अध्यायः 061
अर्जुनेन युगपद्द्रोणादिभिः सह युद्धम् ॥ 1 ॥
वैशम्पायन उवाच KK04-04-061-001
एतस्मिन्नन्तरे तत्र महावीर्यपराक्रमः । KK04-04-061-001a
आजगाम महाबाहुः कृपः शस्त्रभृतांवरः । KK04-04-061-001c
अर्जुनं प्रतियोद्धुं वै युद्धकामो महारथः । KK04-04-061-002a
अथं द्रौणे रथं त्यक्त्वा कृपस्य रथमुत्तमम् । KK04-04-061-002c
आजगामार्जुनस्तूर्णं सूर्यवैश्वानरप्रभम् ॥ KK04-04-061-002e
तौ वीरौ सूर्यसङ्काशौ योत्स्यमानौ महारथौ । KK04-04-061-003a
वार्षिकाविव जीमूतौ व्यरोचेतां व्यवस्थितौ ॥ KK04-04-061-003c
प्रगृह्य गाण्डिवं लोके विश्रुतं पुनरर्जुनः । KK04-04-061-004a
अभ्ययाद्भरतश्रेष्ठो विनिघ्नञ्शरमालया ॥ KK04-04-061-004c
कृपश्च धनुरादाय तथैवार्जुनमभ्यगात् ॥ KK04-04-061-005ac
प्रगृह्य बलवच्चापं नाराचान्रक्तभोजनान् । KK04-04-061-006a
कृपः पार्थाय चिक्षेप शतशोऽथ सहस्रशः ॥ KK04-04-061-006c
जीमूत इव घर्मान्ते शरवर्षं विमुञ्चति । KK04-04-061-007a
नन्दयन्सुहृदः सर्वान्प्रत्ययुध्यत फल्गुनम् ॥ KK04-04-061-007c
विकृष्य बलवच्चापं पाण्डवोऽमितविक्रमः । KK04-04-061-008a
चचार समरे पार्थश्चित्रमार्गान्विदर्शयन् ॥ KK04-04-061-008c
सर्वाश्चैव दिशो बाणैः प्रदिशश्च महाबलः । KK04-04-061-009a
एकच्छायमिवाकाशं सर्वतः कृतवान्प्रभुः ॥ KK04-04-061-009c
प्राच्छादयदमेयात्मा पार्थः शरशतैः कृपम् । KK04-04-061-010a
उद्गतः समरे मेघो धाराभिरिव पर्वतम् ॥ KK04-04-061-010c
स शरैरर्पितः ऋद्धः शितैरग्निशिखोपमैः । KK04-04-061-011a
कृपो बभूव समरे विधूमोऽग्निरिव ज्वलन् ॥ KK04-04-061-011c
ततः शरसहस्रेण पार्थमप्रतिमौजसम् । KK04-04-061-012a
अर्दयित्वा महाबाहुर्ननाद समरे कृपः ॥ KK04-04-061-012c
ततः कनकपुङ्खेन शरेण नतपर्वणा । KK04-04-061-013a
बिभेद समरे पार्थः कृपस्य ध्वजमुत्तमम् ॥ KK04-04-061-013c
ततः पश्चान्महातेजा नाराचान्सूर्यसन्निभान् । KK04-04-061-014a
जग्राह समरे पार्थो भूयो बहुशिलीमुखान् ॥ KK04-04-061-014c
तैस्तदानीं महाबाहुः कृपस्य रथरक्षिणः । KK04-04-061-015a
जघान क्षत्रियश्रेष्ठो युध्यमानान्महारथान् ॥ KK04-04-061-015c
चन्द्रकेतुः सुकेतुश्च चित्राश्वो मणिमांस्तदा । KK04-04-061-016a
मुञ्जमौलिश्च विक्रान्तो हेमवर्णो भयावहः ॥ KK04-04-061-016c
