अध्यायः 065

अर्जुनेनोत्तरम् प्रति भीष्मादिसकाशे रथप्रापणप्रेरणापूर्वकं तदाप्यायनाय स्वपराक्रमप्रकथनम् ॥ 1 ॥ तदा दुःशासनादिपराभवनपूर्वकम् भीष्मादिभिः सहायोधनम् ॥ 2 ॥ वैशम्पायन उवाच KK04-04-065-001
कर्णं पराजितं दृष्ट्वा पार्थो वैराटिमब्रवीत् । KK04-04-065-001a
एतं मां प्रापयेदानीं रथवृन्दं प्रहारिणाम् ॥ KK04-04-065-001c
यत्र शान्तनवो भीष्मः सर्वेषां नः पितामहः । KK04-04-065-002a
सुयुद्धं काङ्क्षमाणो वै रथे तिष्ठति दंशितः ॥ KK04-04-065-002c
तालो वै काञ्चनो यत्र वज्रवैडूर्यभूषितः । KK04-04-065-003a
अतीव समरे भाति मातरिश्वप्रकम्पितः ॥ KK04-04-065-003c
दारुणं प्रहरिष्यामि रथवृन्दानि धन्विनाम् । KK04-04-065-004a
आदास्याम्यहमेतेषां धनुर्ज्यावेष्टनानि च ॥ KK04-04-065-004c
अस्यन्तं दिव्यमस्त्राणि चित्रमुत्तर पश्यसि ॥ KK04-04-065-005ac
शतह्रदां जृम्भमाणां मेघस्थां प्रावृषीव च । KK04-04-065-006a
सुवर्णपृष्ठं गाण्डीवं पश्यन्तु कुरवो मम ॥ KK04-04-065-006c
दक्षिणेनाथ वामेन कतमेन स्विदस्यति । KK04-04-065-007a
इति मां शत्रवः सर्वे न विज्ञास्यन्ति सारथे ॥ KK04-04-065-007c
अस्त्रोदकां हयावर्तां नागनक्रां रथह्रदाम् । KK04-04-065-008a
नदीं प्रस्कन्दयिष्यामि परलोकापहारिणीम् ॥ KK04-04-065-008c
पाणिपादशिरःपृष्ठबाहुशङ्खचराचरम् । KK04-04-065-009a
वनं कुरूणां छेत्स्यामि भल्लैः सन्नतपर्वभिः ॥ KK04-04-065-009c
तूणीशयाः सुपुङ्खाग्रा विशिखा दुन्दुभिस्वनाः । KK04-04-065-010a
मया प्रमुक्ताः सङ्ग्रामे कुरून्धक्ष्यन्ति सायकाः ॥ KK04-04-065-010c
ध्वजवृक्षं शरतृणं नागाश्वश्वापदाकुलम् । KK04-04-065-011a
रथसिंहगणैर्युक्तं धनुर्वल्लिसमाकुलम् । KK04-04-065-011c
वनमादीपयिष्यामि कुरूणामस्त्रतेजसा ॥ KK04-04-065-011e
जयतो भारतीं सेनामेकस्य मम संयुगे । KK04-04-065-012a
शतं मार्गा भविष्यन्ति पावकस्येव कानने ॥ KK04-04-065-012c
मया चक्रमिवाविद्धं सैन्यं द्रक्ष्यसि केवलम् । KK04-04-065-013a
तानहं रथनीडेभ्यः परलोकाय शात्रवान् । KK04-04-065-013c
एकः प्रद्रावयिष्यामि चक्रपाणिरिवासुरान् ॥ KK04-04-065-013e
असम्भ्रान्तो रथे तिष्ठन्समेषु विषमेषु च । KK04-04-065-014a
मार्गमावृत्य तिष्ठन्तमपि भेत्स्यामि पर्वतम् ॥ KK04-04-065-014c
अहमिन्द्रस्य सङ्ग्रामे द्विषतो बलदर्पितान् । KK04-04-065-015a
मातलिं सारथिं कृत्वा निवातकवचान्रणे । KK04-04-065-015c
हतवान्सर्वतः सर्वान्धावतो युध्यतस्तदा ॥ KK04-04-065-015e
निवातकवचान्हत्वा गाण्डीवास्त्रैः सहस्रशः । KK04-04-065-016a
परं पारे समुद्रस्य हिरण्यपुरमारुजम् ॥ KK04-04-065-016c
हत्वा षष्टिसहस्राणि रथानामुग्रधन्विनाम् । KK04-04-065-017a
