अध्यायः 059

द्रोणार्जुनयोर्युद्धवर्णनम् ॥ 1 ॥ अर्जुनबाणाहतिविषण्णे द्रोणे अश्वत्थाम्ना तद्रक्षणायार्जुनप्रत्यभियानम् ॥ 2 ॥ अत्रान्तरेऽर्जुनदत्तावकाशेन द्रोणेन रणादपयानम् ॥ 3 ॥ वैशम्पायन उवाच KK04-04-059-001
जितं वैकर्तनं दृष्ट्वा पार्थो वैराटिमब्रवीत् । KK04-04-059-001a
स्थिरो भव त्वं सङ्ग्रामे जयोऽस्माकं नृपात्मज ॥ KK04-04-059-001c
यावच्छङ्खमुपाध्यास्ये द्विषतां रोमहर्षणम् । KK04-04-059-002a
अविक्लबमसम्भ्रान्तमव्यक्तहृदयेक्षणम् । KK04-04-059-002c
याहि शीघ्रं यतो द्रोणो ममाचार्यो रणे स्थितः ॥ KK04-04-059-002e
तथा सङ्क्रीडमानस्य अर्जुनस्य रणाजिरे । KK04-04-059-003a
बलं सत्वं च तेजश्च लाघवं च व्यवर्धत ॥ KK04-04-059-003c
तच्चाद्भुतमभिप्रेक्ष्य भयमुत्तरमाविशत् ॥ KK04-04-059-004ac
उत्तर उवाच KK04-04-059-005
अस्त्राणां तव दिव्यानां शरौघान्क्षिपतः शितान् । KK04-04-059-005a
मनो मे मुह्यतेऽत्यर्थं तव दृष्ट्वा पराक्रमम् ॥ KK04-04-059-005c
द्वैधीभूतं मनो मह्यं भयाद्भरतसत्तम । KK04-04-059-006a
अदृष्टपूर्वं पश्यामि तव गाण्डीवनिस्वनम् ॥ KK04-04-059-006c
तव बाहुबलं चैव धनुः कर्षयतो बहु । KK04-04-059-007a
तव तेजो दुराधर्षं यथा विष्णोस्त्रिविक्रमे ॥ KK04-04-059-007c
वैशम्पायन उवाच KK04-04-059-008
तमुत्तरश्चित्रमवेक्ष्य गाण्डिवं शरांश्च मुक्तान्सहसा किरीटिना । KK04-04-059-008a
भीतोऽब्रवीदर्जुनमाजिमध्ये नाहं तवाश्वान्विषहे नियन्तुम् ॥ KK04-04-059-008c
तमब्रवीत्किञ्चिदिव प्रहस्य गाण्डीवधन्वा द्विषतां निहन्ता । KK04-04-059-009a
मया सहायेन कुतोऽस्ति ते भयं प्रेह्युत्तराश्वाननुमन्त्र्य वाहय ॥ KK04-04-059-009c
वैशम्पायन उवाच KK04-04-059-010
आश्वासितस्तेन धनञ्जयेन वैराटिरश्वान्प्रतुतोद शीघ्रम् । KK04-04-059-010a
धनञ्जयश्चापि विकृष्य चापं विष्फारयामास महेन्द्रकल्पः ॥ KK04-04-059-010c
उत्तरं चैव बीभत्सुरब्रवीत्पुनरर्जुनः । KK04-04-059-011a
न भेतव्यं मया सार्धं तात सङ्ग्राममूर्धनि ॥ KK04-04-059-011c
राजपुत्रोऽसि ते भद्रं कुले महति मात्स्यके । KK04-04-059-012a
जातस्त्वं क्षत्रियकुले न विषीदितुमर्हसि ॥ KK04-04-059-012c
धृतिं कृत्वा सुविपुलां राजपुत्र रथं मम । KK04-04-059-013a
युध्यमानस्य सङ्ग्रामे राजभिः सह वाहय ॥ KK04-04-059-013c
उक्त्वा तमेवं बीभत्सुरर्जुनः पुनरब्रवीत् । KK04-04-059-014a
पाण्डवो रथिनां श्रेष्ठो भारद्वाजं समीक्ष्य तु ॥ KK04-04-059-014c
यत्रैषा काञ्चनी वेदिर्दृश्यतेऽग्निशिखोपमा । KK04-04-059-015a
