अध्यायः 063
अर्जुनेन भीष्मपराजयः ॥ 1 ॥
वैशम्पायन उवाच KK04-04-063-001
ततो भीष्मः शरानष्टौ ध्वजे पार्थस्य वीर्यवान् । KK04-04-063-001a
समार्पयन्महावेगाज्ज्वलतः पन्नगानिव ॥ KK04-04-063-001c
ते ध्वजं पाण्डुपुत्रस्य समासाद्य पतत्रिणः । KK04-04-063-002a
ध्वजस्थं कपिमाजघ्नुः ध्वजाग्रनिलयांश्च तान् ॥ KK04-04-063-002c
सारथिं च हयांश्चास्य विव्याध दशभिः शरैः । KK04-04-063-003a
उरस्यताडयत्पार्थं त्रिभिरेवायसैः शरैः ॥ KK04-04-063-003c
ततोऽर्जुनः शरैस्तीक्ष्णैर्विद्ध्वा कुरुपितामहम् । KK04-04-063-004a
ध्वजं च सारथिं चापि विव्याध दशभिः शरैः ॥ KK04-04-063-004c
तद्युद्धमभवद्घोरं रोमहर्षणमद्भुतम् । KK04-04-063-005a
भीष्मस्य सह पार्थेन बलिवासवयोरिव ॥ KK04-04-063-005c
सन्ततं शरजालाभिराकाशं समपद्यत । KK04-04-063-006a
अम्बुदैरिव धाराभिस्तयोः कार्मुकनिःसृतैः ॥ KK04-04-063-006c
भल्लैर्भल्लाः समाहत्य कुरुपाण्डवयो रणे । KK04-04-063-007a
अन्तरिक्षे व्यराजन्त खद्योताः प्रावृषीव हि ॥ KK04-04-063-007c
अग्निचक्रोपमं घोरं मण्डलीकृतमाहवे । KK04-04-063-008a
गाण्डीवमभवज्जिष्णोः सव्यं दक्षिणमस्यतः ॥ KK04-04-063-008c
पर्वतं वारिधाराभिश्छादयन्निव तोयदः । KK04-04-063-009a
अर्जुनश्छादयद्भीष्मं शरवर्षैरनेकशः ॥ KK04-04-063-009c
तां समुद्रमिवोद्धूतां शरवृष्टिं समुद्यताम् । KK04-04-063-010a
व्यधमत्सायकैर्भीष्मः सोर्जुनं च न्यवारयत् ॥ KK04-04-063-010c
ततस्तानि विसृष्टानि शरजालानि सङ्घशः । KK04-04-063-011a
आहतानि व्यशीर्यन्त अर्जुनस्य रथं प्रति ॥ KK04-04-063-011c
ततः कनकपुङ्खाग्रैः शितैः सन्नतपर्वभिः । KK04-04-063-012a
पतद्भिः खगवाजैश्च द्यौरासीत्संवृता शरैः ॥ KK04-04-063-012c
ततः प्रासृजदुग्राणि शरजालानि पाण्डवः । KK04-04-063-013a
तावन्ति शरजालानि भीष्मः पार्थाय प्राहिणोत् ॥ KK04-04-063-013c
साश्वं ससूतं सरथं स पार्थं समाचिनोद्भारतो वत्सदन्तैः । KK04-04-063-014a
प्रच्छादयामास दिशश्च सर्वा नभश्च बाणैस्तपनीयपुङ्खैः ॥ KK04-04-063-014c
ततो देवर्षिगन्धर्वाः साधुसाध्वित्यपूजयन् । KK04-04-063-015a
दुष्करं कृतवान्भीष्मो यदर्जुनमवारयत् ॥ KK04-04-063-015c
बलवानर्जुनो दक्षः क्षिप्रकारी च पाण्डवः । KK04-04-063-016a
कोऽन्यः समर्थः पार्थस्य वेगं धारयितुं रणे ॥ KK04-04-063-016c
ऋते शान्तनवाद्भीष्मात्कृष्णाद्वा देवकीसुतात् । KK04-04-063-017a
आचार्यवरमुख्याद्वा भारद्वाजान्महाबलात् ॥ KK04-04-063-017c
अस्त्रैरस्त्राणि संवार्य क्रीडतः पुरुषोत्तमौ । KK04-04-063-018a
चक्षूंषि सर्वभूतानां मोदयन्तौ महाबलौ ॥ KK04-04-063-018c
