैः ॥ KK04-04-067-041e
अराजवंशस्य किमर्थमेतन्नित्यं न धार्यं मकुटं त्वयेति । KK04-04-067-042a
सम्पातितं भूमितले सरत्नं प्रीतस्ततो मात्स्यसुतो बभूव ॥ KK04-04-067-042c
धनञ्जयं नागमिव प्रभिन्नं विजित्य शत्रून्परिवर्तमानम् । KK04-04-067-043a
गास्ता विजित्याभिमुखं प्रयान्तं न शक्नुवन्तः कुरवः प्रयाताः ॥ KK04-04-067-043c
धनञ्जयं सिंहमिवात्तशस्त्रं गा वै विजित्याभिमुखं प्रयान्तम् । KK04-04-067-044a
उदीक्षितुं पार्थिवास्ते न शेकुर्यथैव मध्याह्नगतं हि सूर्यम् ॥ KK04-04-067-044c
रक्तानि वासांसि च तानि गृह्य रणोत्कटो नाग इव प्रभिन्नः । KK04-04-067-045a
जित्वा च वैराटिमुवाच पार्थः प्रहृष्टरूपो रथिनां वरिष्ठः ॥ KK04-04-067-045c
आवर्तयाश्वान्पशवो जितास्ते याताः परे प्रैहि पुरं प्रहृष्टः । KK04-04-067-046a
उद्घुष्यतां ते विजयोऽद्य शीघ्रं गात्रं तु ते सेवतु माल्यगन्धः । KK04-04-067-046c
माता तु ते नन्दतु बान्धवाश्च त्वामद्य दृष्ट्वा समुदीर्णहर्षम् ॥ ॥ KK04-04-067-046e
इति श्रीमन्महाभारते विराटपर्वणि गोग्रहणपर्वणि सप्तषष्टितमोऽध्यायः ॥
4-67-11 पूर्णौघनिभानि पूर्वनदीप्रवाहसदृशानि ॥ 11 ॥ 4-67-16 अनीहमानाः अचेष्टमानाः ॥ 16 ॥ 4-67-18 यावद्विसञ्ज्ञास्तावन्निर्याहीत्यध्याहारेण योजना ॥ 18 ॥ 4-67-19 आदस्त्व गृहाण ॥ 19 ॥ 4-67-20 अमूढसञ्ज्ञैः अस्माभिरिति शेषः । सव्यतस्त्वमेवं हि धर्ममाहुर्जितस्येति ध. पाठः ॥ 20 ॥ 4-67- 25 सन्निकाशान् कृतं कृतकं प्रतिमादि निश्चेष्टतया तत्सदृशानित्यर्थः ॥ 25 ॥ 4-67-45 स्मित्वा च वैराटिमुवाचेति पाठान्तरम् ॥ 45 ॥