उच्छ्रिता काञ्चने दण्डे पताकाभिरलङ्कृता ॥ KK04-04-059-015c
तत्र मां वह भद्रं ते द्रोणं योत्स्यामि सत्तमम् । KK04-04-059-016a
भारद्वाजेन योत्स्येऽहमाचार्येण महात्मना ॥ KK04-04-059-016c
अमी शोणाः प्रकाशन्ते तुरगाः साधुवाहिनः । KK04-04-059-017a
मुक्ता रथवरे तस्य सर्वशिक्षाविशारदाः ॥ KK04-04-059-017c
यतो रथवरे शूरः सर्वशस्त्रभृतांवरः । KK04-04-059-018a
स्निग्धवैडूर्यसङ्काशस्ताम्राक्षः प्रियदर्शनः ॥ KK04-04-059-018c
आदित्य इव तेजस्वी बलवीर्यसमन्वितः । KK04-04-059-019a
सर्वलोकधनुःश्रेष्ठः सर्वलोकेषु पूजितः । KK04-04-059-019c
अङ्गिरोशनसोस्तुल्यो नये बुद्धिमतांवरः ॥ KK04-04-059-019e
चत्वारो निखिला वेदाः साङ्गोपाङ्गाः सलक्षणाः । KK04-04-059-020a
धनुर्वेदश्च कार्त्स्न्येन ब्राह्मं चास्त्रं प्रतिष्ठितम् ॥ KK04-04-059-020c
पुराणमितिहासश्च अर्थविद्या च मानवम् । KK04-04-059-021a
भारद्वाजे समस्तानि सर्वाण्येतानि साम्प्रतम् ॥ KK04-04-059-021c
क्षमा दमश्च सत्यं च तेजो मार्दवमार्जवम् । KK04-04-059-022a
प्रतिष्ठिता गुणा यस्मिन्बहवो द्विजसत्तमे ॥ KK04-04-059-022c
यस्याहमिष्टः सततं मम चेष्टः सदा च सः । KK04-04-059-023a
क्षत्रधर्मं पुरस्कृत्य तेन योत्स्ये हि साम्प्रतम् ॥ KK04-04-059-023c
आचार्यं प्रापयेदानीं ममोत्तर महारथम् । KK04-04-059-024a
अपरं पश्य सङ्ग्राममद्भुतं मम तस्य च ॥ KK04-04-059-024c
उत्तरस्त्वेवमुक्तोऽश्वांश्चोदयामास तं प्रति । KK04-04-059-025a
आजगामार्जुनरथो भारद्वाजरथं प्रति ॥ KK04-04-059-025c
तमापतन्तं वेगेन पाण्डवं सरथं रणे । KK04-04-059-026a
द्रोणोप्यभ्यद्रवत्पार्थं मतो मत्तमिव द्विपम् ॥ KK04-04-059-026c
स तु रुक्मरथं दृष्ट्वा कौन्तेयः समभिद्रुतम् । KK04-04-059-027a
आचार्यं तं महाबाहुः प्राञ्जलिर्वाक्यमब्रवीत् ॥ KK04-04-059-027c
उषिताः स्मो वने वासं प्रतिकर्मचिकीर्षवः । KK04-04-059-028a
कोपं नार्हसि नः कर्तुं सदा समरदुर्जय ॥ KK04-04-059-028c
अहं तु ताडितः पूर्वं प्रहरेयं तवानघ । KK04-04-059-029a
इति मे वर्तते बुद्धिस्तद्भवान्क्षन्तुमर्हति ॥ KK04-04-059-029c
ततः प्राध्मापयच्छङ्खं भेरीपटहवादितम् । KK04-04-059-030a
व्यक्षोभत बलं सर्वमुद्धूतमिव सागरम् ॥ KK04-04-059-030c
वैशम्पायन उवाच KK04-04-059-031
ततस्तु प्राहिणोद्द्रोणः शरानथ स विंशतिम् । KK04-04-059-031a
अप्राप्तानेव तान्पार्थश्चिच्छेद कृतहस्तवान् ॥ KK04-04-059-031c
ततः शरसहस्रेण रथं पार्थस्य वीर्यवान् । KK04-04-059-032a