प्राजापत्यं तथैवैन्द्रमाग्नेयं च सुदारुणम् । KK04-04-063-019a
कौबेरं वारुणं चैव याम्यं वायव्यमेव च । KK04-04-063-019c
प्रयुञ्जानौ महात्मानौ समरे तौ विरेजतुः ॥ KK04-04-063-019e
विस्मितान्यथ भूतानि तौ दृष्ट्वा संयुगे तदा । KK04-04-063-020a
साधु पार्थ महाबाहो साधु भीष्मेति चाब्रुवन् ॥ KK04-04-063-020c
नैतदन्यो मनुष्येषु प्रदर्शयितुमाहवे । KK04-04-063-021a
महास्त्राणां सम्प्रयोगं समरे भीष्मपार्थयोः ॥ KK04-04-063-021c
एवं सर्वास्त्रविदुषोरस्त्रयुद्धमवर्तत ॥ KK04-04-063-022ac
अथ जिष्णुरुदावृत्य शितधारेण कार्मुकम् । KK04-04-063-023a
न्यकृन्तद्गृध्रपत्रेण शातकुम्भपरिष्कृतम् ॥ KK04-04-063-023c
निमेषान्तरमात्रेण भीष्मोऽन्यत्कार्मुकं रणे । KK04-04-063-024a
समादाय नरव्याघ्रः सज्यं चक्रे महाबलः ॥ KK04-04-063-024c
शरांश्च सुबहून्क्रुद्धो मुमोचाशु धनञ्जये । KK04-04-063-025a
अर्जुनोपि शरांस्तीक्ष्णान्भीष्माय निशितान्बहून् । KK04-04-063-025c
चिक्षेप च महातेजास्तथा भीष्मश्च पाण्डवे ॥ KK04-04-063-025e
तयोर्दिव्यास्त्रविदुषोरस्यतोरनिशं शरान् । KK04-04-063-026a
न विशेषस्तदा राजन्दृश्यते सुमहात्मनोः ॥ KK04-04-063-026c
अथावृणोद्दश दिशः शरैरतिरथस्तदा । KK04-04-063-027a
किरीटमाली कौन्तेयः शूरं शान्तनवं तथा ॥ KK04-04-063-027c
अतीव पाण्डवो भीष्मं भीष्मश्चातीव पाण्डवम् । KK04-04-063-028a
बभूव तत्र सङ्घेऽस्मिन्लोके राजंस्तदद्भुतम् ॥ KK04-04-063-028c
पाण्डवेन हताः शूरा भीष्मस्य रथरक्षिणः । KK04-04-063-029a
शेरते स्म महाबाहो कौन्तेयस्याभितो रथम् ॥ KK04-04-063-029c
ततो गाण्डीवनिर्मुक्ता निरमित्रं चिकीर्षवः । KK04-04-063-030a
असक्ताः पुङ्खसंसक्ताः श्वेतवाहनपत्रिणः ॥ KK04-04-063-030c
निष्पतन्तो रथात्तस्य धौता हैरण्यवाससः । KK04-04-063-031a
आकाशे प्रत्यदृश्यन्त हंसानामिव पङ्क्तयः ॥ KK04-04-063-031c
तस्य तद्दिव्यमस्त्रं हि प्रगाढं चित्रमस्यतः । KK04-04-063-032a
प्रेक्षन्ते स्मान्तरिक्षस्थाः सर्वे देवाः सवासवाः ॥ KK04-04-063-032c
तं दृष्ट्वा परमप्रीतो गन्धर्वश्चित्रमद्भुतम् । KK04-04-063-033a
शशंस देवराजाय चित्रसेनः प्रतापवान् ॥ KK04-04-063-033c
पश्येमानरिनिर्दारान्संसक्तानिव गच्छतः । KK04-04-063-034a
चित्ररूपमिदं जिष्णोर्दिव्यमस्त्रमुदीर्यतः ॥ KK04-04-063-034c
नेदं मनुष्याः श्रद्दध्युर्न हीदं तेषु विद्यते । KK04-04-063-035a
सौराणां च महास्त्राणां विचित्रोऽयं समागमः ॥ KK04-04-063-035c
मध्यन्दिनगतं सूर्यं प्रतपन्तमिवाम्बरे । KK04-04-063-036a