सुरथोऽतिरथश्चैव सुषेणोऽरिष्ट एव च । KK04-04-061-017a
नृकेतुश्च सहानीकास्ते निषेदुर्गतासवः ॥ KK04-04-061-017c
तान्निहत्य ततः पार्थो निमेषादिव भारत । KK04-04-061-018a
पुनरन्यान्समाधत्त त्रयोदश शिलीमुखान् ॥ KK04-04-061-018c
अथास्य युगमेकेन चतुर्भिश्चतुरो हयान् । KK04-04-061-019a
षष्ठेन तु शिरः सङ्ख्ये कृपस्य रथसारथेः ॥ KK04-04-061-019c
त्रिभिस्त्रिवेणुं बलवान्द्वाभ्यामक्षं महाबलः । KK04-04-061-020a
द्वादशेन तु भल्लेन कृपस्य सशरं धनुः ॥ KK04-04-061-020c
छित्त्वा वज्रनिकाशेन फल्गुनः प्रहसन्निव । KK04-04-061-021a
त्रयोदशेनेन्द्रसमः प्रत्यविध्यत्स्तनान्तरे ॥ KK04-04-061-021c
स छिन्नधन्वा विरथो हताश्वो हतसारथिः । KK04-04-061-022a
अथ शक्तिं परामृश्य सूर्यवैश्वानरप्रभाम् । KK04-04-061-022c
चिक्षेप सहसा क्रुद्धः पार्थायाद्भुतकर्मणे ॥ KK04-04-061-022e
तामर्जुनस्तथारूपां शक्तिं हेमपरिष्कृताम् । KK04-04-061-023a
रुरोध सायकैस्तीक्ष्णैरर्धचन्द्रमुखैश्च ताम् ॥ KK04-04-061-023c
आपतन्तीं महोल्काभां चिच्छेद दशभिः शरैः । KK04-04-061-024a
सापतद्दशधा भूमौ पार्थेन निहता शरैः ॥ KK04-04-061-024c
शक्त्यां तु विनिकृत्तायां विरथः शरपीडितः । KK04-04-061-025a
गदापाणिरवप्लुत्य रथात्तूर्णममित्रहा । KK04-04-061-025c
गदां चिक्षेप सहसा पार्थायामिततेजसे ॥ KK04-04-061-025e
सा च मुक्ता गदा गुर्वी रूपेणास्य परिष्कृता । KK04-04-061-026a
अर्जुनस्य शरैर्नुन्ना प्रतिमार्गं जगाम सा ॥ KK04-04-061-026c
अथ खड्गं समुद्धृत्य शतचन्द्रं च भानुमत् । KK04-04-061-027a
इयेष पाण्डवं हन्तुं कृपो लघुपराक्रमः ॥ KK04-04-061-027c
स शरद्वत्सुतस्तूर्णं महाचार्यः सुशिक्षितः । KK04-04-061-028a
खेचरेव चचारैकः क्रमाच्चर्मासिधृग्भुवि ॥ KK04-04-061-028c
ततः क्षुरप्रैः कौन्तेयो दशभिः खड्गचर्मणी । KK04-04-061-029a
निमेषादिव चिच्छेद तदद्भुतमिवाभवत् ॥ KK04-04-061-029c
विषण्णवदनस्तत्र विनाशात्खड्गचर्मणोः । KK04-04-061-030a
दन्तैर्दन्तच्छदान्दष्ट्वा चुकोप हृदि दीर्घवत् ॥ KK04-04-061-030c
भवत्विति पुनश्चोक्त्वा युद्धापगमनोद्यतः । KK04-04-061-031a
अश्वत्थाम्नस्तु स रथं कृपः समभिपुप्लुवे । KK04-04-061-031c
स्वस्रीयस्य महातेजा जग्राह च धनुः पुनः ॥ KK04-04-061-031e
एतस्मिन्नन्तरे क्रुद्धो भीष्मो द्रोणमथाब्रवीत् । KK04-04-061-032a