अवाकिरत्ततो द्रोणः शीघ्रहस्तं प्रदर्शयन् ॥ KK04-04-059-032c
एवं प्रववृते युद्धं भारद्वाजकिरीटिनोः ॥ KK04-04-059-033ac
अश्वाञ्शोणान्महावेगान्हंसवर्णैस्तु वाजिभिः । KK04-04-059-034a
मिश्रितान्समरे दृष्ट्वा व्यस्मयन्त पृथग्जनाः ॥ KK04-04-059-034c
रथं रथेन पार्थस्य समाहत्य परन्तपः । KK04-04-059-035a
हर्षयुक्तस्तदाऽऽचार्यः प्रत्यगृह्णात्स पाण्डवम् ॥ KK04-04-059-035c
समाश्लिष्टाविवान्योन्यं द्रोणपाण्डवयोर्ध्वजौ । KK04-04-059-036a
दृष्ट्वा प्राकम्पत मुहुर्भारतानां महाचमूः ॥ KK04-04-059-036c
तत्तु युद्धं प्रववृते ह्याचार्यस्यार्जुनस्य च । KK04-04-059-037a
विमुञ्चतोः शरानुग्रान्विशिखान्दीप्ततेजसः ॥ KK04-04-059-037c
तौ वीरौ वीर्यसम्पन्नौ दृष्ट्वा समरमूर्धनि । KK04-04-059-038a
आचार्यशिष्यौ रथिनौ कृतवीर्यौ तरस्विनौ ॥ KK04-04-059-038c
उभौ विश्रुतकर्माणावुभौ श्रमगतौ जये । KK04-04-059-039a
उभावतिरथौ लोके ह्युभौ परपुञ्जयौ । KK04-04-059-039c
क्षिपन्तौ शरजालानि क्षत्रियान्मोह आविशत् ॥ KK04-04-059-039e
व्यस्मयन्त नराः सर्वे द्रोणार्जुनसमागमे । KK04-04-059-040a
नराणां ब्रुवतां वाक्यं श्रूयते स महास्वनः ॥ KK04-04-059-040c
द्रोणं हि समरे कोऽन्यो योद्धुमर्हत्यथार्जुनात् । KK04-04-059-041a
रौद्रः क्षत्रियधर्मोऽयं गुरुं वै यदयोधयत् ॥ KK04-04-059-041c
इत्यब्रुवञ्जनास्तत्र सङ्ग्रामशिरसि स्थिताः । KK04-04-059-042a
तौ समीक्ष्य तु संरब्धौ सन्निकृष्टौ महारथौ ॥ KK04-04-059-042c
छादयेतां शरौघैस्तावन्योन्यमपराजितौ । KK04-04-059-043a
संयुगे सञ्चकाशेतां कालसूर्याविवोदितौ ॥ KK04-04-059-043c
विष्फार्य च महाचापं हेमपृष्ठं दुरासदम् । KK04-04-059-044a
संरब्धस्तु तदा द्रोणः प्रत्ययुध्यत फल्गुनम् ॥ KK04-04-059-044c
स सायकमयैर्जालैरर्जुनस्य रथं प्रति । KK04-04-059-045a
भानुमद्भिः शिलाधौतैर्बाणैः प्राच्छादयद्दिशः ॥ KK04-04-059-045c
अर्जुनस्तु तदा द्रोणं महावेगैर्महारथः । KK04-04-059-046a
विव्याध शतशो बाणैर्धाराभिरिव पर्वतम् ॥ KK04-04-059-046c
कालमेघ इवोष्णान्ते फल्गुनः समवाकिरत् ॥ KK04-04-059-047ac
तस्य जाम्बूनदमयैश्चित्रैश्चापच्युतैः शरैः । KK04-04-059-048a
प्राच्छादयद्रथश्रेष्ठं भारद्वाजोऽर्जुनस्य वै ॥ KK04-04-059-048c
तथैव दिव्यं गाण्डीवं धनुरानम्य चार्जुनः । KK04-04-059-049a
शत्रुघ्नं वेगवत्सृष्टं भारसाधनमुत्तमम् ॥ KK04-04-059-049c
शोभते स्म महाबाहुर्गाण्डीवं विक्षिपन्धनुः । KK04-04-059-050a
शरांश्च विसृजंश्चित्रान्सुवर्णविकृतान्बहून् ॥ KK04-04-059-050c
