अध्यायः 066

अर्जुनेन भीतमुत्तरम् प्रति समाश्वासनपूर्वकं दुर्योधनम् प्रति रथयापनचोदना ॥ 1 ॥ तथा स्वबाणाभिघातासहनेन पलायमानं तम् प्रति सोपहासमाह्वानम् ॥ 2 ॥ अर्जुन उवाच KK04-04-066-001
दक्षिणामेव तु दिशं हयानुत्तर वाहय । KK04-04-066-001a
पुरा सार्थी भवत्येषामयं शब्दोऽत्र तिष्ठताम् ॥ KK04-04-066-001c
अश्वत्थाम्नः प्रतिरथं प्राचीमुद्याहि सारथे । KK04-04-066-002a
अचिराद्द्रष्टुमिच्छामि गुरुपुत्रं यशस्विनम् ॥ KK04-04-066-002c
वैशम्पायन उवाच KK04-04-066-003
मोहयित्वा तु तान्सर्वान्धनुर्घोषेण पाण्डवः । KK04-04-066-003a
प्रसव्यं चैवमावृत्य क्रोशार्धं प्राद्रवत्तदा ॥ KK04-04-066-003c
यथा सततगो वायुः सुपर्णश्चापि शीघ्रगः । KK04-04-066-004a
तथा पार्थरथः शीघ्रमाकाशे पर्यवर्तत ॥ KK04-04-066-004c
मुहूर्तोपरते शब्दे प्रतियाते धनञ्जये । KK04-04-066-005a
हस्त्यश्वरथपादातं पुरस्कृत्य महारथाः ॥ KK04-04-066-005c
द्रोणभीष्ममुखाः सर्वे सैन्यानां जघने ययुः । KK04-04-066-006a
यत्ताः पार्थमपश्यन्तः सहिताः शरविक्षताः ॥ KK04-04-066-006c
सैनिका ऊचुः KK04-04-066-007
दिष्ट्या दुर्योधनो मुक्तः सैन्यं भूयिष्ठमागतम् । KK04-04-066-007a
क्रोशमात्रमतिक्रम्य बलमन्वानयामहे । KK04-04-066-007c
यात यत्र वनं गुल्मं नदीमन्वश्मकां प्रति ॥ KK04-04-066-007e
वैशम्पायन उवाच KK04-04-066-008
अथ दुर्योधनो दृष्ट्वा भग्नं स्वं बलमाहवे । KK04-04-066-008a
अमृष्यमाणः क्रोधेन प्रतिमार्गन्धनञ्जयम् ॥ KK04-04-066-008c
न्यवर्तत कुरुश्रेष्ठ स्वेनानीकेन संवृतः । KK04-04-066-009a
वार्यमाणो दुराधर्षैर्भीष्मद्रोणकृपैर्भृशम् ॥ KK04-04-066-009c
ततोऽर्जुनश्चित्रमुदारवेगं समीक्ष्य गाण्डीवमुवाच वाक्यम् । KK04-04-066-010a
भोगीन्द्रकल्पं भुवनेषु रूढमभेद्यमच्छेद्यमदाह्यमाजौ ॥ KK04-04-066-010c
इदं त्विदानीमनयं कुरूणां शिवं धनुः शत्रुनिबर्हणं च । KK04-04-066-011a
अत्याशुगं वेगवदाशुकर्तृ अवारणीयं महते रणाय ॥ KK04-04-066-011c
प्रदारणं शत्रुवरूथिनीनामनीकजित्संयति वज्रकल्पम् । KK04-04-066-012a
वैधव्यदं शत्रुनितम्बिनीनां मुखप्रदं कौरववंशजानाम् ॥ KK04-04-066-012c
प्रयाहि यत्रैष सुयोधनो हि तं पातयिष्यामि शरैः सुतीक्ष्णैः । KK04-04-066-013a
आचार्यपुत्रं च सुयोधनं च पितामहं सूतसुतं च सङ्ख्ये । KK04-04-066-013c