दृष्ट्वा कृपं फल्गुनेन पीडितं चोर्जितं च तम् ॥ KK04-04-061-032c
एकैकमस्मान्सङ्ग्रामे पराजयति फल्गुनः । KK04-04-061-033a
अहं द्रोणश्च कर्णश्च द्रौणिर्गौतम एव च । KK04-04-061-033c
अन्ये च बहवः शूरा वयं जेष्याम वासविम् ॥ KK04-04-061-033e
समागम्य ततः सर्वे भीष्मद्रोणमुखा रथाः । KK04-04-061-034a
अर्जुनं सहसा युक्ताः प्रत्ययुध्यन्त भारत ॥ KK04-04-061-034c
स सायकमयैर्जालैः सर्वतस्तान्महारथान् । KK04-04-061-035a
प्राच्छादयच्छरौघैस्तान्नीहार इव पर्वतान् ॥ KK04-04-061-035c
नदद्भिश्च महानागैर्हेषमाणैश्च वाजिभिः । KK04-04-061-036a
भेरीशङ्खनिनादैश्च स शब्दस्तुमुलोऽभवत् ॥ KK04-04-061-036c
नागाश्वकायान्निर्भिद्य लौहानि कवचानि च । KK04-04-061-037a
पार्थस्य शरवर्षाणि न्यपतञ्शतशः क्षितौ ॥ KK04-04-061-037c
त्वरमाणः शरानस्यन्पाण्डवस्तु प्रकाशते । KK04-04-061-038a
मध्यन्दिनगतोऽर्चिष्माञ्छरदीव दिवाकरः ॥ KK04-04-061-038c
अविषह्य शरान्सर्वे पार्थचापच्युतान्रणे । KK04-04-061-039a
उदक्प्रयान्ति विध्वस्ता रथेभ्यो रथिनस्तदा । KK04-04-061-039c
सादिनश्चाश्वपृष्ठेभ्यो भूमौ चापि पदातयः ॥ KK04-04-061-039e
शरैस्तु ताड्यमानानां कवचानां महात्मनाम् । KK04-04-061-040a
ताम्रराजतलौहानां प्रादुरासीन्महास्वनः ॥ KK04-04-061-040c
छन्नमायोधनं जज्ञे शरीरैर्गतचेतसाम् । KK04-04-061-041a
श्रान्त्या गलितशस्त्राणां पततामश्वसादिनाम् ॥ KK04-04-061-041c
शून्यान्कुर्वन्रथोपस्थान्मानवैरास्तृणोन्महीम् । KK04-04-061-042a
प्रनृत्यन्निव सङ्ग्रामे चापहस्ते धनञ्जयः ॥ KK04-04-061-042c
शिरांस्यपातयत्सङ्ख्ये क्षत्रियाणां नरर्षभः । KK04-04-061-043a
श्रुत्वा गाण्डीवनिर्घोषं विष्णूजितमिवाशनेः । KK04-04-061-043c
त्रस्तानि सर्वसैन्यानि व्यलीयन्त च भागशः ॥ KK04-04-061-043e
कुण्डलोष्णीषधारीणि जातरूपस्रजानि च । KK04-04-061-044a
पतितानि स्म दृश्यन्ते शिरांसि रणमूर्धनि ॥ KK04-04-061-044c
विशिखोन्मथितैर्गात्रैर्बाहुभिश्च सकार्मुकैः । KK04-04-061-045a
सहस्ताभरणैश्चान्यैः प्रच्छन्ना भाति मेदिनी ॥ KK04-04-061-045c
शिरसां पात्यमानानां समरे निशितैः शरैः । KK04-04-061-046a
अश्मवृष्टिरिवाकाशादभवद्भरतर्षभ ॥ KK04-04-061-046c
दर्शयित्वा तदाऽऽत्मानं रौद्रं रौद्रपराक्रमः । KK04-04-061-047a