प्राच्छादयदमेयात्मा भारद्वाजरथं प्रति । KK04-04-059-051a
द्रोणचापविनिर्मुक्तान्बाणान्बाणैरवारयत् ॥ KK04-04-059-051c
सरथोऽप्यचरत्पार्थः प्रेक्षणीयो महारथः । KK04-04-059-052a
युगपद्दिक्षु सर्वासु सर्वतोऽस्त्राण्यवासृजत् ॥ KK04-04-059-052c
आददानं शरान्घोरान्सन्दधानं च पाण्डवम् । KK04-04-059-053a
विसृजन्तं च कौन्तेयं न स्म पश्यन्ति लाघवात् ॥ KK04-04-059-053c
एकच्छायमिवाकाशं बाणैश्चक्रे समन्ततः । KK04-04-059-054a
नादृश्यत ततो द्रोणो नीहारेणेव पर्वतः ॥ KK04-04-059-054c
मरीचिविकचस्येव राजन्भानुमतो वपुः । KK04-04-059-055a
आसीत्पार्थस्य सुमहद्वपुः शरशतार्चितम् ॥ KK04-04-059-055c
क्षिपतः शरजालानि कौन्तेयस्य महात्मनः । KK04-04-059-056a
तान्विधूय शरान्घोरान्द्रोणोऽपि समितिञ्जयः । KK04-04-059-056c
बभासे तिमिरं व्योम्नि विधूय सविता यथा ॥ KK04-04-059-056e
अग्निचक्रोपमं घोरं मण्डलीकृतमाहवे । KK04-04-059-057a
विकृष्य सुमहच्चापं मेघस्तनितनिस्वनम् । KK04-04-059-057c
असकृन्मुञ्चतो बाणान्ददृशुः कुरवो युधि ॥ KK04-04-059-057e
दिक्षु सर्वासु विपुलः शुश्रुवेऽथ जनैस्तदा । KK04-04-059-058a
द्रोणस्यापि धनुर्घोषो विद्युत्स्तनितनिस्वनः । KK04-04-059-058c
अभवद्विस्मयकरः सैन्यानां भरतर्षभ ॥ KK04-04-059-058e
तप्तजाम्बूनदमयैर्दीप्तैरग्निसमैः शरैः । KK04-04-059-059a
प्राच्छादयदमेयात्मा दिशः सूर्यस्य च प्रभाम् ॥ KK04-04-059-059c
ततः काञ्चनपुङ्खानां शराणां नतपर्वणाम् । KK04-04-059-060a
वियद्गतानां चरतां दृश्यन्ते बहवो व्रजाः ॥ KK04-04-059-060c
शरासनात्तु द्रोणस्य प्रभवन्ति स्म सायकाः । KK04-04-059-061a
एको दीर्घ इवाभान्तः प्रदृश्यन्ते महाशराः । KK04-04-059-061c
आकाशे समदृश्यन्त हंसानामिव पङ्क्तयः ॥ KK04-04-059-061e
एवं सुवर्णविकृतान्विमुञ्चन्तौ शरान्बहून् । KK04-04-059-062a
आकाशं संवृतं वीरावुल्काभिरिव चक्रतुः ॥ KK04-04-059-062c
तयोः शराश्च विबभुः कङ्कबर्हिणवाससः । KK04-04-059-063a
पङ्क्त्यः शरदि मत्तानां सारसानामिवाम्बरे ॥ KK04-04-059-063c
तत्तु युद्धं महाघोरं तयोः संरब्धयोरभूत् । KK04-04-059-064a
अत्यद्भुतमचिन्त्यं च वृत्रवासवयोरिव ॥ KK04-04-059-064c
महागजाविवासाद्य विषाणाग्रैः परस्परम् । KK04-04-059-065a
शरैः पूर्णायतोत्सृष्टैरन्योन्यमभिजघ्नतुः ॥ KK04-04-059-065c
अथ त्वाचार्यमुख्येन शरान्सृष्टाञ्शिलाशितान् । KK04-04-059-066a
अवारयच्छितैर्बाणैरर्जुनो जयतांवरः ॥ KK04-04-059-066c