द्रोणं कृपं चैव निवार्य सर्वाञ्शिरो हरिष्यामि सुयोधनस्य ॥ KK04-04-066-013e
वैशम्पायन उवाच KK04-04-066-014
तदुत्तरश्चित्रमुदारवेगं धनुश्च दृष्ट्वा निशिताञ्शरांश्च । KK04-04-066-014a
भीतोऽब्रवीदर्जुनमाजिमध्ये नाहं तवाश्वान्विषहे नियन्तुम् ॥ KK04-04-066-014c
तमब्रवीन्मात्स्यसुतं प्रहस्य गाण्डीवधन्वा द्विषतां निहन्ता । KK04-04-066-015a
मया सहायेन कुतो भयं ते प्रेह्युत्तराश्वानुपमन्त्रयस्व ॥ KK04-04-066-015c
आश्वासितस्तेन धनञ्जयेन वैराटिरश्वानतुदज्जवेन । KK04-04-066-016a
विष्फारयंस्तद्धनुरुग्रवेगं युयुत्समानः पुनरेव जिष्णुः ॥ KK04-04-066-016c
गाण्डीवशब्देन तु तत्रतत्र भूमौ निषेदुर्बहवोऽतिवेलम् । KK04-04-066-017a
शङ्खस्य शब्देन तु वानरस्य शब्देन ते योधवराः समन्तात् ॥ KK04-04-066-017c
अर्जुन उवाच KK04-04-066-018
एषोऽतिमानी धृतराष्ट्रपुत्रः सेनामुखे सर्वसमृद्धतेजाः । KK04-04-066-018a
पराजयं नित्यममृष्यमाणो निवर्तते युद्धमनाः पुरस्तात् ॥ KK04-04-066-018c
तमेव याहि प्रसमीक्ष्य युक्तः सुयोधनं तत्र सहानुजं च ॥ KK04-04-066-019ac
वैशम्पायन उवाच KK04-04-066-020
तमापतन्तं प्रसमीक्ष्य सर्वे कुरुप्रवीराः सहसाऽभ्यगच्छन् । KK04-04-066-020a
प्रहस्य वीरः स तु तानतीत्य दुर्योधने द्वौ निचखान बाणौ ॥ KK04-04-066-020c
तेनार्दितो नाग इव प्रभिन्नः पार्थेन विद्धो धृतराष्ट्रपुत्रः । KK04-04-066-021a
युयुत्समानोऽतिरथेन सङ्ख्ये स्वयं विगृह्यार्जुनमाससाद ॥ KK04-04-066-021c
स भीमधन्वानमुदग्रवेगो धनञ्जयं शत्रुशतैरजेयम् । KK04-04-066-022a
आकर्णपूर्णायतचोदितेन भल्लेन विव्याध ललाटमध्ये ॥ KK04-04-066-022c
स तेन बाणेन समर्पितेन जाम्बूनदाभेन सुसंहितेन । KK04-04-066-023a
रराज पार्थो रुधिरं क्षरन्वै यथैकरश्मिर्भगवान्दिवार्कः ॥ KK04-04-066-023c
अथास्य बाणेन विदारितस्य प्रादुर्बभूवास्रमजस्रमुष्णम् । KK04-04-066-024a
सा तस्य जाम्बूनदपुष्पचित्रा मालेव धाराऽभिविराजते स्म ॥ KK04-04-066-024c
स तेन बाणाभिहतस्तरस्वी दुयोधनेनोद्धतमन्युवेगः । KK04-04-066-025a
शरानुपादाय विषाग्निकल्पान्विव्याध राजानमदीनसत्वः ॥ KK04-04-066-025c
दुर्योधनश्चापि तमुग्रतेजाः पार्थश्च दुर्योधनमेकवीरः । KK04-04-066-026a
अन्योन्यमाजौ पुरुषप्रवीरौ समं समाजघ्नतुराजमीढौ ॥ KK04-04-066-026c
ततः प्रभिन्नेन महागजेन महीधराभेन पुनर्विकर्णः । KK04-04-066-027a