जघान समरे शूराञ्छतशोऽथ सहस्रशः ॥ KK04-04-061-047c
तथावरुद्धश्चारण्ये दशवर्षाणि त्रीणि च । KK04-04-061-048a
क्रोधाग्निमुत्ससर्जाजौ धार्तराष्ट्रेषु पाण्डवः ॥ KK04-04-061-048c
तस्य तद्दहतः सैन्यं दृष्ट्वा चास्य पराक्रमम् । KK04-04-061-049a
सर्वे शान्तिपरा योधा धार्तराष्ट्रस्य भारत ॥ KK04-04-061-049c
यथा नलवनं नागः प्रभिन्नः षाष्टिहायनः । KK04-04-061-050a
एवं सर्वानपामृद्नादर्जुनः शस्त्रतेजसा ॥ KK04-04-061-050c
विद्राव्य च ततः सैन्यं त्रासयित्वा महारथान् । KK04-04-061-051a
अर्जुनो जयतांश्रेष्ठः पर्यावर्तत भारत ॥ KK04-04-061-051c
तस्य मार्गान्विचरतो निघ्नतश्च रणाजिरे । KK04-04-061-052a
प्रावर्तत नदी घोरा शोणितान्त्रतरङ्गिणी ॥ KK04-04-061-052c
अस्थिशैवालसम्बाधां सङ्ग्रामे पार्थनिर्मिताम् । KK04-04-061-053a
शरचापप्लवां घोरां मांसशोणितकर्दमाम् ॥ KK04-04-061-053c
रथोडुपां चान्त्रसर्पां केशशैवालशाड्वलाम् । KK04-04-061-054a
करवालासिपाठीनां चामरोष्णीषफेनिलाम् ॥ KK04-04-061-054c
अश्वग्रीवामहावर्तां कबन्धजलमानुषाम् । KK04-04-061-055a
काककङ्करुतां तीव्रां सारसक्रौञ्चनादिताम् ॥ KK04-04-061-055c
सिंहनादमहानादां शङ्खस्वनमहास्वनाम् । KK04-04-061-056a
वीरोत्तमाङ्गपद्माढ्यां शरचापमहानलाम् ॥ KK04-04-061-056c
पदातिमत्स्यकलुषां गजशीर्षककच्छपाम् । KK04-04-061-057a
गोमायुमृगसङ्घुष्टां मांसमज्जाभिकर्दमाम् ॥ KK04-04-061-057c
प्रावर्तयन्नदीं घोरां पिशाचगणसेविताम् । KK04-04-061-058a
अपारामनिवासां च रक्तोदां सर्वतो वृताम् ॥ KK04-04-061-058c
अभीक्ष्णमकरोत्पार्थो नदीमुत्तमशोणिताम् । KK04-04-061-059a
गजवर्ष्ममहाद्वीपामश्वदेहमहाशिलाम् ॥ KK04-04-061-059c
पदातिदेहसङ्घाटां रथावलिमहातरुम् । KK04-04-061-060a
केशशाद्वलसञ्छन्नां सुतरां भीतिदां नृणाम् ॥ KK04-04-061-060c
अगाधरक्तोदवहां यमसागरगामिनीम् । KK04-04-061-061a
दुस्तरां भीरुमर्त्यानां शूराणां सुतरां नृप । KK04-04-061-061c
प्रावर्तयन्नदीमेवं भीषणां पाकशासनिः ॥ KK04-04-061-061e
तस्याददानस्य शरान्सन्दधानस्य मुञ्चतः । KK04-04-061-062a
विकर्षतश्च गाण्डीवं न किञ्चिद्ददृशेऽन्तरम् ॥ ॥ KK04-04-061-062c
इति श्रीमन्महाभारते विराटपर्वणि गोग्रहणपर्वणि एकषष्टितमोऽध्यायः ॥
4-61-28 खेचरः इवेतिच्छेदः ॥