पौलोमान्कालकेयांश्च समरे भृशदारुणान् । KK04-04-065-017c
असुरानहनं घोरान्रौद्रेणास्त्रेण सारथे ॥ KK04-04-065-017e
अहमिन्द्राद्दृढां मुष्टिं ब्रह्मणः क्षिप्रहस्तताम् । KK04-04-065-018a
प्रगाढनिपुणं चित्रमतिवृद्धं प्रजापतेः ॥ KK04-04-065-018c
रौद्रं रुद्रादहं वेद्मि वारुणं वरुणादपि । KK04-04-065-019a
सौर्यं सूर्यादहं वेद्मि याम्यं दण्डधरादपि ॥ KK04-04-065-019c
अस्त्रमाग्नेयमग्नेश्च वायव्यं मातरिश्वनः । KK04-04-065-020a
अन्यैर्देवैरहं प्राप्तः को मां विषहते पुमान् ॥ KK04-04-065-020c
अद्य गाण्डीवनिर्मुक्तैःशरौघै रोमहर्षणैः । KK04-04-065-021a
कुरूणां पातयिष्यामि रथवृन्दानि धन्विनाम् ॥ KK04-04-065-021c
वैशम्पायन उवाच KK04-04-065-022
एवमाश्वासितस्तेन वैराटिः सव्यसाचिना । KK04-04-065-022a
व्यगाहत रथानीकं भीमं भीष्मस्य वाजिभिः ॥ KK04-04-065-022c
रथिसिंहमनाधृष्यं जिगीषन्तं परान्रणे । KK04-04-065-023a
अभ्यधावत्तदैवोग्रो ज्यां विकर्षन्धनञ्जयः ॥ KK04-04-065-023c
दुःशासनोऽभ्ययात्तूर्णमर्जुनं भरतर्षभ ॥ KK04-04-065-024ac
अन्येऽपि चित्राभरणा युवानो मृष्टकुण्डलाः । KK04-04-065-025a
अभ्ययुर्भीमधन्वानो मौर्वीं पर्यस्य बाहुभिः ॥ KK04-04-065-025c
दुःशासनो विकर्णश्च वृषसेनो विविंशतिः । KK04-04-065-026a
अभीता भीमधन्वानं पाण्डवं पर्यवारयन् ॥ KK04-04-065-026c
तस्य दुःशासनः षष्टिं वामपार्श्वे समार्पयत् । KK04-04-065-027a
अस्यतः प्रतिसन्धाय कुन्तीपुत्रस्य धीमतः ॥ KK04-04-065-027c
पुनश्चैव स भल्लेन विद्ध्वा वैराटिमुत्तरम् । KK04-04-065-028a
द्वितीयेनार्जुनं वीरं प्रत्यविध्यत्स्तनान्तरे ॥ KK04-04-065-028c
तस्य जिष्णुरुदावृत्य क्षुरधारेण कार्मुकम् । KK04-04-065-029a
प्राकृन्तद्गृध्रपत्रेण जातरूपपरिष्कृतम् ॥ KK04-04-065-029c
अथैनं पञ्चभिर्बाणैः प्रत्यविध्यत्स्तनान्तरे । KK04-04-065-030a
सोपयातो रथोपस्थात्पार्थबाणाभिपीडितः ॥ KK04-04-065-030c
सर्वा दिशश्चाभ्यपतद्बीभत्सुरपराजितः । KK04-04-065-031a
तं विकर्णः शरैस्तीक्ष्णैर्गृध्रपक्षैः शिलाशितैः । KK04-04-065-031c
विव्याध परवीरध्नमर्जुनं धृतराष्ट्रजः ॥ KK04-04-065-031e
ततस्तमपि कौन्तेयः शरेण नतपर्वणा । KK04-04-065-032a
ललाटेऽभ्यहनद्गाढं स विद्धः प्राद्रवद्भयात् ॥ KK04-04-065-032c
ततः पार्थमुपाद्रुत्य दुस्सहः सविविंशतिः । KK04-04-065-033a
अवाकिरच्छरैस्तीक्ष्णैः परीप्सन्भ्रातरं रणे ॥ KK04-04-065-033c
तावुभौ गृध्रपत्राभ्यां निशिताभ्यां धनञ्जयः । KK04-04-065-034a
विव्याध युगपद्व्यग्रस्तयोर्वाहानसूदयत् ॥ KK04-04-065-034c
तौ हताश्वौ तु विद्धाङ्गौ धृतराष्ट्रात्मजावुभौ । KK04-04-065-035a
अभिपत्य रथैरन्यैरपनीतौ पदानुगैः ॥ KK04-04-065-035c