रथैश्चतुर्भिर्गजपादरक्षैः कुन्तीसुतं पाण्डवमभ्यधावत् ॥ KK04-04-066-027c
तमापतन्तं त्वरितं गजेन्द्रं धनञ्जयः कुम्भललाटमध्ये । KK04-04-066-028a
आकर्णपूर्णेन दृढायसेन बाणेन विव्याध भृशं तु वीरः ॥ KK04-04-066-028c
पार्थेन सृष्टः स तु गृध्रपत्रो ह्यापुङ्खदेशं प्रविवेश नागम् । KK04-04-066-029a
विदार्य शैलप्रवरप्रकाशं यथाऽशनिः पर्वतमिन्द्रसृष्टः ॥ KK04-04-066-029c
शरप्रतप्तः स तु नागराजः प्रवेपिताङ्गो व्यथितान्तरात्मा । KK04-04-066-030a
संसीदमानो निपपात भूमौ वज्राहतं शृङ्गमिवाचलस्य ॥ KK04-04-066-030c
निपातिते दन्तिवरे पृथिव्यां त्रासाद्विकर्णः सहसाऽवतीर्य । KK04-04-066-031a
तूर्णं पदान्यष्टशतानि गत्वा विविंशतेः स्यन्दनमारुरोह ॥ KK04-04-066-031c
निहत्य नागं तु शरेण तेन वज्रोपमेनाद्रिवरप्रकाशम् । KK04-04-066-032a
तथाविधेनैव शरेण पार्थो दुर्योधनं वक्षसि निर्बिभेद ॥ KK04-04-066-032c
हते गजे राजनि चैव भिन्ने भग्ने विकर्णे च सपादरक्षे । KK04-04-066-033a
गाण्डीवमुक्तैर्विशिखैः प्रभिन्नास्ते योधमुख्याः सहसा प्रजग्मुः ॥ KK04-04-066-033c
दृष्ट्वैव बाणेन हतं च नागं योधांश्च सर्वान्नृपतिर्निरीक्ष्य । KK04-04-066-034a
रथं समावृत्य कुरप्रवीरो रणात्प्रदुद्राव यतो न पार्थः ॥ KK04-04-066-034c
तं भीतरूपं त्वरितं व्रजन्तं दुर्योधनं शत्रुगणावमर्दी । KK04-04-066-035a
अन्वाह्वयद्योद्धुमनाः किरीटी बाणाभिविद्धं रुधिरं वमन्तम् ॥ KK04-04-066-035c
तस्मिन्महेष्वासवरेऽतिविद्धे धनञ्जयेनाप्रतिमेन युद्धे । KK04-04-066-036a
सर्वाणि सैन्यानि भयार्दितानि त्रासं ययुः पार्थमुदीक्ष्य तानि ॥ KK04-04-066-036c
ततस्तु ते शान्तिपराश्च सर्वे दृष्ट्वाऽर्जुनं नागमिव प्रभिन्नम् । KK04-04-066-037a
उच्चैर्नदन्तं बलमत्तमाजौ मध्ये स्थितं सिंहमिवर्षभाणाम् ॥ KK04-04-066-037c
गाण्डीवशब्देन तु पाण्डवस्य योधा निपेतुः सहसा रथेभ्यः । KK04-04-066-038a
भयार्दिताः पार्थशराभितप्ताः सिंहाभिपन्ना इव वारणेन्द्राः ॥ KK04-04-066-038c
संरक्तनेत्रः पुनरिन्द्रकर्मा वैकर्तनं द्वादशभिः पृषत्कैः । KK04-04-066-039a
वित्रास्य तेषां द्रवतां समैक्षद्दुःशासनं चैकरथेन पार्थः ॥ KK04-04-066-039c
कर्णोऽब्रवीत्पार्थशराभितप्तो दुर्योधनं दुष्प्रसहं च दृष्ट्वा । KK04-04-066-040a
दृष्टोऽर्जुनोऽयं प्रतियाम शीघ्रं श्रेयो विधास्याम इतो गतेन ॥ KK04-04-066-040c