न शक्नुवन्ति सैन्यानि पाण्डवं प्रसमीक्षितुम् ॥ KK04-04-063-036c
उभौ विश्रुतकर्माणावुभौ शूरौ महीक्षिताम् । KK04-04-063-037a
उभौ विचित्रकर्माणावुभौ युधि दुरासदौ ॥ KK04-04-063-037c
इत्युक्तो देवराजस्तु पार्थभीष्मसमागमम् । KK04-04-063-038a
पूजयामास दिव्येन पुष्पवर्षेण भारत ॥ KK04-04-063-038c
[अश्वत्थामा ततोऽभ्येत्य द्रुतं कर्णमभाषत । KK04-04-063-039a
अहमेको हनिष्यामि समेतान्सर्वपाण्डवान् ॥ KK04-04-063-039c
इति कर्म समक्षं मे सभामध्ये त्वयोदितम् । KK04-04-063-040a
न तु तत्कृतमेकस्माद्भीतो धावसि सूतज ॥ KK04-04-063-040c
वैचित्रवीर्यजाः सर्वे त्वामाश्रित्य पृथासुतान् । KK04-04-063-041a
जेतुमिच्छन्ति सङ्ग्रामे भवान्युध्यस्व फल्गुनम् ॥ KK04-04-063-041c
अश्वत्थामोदितं वाक्यं श्रुत्वा दुर्योधनस्तदा । KK04-04-063-042a
प्रत्युवाच रुषा द्रौणिं कर्णप्रियचिकीर्षया ॥ KK04-04-063-042c
मा मानभङ्गं विप्रेन्द्र कुरु विश्रुतकर्मणः । KK04-04-063-043a
मानभङ्गेन राज्ञां तु बलहानिर्भविष्यति ॥ KK04-04-063-043c
शूरा वदन्ति सङ्ग्रामे वाचा कर्माणि कुर्वते । KK04-04-063-044a
पराक्रमन्ति सङ्ग्रामे स्वस्य वीर्यानुसारतः ॥ KK04-04-063-044c
तस्मात्तं नार्हति भवान्गर्हितुं शूरसम्मतम् । KK04-04-063-045a
राज्ञैवमुक्तः स द्रौणिर्गतरोषोऽभवत्तदा ॥] KK04-04-063-045c
ततो भीष्मः शान्तनवो बाणान्पार्श्वे समार्पयत् । KK04-04-063-046a
अस्यतः प्रतिसन्धाय विवृतं सव्यसाचिनः KK04-04-063-046c
ततः प्रसह्य बीभत्सुः पृथुधारेण कार्मुकम् । KK04-04-063-047a
न्यकृन्तद्गृध्रपत्रेण भीष्मस्यामिततेजसः ॥ KK04-04-063-047c
अथैनं दशभिः पश्चात्प्रत्यविध्यत्स्तनान्तरे । KK04-04-063-048a
यतमानं पराक्रान्तं कुन्तीपुत्रो धनञ्जयः ॥ KK04-04-063-048c
स पीडितो महाबाहुर्गृहीत्वा रथकूबरम् । KK04-04-063-049a
गाङ्गेयो युधि दुर्धर्षस्तस्थौ दीप इवातुरः ॥ KK04-04-063-049c
तं विसञ्ज्ञमपोवाह संयन्ता रथवाजिनाम् । KK04-04-063-050a
उपदेशमनुस्मृत्य रक्षमाणो महारथम् ॥ KK04-04-063-050c
पराक्रमे च शौर्ये च वीर्ये सत्त्वे बले रणे । KK04-04-063-051a
शस्त्रास्त्रेषु च सर्वेषु लाघवे दूरपातने ॥ KK04-04-063-051c
यस्य नास्ति समो लोके पितृदत्तवरश्च यः । KK04-04-063-052a
जितश्रमो जितारातिर्निस्तन्द्रिः खेदवर्जितः । KK04-04-063-052c
यः स्वेच्छामरणः शूरः पितृशुश्रूषणे रतः ॥ KK04-04-063-052e
दुर्योधनहितार्थाय युद्ध्वा पार्थेन सङ्गरे । KK04-04-063-053a
पृथासुतहितार्थाय पराजित इवाभवत् ॥ ॥ KK04-04-063-053c
इति श्रीमन्महाभारते विराटपर्वणि गोग्रहणपर्वणि त्रिषष्टितमोऽध्यायः ॥