व्यद्रावयदशेषांश्च धृतराष्ट्रसुतांस्तदा । KK04-04-065-036a
विद्राव्य च रणे पार्थो रणभूमिं व्यराजयत् ॥ KK04-04-065-036c
किरीटमाली कौन्तेयो लब्धलक्षः प्रतापवान् । KK04-04-065-037a
पातयन्नुत्तमाङ्गानि बाहूश्च परिघोपमान् ॥ KK04-04-065-037c
अशेरत महावीराः शतशो रुक्ममालिनः ॥ KK04-04-065-038ac
कमलदिनकरेन्दुसन्निभैः सितदशनैः सुमुखाक्षिनासिकैः । KK04-04-065-039a
रुचिरमकरकुण्डलैर्मही पुरुषशिरोभिरथास्तृता बभौ ॥ KK04-04-065-039c
सुनसं चारुदीप्ताक्षं क्लृप्तश्मश्रु स्वलङ्कृतम् । KK04-04-065-040a
अदृश्यत शिरश्छिन्नमनेकं हेमकुण्डलम् ॥ KK04-04-065-040c
एवं तत्प्रहतं सैन्यं समन्तात्प्रद्रुतं भयात् ॥ KK04-04-065-041ac
अथ दुर्योधनः कर्णः सौबलः शकुनिस्तदा । KK04-04-065-042a
द्रोणश्च द्रोणपुत्रश्च कृपश्चातिरथो रणे ॥ KK04-04-065-042c
सहिता विजयं तत्र योधयन्तो महारथाः । KK04-04-065-043a
विष्फारयन्तश्चापानि बलवन्ति महाबलाः ॥ KK04-04-065-043c
ततः कीर्णपताकेन रथेनादित्यवर्चसा । KK04-04-065-044a
पुनरावृत्य मार्गस्थं ददृशुर्वानरध्वजम् ॥ KK04-04-065-044c
ते महास्त्रैर्महेष्वासाः परिवार्य धनञ्जयम् । KK04-04-065-045a
अभ्यवर्षन्सुसङ्क्रुद्धा महामेघा इवाचलम् ॥ KK04-04-065-045c
शरौघान्सम्यगस्यन्तो जीमूता इव शारदाः । KK04-04-065-046a
युद्धे तस्थुर्महावीर्याः प्रतपन्तः किरीटिनम् ॥ KK04-04-065-046c
इषुभिर्बहुभिस्तूर्णं निशितैर्लोमवापिभिः । KK04-04-065-047a
अदूरात्प्रत्यवस्थाय पाण्डवं समयोधयन् ॥ KK04-04-065-047c
ततः प्रहस्य बीभत्सुस्तमैन्द्रं पञ्चवार्षिकम् । KK04-04-065-048a
अस्त्रमादित्यसङ्काशं गाण्डीवे समयोजयत् ॥ KK04-04-065-048c
नाक्षणां न च चक्राणां न रथानां न वाजिनाम् । KK04-04-065-049a
अङ्गुलाद्द्व्यङ्गुलाद्वापि विवृतं प्रत्यदृश्यत ॥ KK04-04-065-049c
यथा रश्मिभिरादित्यो वृणुते सर्वतो दिशम् । KK04-04-065-050a
एवं किरीटिना मुक्तं सर्वं प्राच्छादयज्जगत् ॥ KK04-04-065-050c
यथा बलाहके विद्युत्पावको वा शिलोच्चये । KK04-04-065-051a
तथा गाण्डीवमभवच्चक्रायुधमिवाततम् ॥ KK04-04-065-051c
यथा वर्षति पर्जन्यो विद्युत्पतति पर्वते । KK04-04-065-052a
विस्फूर्जिता दिशः सर्वा ज्वलद्गाण्डीवमावृणोत् ॥ KK04-04-065-052c
त्रस्ताश्च रथिनः सर्वे चैन्द्रमस्त्रं विकुर्वति । KK04-04-065-053a
सर्वे शान्तिपरा योधाः स्वचित्तं नाभिजज्ञिरे । KK04-04-065-053c
सहिता द्रोणभीष्माभ्यां प्रमोहगतचेतनाः ॥ KK04-04-065-053e
तानि सर्वाणि सैन्यानि भग्नानि भरतर्षभ । KK04-04-065-054a
प्राद्रवन्त दिशः सर्वा भयाद्वै सव्यसाचिनः ॥ ॥ KK04-04-065-054c

इति श्रीमन्महाभारते विराटपर्वणि गोग्रहणपर्वणि पञ्चषष्टितमोऽध्यायः ॥