मन्ये त्वया तात कृतं च कार्यं यदर्जुनोऽस्माभिरिहाद्य दृष्टः । KK04-04-066-041a
भूयो वनं गच्छतु सव्यसाची पश्यामि पूर्णं समयं न तेषाम् ॥ KK04-04-066-041c
वैशम्पायन उवाच KK04-04-066-042
शरार्दितास्ते युधि पाण्डवेन प्रसस्रुरन्योन्यमथाह्वयन्तः । KK04-04-066-042a
कर्णोऽब्रवीदापतत्येष जिष्णुर्दुर्योधनं सम्परिवार्य यामः ॥ KK04-04-066-042c
सर्वास्त्रविद्वारणयूथपाभः काले प्रहर्ता युधि शात्रवाणाम् । KK04-04-066-043a
अयं च पार्थः पुनरागतो नो मूलं च रक्ष्यं भरतर्षभाणाम् ॥ KK04-04-066-043c
समीक्ष्य पार्थं तरसाऽऽपतन्तं दुर्योधनः कालमिवात्तशस्त्रम् । KK04-04-066-044a
भयार्तरूपः शरणं प्रपेदे द्रोणं च कर्णं च कृपं च भीष्मम् ॥ KK04-04-066-044c
तं भीतरूपं शरणं व्रजन्तं दुर्योधनं शत्रुसहो निषङ्गी । KK04-04-066-045a
इत्यब्रवीत्प्रीतमनाः किरीटी बाणाभितप्तं रुधिरं वमन्तम् ॥ KK04-04-066-045c
विहाय कीर्तिं च यशश्च लोके युद्धात्परावृत्य पलायसे किम् । KK04-04-066-046a
न नन्दयिष्यन्ति तवाहतानि तूर्याणि युद्धादवरोपितस्य ॥ KK04-04-066-046c
न भोक्ष्यसे सोऽद्य महीं समग्रां यानानि वस्त्राण्यथ भोजनानि । KK04-04-066-047a
कल्याणगन्धीनि च चन्दनानि युद्धात्परावृत्य तु भोक्ष्यसे किम् । KK04-04-066-047c
सुवर्णमाल्यानि च कुण्डलानि हारांश्च वैडूर्यकृतोपधानान् ॥ KK04-04-066-047e
च्युतस्य युद्धान्न तु शङ्खशब्दास्तथा भविष्यन्ति तवाद्य पाप । KK04-04-066-048a
न भोगहेतोर्वरचन्दनं च स्त्रियश्च मुख्या मधुरप्रलापाः । KK04-04-066-048c
युद्धात्प्रयातस्य नरेन्द्रसूनो परे च लोके फलिता न चेह ॥ KK04-04-066-048e
युधिष्ठिरस्यास्मि निदेशकारी पार्थस्तृतीयो युधि च स्थिरोस्मि । KK04-04-066-049a
तदर्थमावृत्य मुखं प्रयच्छ नरेन्द्रवृत्तं स्मर धार्तराष्ट्र ॥ KK04-04-066-049c
मोघं तवैतद्भुवि नामधेयं दुर्योधनेतीह कृतं पुरस्तात् । KK04-04-066-050a
दुर्योधनस्त्वं प्रथितोसि नाम्ना सुयोधनः सन्निकृतिप्रधानः । KK04-04-066-050c
न ते पुरस्तादथ पृष्ठतो वा पश्यामि दुर्योधन रक्षितारम् । KK04-04-066-051a
परीप्स युद्धेन कुरुप्रवीर प्राणान्मया बाणबलाभितप्तान् ॥ ॥ KK04-04-066-051c

इति श्रीमन्महाभारते विराटपर्वणि गोग्रहणपर्वणि षट्षष्टितमोऽध्यायः ॥

4-66-50 सुयोधनस्त्वं निकृतिप्रधान इति ख. पाठः ॥ 50 ॥