अध्यायः 064

अर्जुनेन द्रोणादिपञ्चरथान्प्रत्यभियानम् ॥ 1 ॥ वैशम्पायन उवाच KK04-04-064-001
भीष्मं विजित्य सङ्ग्रामे कुरूणां मिषतां रणे । KK04-04-064-001a
ततो युद्धमनाः प्रायात्पार्थः पञ्च महारथान् ॥ KK04-04-064-001c
आददानश्च नाराचान्विमृशन्निषुधी अपि । KK04-04-064-002a
संस्पृशानश्च गाण्डीवं भूयः कर्णं समभ्यगात् ॥ KK04-04-064-002c
द्रौणिरुवाच KK04-04-064-003
कर्ण यत्तत्सभामध्ये बह्वबद्धं प्रभाषसे । KK04-04-064-003a
न मे युधि समोऽस्तीति तदिदं प्रत्युपस्थितम् ॥ KK04-04-064-003c
एषोऽन्तक इव क्रुद्धः सर्वभूतावमर्दनः । KK04-04-064-004a
अदूरात्प्रत्युपस्थाय जृम्भते केसरी यथा । KK04-04-064-004c
न पलायस्व शूरश्चेत्स्थित्वा युध्यस्व फल्गुनम् ॥ KK04-04-064-004e
कर्ण उवाच KK04-04-064-005
नाहं बिभेमि बीभत्सोः कृष्णाद्वा देवकीसुतात् । KK04-04-064-005a
पाण्डवेभ्योपि सर्वेभ्यः क्षत्रधर्ममनुव्रतः ॥ KK04-04-064-005c
सत्वाधिकानां शूराणां धनुर्वेदोपजीविनाम् । KK04-04-064-006a
दर्शनाज्जायते दर्पः स्वरश्च न विषीदति ॥ KK04-04-064-006c
पश्यत्वाचार्यपुत्रो मामर्जुनेन समं युधि । KK04-04-064-007a
युध्यमानं सुसंयुक्तं दैवं तु दुरतिक्रमम् ॥ KK04-04-064-007c
अश्वत्थामोवाच KK04-04-064-008
को दोषः कर्ण शूराणां वाचा साकं हि पौरुषम् । KK04-04-064-008a
विद्यते यदि तल्लोके गुणोत्तरमिहोच्यते ॥ KK04-04-064-008c
युध्यस्व त्वमभीः पार्थं प्रपलायस्व मा रणात् । KK04-04-064-009a
उक्तं वचः स्मरन्कर्ण नाहमित्यादि संयुगे ॥ KK04-04-064-009c
वैशम्पायन उवाच KK04-04-064-010
तं समन्ताद्रथाः पञ्च परिवार्य धनञ्जयम् । KK04-04-064-010a
त इषून्सम्यगस्यन्तो मुमुक्षन्तोपि जीवितात् ॥ KK04-04-064-010c
ते लाभमिव मन्वानाः क्षिप्रमार्च्छन्धनञ्जयम् । KK04-04-064-011a
शरौघान्सम्यगस्यन्तो जीमूता इव वार्षिकाः ॥ KK04-04-064-011c
बहुभिर्निशितैर्बाणैर्विविधैर्लोमवापिभिः । KK04-04-064-012a
आद्रवन्प्रत्यवस्थाय प्रत्यविध्यन्धनञ्जयम् ॥ KK04-04-064-012c
ततः प्रहस्य बीभत्सुः सर्वशस्त्रभृतांवरः । KK04-04-064-013a
दिव्यमस्त्रं विकुर्वाणः प्रत्ययाद्रथसत्तमान् ॥ KK04-04-064-013c
यथा रश्मिभिरादित्यः प्रच्छादयति मेदिनीम् । KK04-04-064-014a
एवं गाण्डीवनिर्मुक्तैः शरैः प्राच्छादयद्दिशः ॥ KK04-04-064-014c
न रथानां न नगानां न ध्वजानां न वाजिनाम् । KK04-04-064-015a
अविद्धं निशितैर्बाणैरासीद्द्व्यङ्गुलमन्तरम् ॥ KK04-04-064-015c
सर्वे शान्तिपरा योधाः स्वचित्तं नाभिजज्ञिरे । KK04-04-064-016a
हस्तिनोऽश्वाश्च वित्रस्ता व्यवलीयन्त भारत ॥ KK04-04-064-016c
यथा नलवनं नागः प्रभिन्नः षाष्टिहायनः । KK04-04-064-017a
एवं सर्वानपामृद्नादर्जुनः शस्त्रतेजसा ॥ KK04-04-064-017c
गाण्डीवस्य तु घोषेण पृथिवी समकम्पत । KK04-04-064-018a
मनांसि धार्तराष्ट्राणामप्यकृन्तद्धनञ्जयः ॥ KK04-04-064-018c
ततो विगाह्य सैन्यानां मध्यं शस्त्रभृतांवरः । KK04-04-064-019a
सारथिं समरे शूरस्त्वभ्यभाषत वीर्यवान् ॥ KK04-04-064-019c
सन्नियम्य हयानेतान्मन्दं वाहय सारथे । KK04-04-064-020a
आचार्यपुत्रं समरे योधयिष्येऽपराजितम् ॥ KK04-04-064-020c
पुरा ह्येष मया युक्तः स मे भवति पृष्ठतः ॥ KK04-04-064-021ac
एवमुक्तेऽर्जुनेनासावश्वत्थामरथं प्रति । KK04-04-064-022a
विराटपुत्रो जवनान्भृशमश्वानचोदयत् ॥ KK04-04-064-022c
कर्ण उवाच KK04-04-064-023
एषोपयाति बीभत्सुर्व्यथितो गाढवेदनः । KK04-04-064-023a
तं तु तत्रैव यास्यामि नासौ मुच्येत जीवितात् ॥ KK04-04-064-023c
द्रोण उवाच KK04-04-064-024
नासौ भयेन निर्यातो महात्मा पाकशासनिः । KK04-04-064-024a
नैवं भीता निवर्तन्ते न पुनर्गाढवेदनाः ॥ KK04-04-064-024c
यद्येनमभिसंरब्धं पुनरेवाभियास्यसि । KK04-04-064-025a
बहून्यस्त्राणि जानीते न पुनर्मोक्ष्यते भवान् ॥ KK04-04-064-025c
दिष्ट्या दुर्योधनो मुक्तो दिष्ट्या गावः पलायिताः । KK04-04-064-026a
मुक्तो दिष्ट्या च सङ्ग्रामे किं रणेन करिष्यसि ॥ KK04-04-064-026c
क्रोशमात्रमपाक्रम्य बलमन्वानयामहे । KK04-04-064-027a
अन्वागतबलाः पार्थं पुनरेवाभियास्यथ ॥ ॥ KK04-04-064-027c

इति श्रीमन्महाभारते विराटपर्वणि गोग्रहणपर्वणि चतुःषष्टितमोऽध्यायः ॥

04-04-064-021 पुरा ह्येष मया मुक्त इति ख. पाठः ॥