दर्शयन्नैन्द्रमात्मानमुग्रमुग्रपराक्रमः । KK04-04-059-067a
इषुभिस्तूर्णमाकाशं बहुभिश्च समावृणोत् ॥ KK04-04-059-067c
जिघांसन्तं नरव्याघ्रमर्जुनं भीमदर्शनम् । KK04-04-059-068a
विव्याध निशितैर्द्रोणः शरैः सन्नतपर्वभिः ॥ KK04-04-059-068c
हृष्टः समभवद्द्रोणो रणशौण्डः प्रतापवान् । KK04-04-059-069a
अर्जुनेन समं क्रीडञ्शरैः सन्नतपर्वभिः ॥ KK04-04-059-069c
तौ व्यदारयतां शूरौ सन्नद्धौ रणशोभिनौ । KK04-04-059-070a
उदीरयन्तौ दिव्यानि ब्राह्माद्यस्त्राणि भागशः ॥ KK04-04-059-070c
पार्थस्तु समरे शूरो दर्शयन्वीर्यमात्मनः । KK04-04-059-071a
स महास्त्रैर्महात्मानं द्रोणं प्राच्छादयच्छरैः ॥ KK04-04-059-071c
अस्त्रैरस्त्राणि संवार्य पार्थो द्रोणमवारयत् ॥ KK04-04-059-072ac
तयोरासीत्सम्प्रहारः क्रुद्धयोर्नरसिंहयोः । KK04-04-059-073a
अमृष्यमाणयोः सङ्ख्ये बलिवासवयोरिव ॥ KK04-04-059-073c
दर्शयेतां महास्त्राणि भारद्वाजार्जुनौ रणे ॥ KK04-04-059-074ac
ऐन्द्रं वायव्यमाग्नेयमस्त्रमस्त्रेण पाण्डवः । KK04-04-059-075a
मुक्तम्मुक्तं द्रोणचापाद्ग्रसते स्म पुनः पुनः ॥ KK04-04-059-075c
एवं शूरौ महेष्वासौ विसृजन्तौ शिलाशितान् । KK04-04-059-076a
एकच्छायमकुर्वातां गगनं शरवृष्टिभिः ॥ KK04-04-059-076c
ततोऽर्जुनेन मुक्तानां पततां च शरीरिषु। KK04-04-059-077a
पर्वतेष्विव वज्राणां शराणां श्रूयते स्वनः ॥ KK04-04-059-077c
ततो नागा रथाश्वाश्च सादिनश्च विशाम्पते । KK04-04-059-078a
शोणिताक्ताश्च दृश्यन्ते पुष्पिता इव किंशुकाः ॥ KK04-04-059-078c
बाहुभिश्च सकेयूरैर्निकृत्तैश्च महारथैः । KK04-04-059-079a
सुवर्णचित्रैः कवचैर्ध्वजैश्च विनिपातितैः ॥ KK04-04-059-079c
योधैश्च निहतैस्तत्र पार्थबाणाभिपीडितैः । KK04-04-059-08a0
बलमासीत्सुसम्भ्रान्तं द्रोणार्जुनसमागमे ॥ KK04-04-059-080c
विधून्वानौ तु तौ वीरौ धनुषी भारसाधने । KK04-04-059-081a
प्राच्छादयेतामन्योन्यं दिधक्षन्तौ वरेषुभिः ॥ KK04-04-059-081c
अथान्तरिक्षे नादोऽभूद्द्रोणं तत्र प्रशंसताम् । KK04-04-059-082a
दुष्करं कृतवान्द्रोणो यदर्जुनमयोधयत् ॥ KK04-04-059-082c
प्रमाथिनं महावीर्यं दृढमुष्टिं दुरासदम् । KK04-04-059-083a
जेतारं सर्वदैत्यानां सर्वेषां च महारथम् ॥ KK04-04-059-083c
अविभ्रमं च शिक्षां च लाघवं दूरपातनम् । KK04-04-059-084a
पार्थस्य समरे दृष्ट्वा द्रोणस्यासीच्च विस्मयः ॥ KK04-04-059-084c
तत्प्रवृत्तं चिरं घोरं तयोर्युद्धं महात्मनोः । KK04-04-059-085a
अवर्तत महारौद्रं लोकसङ्क्षोभकारकम् ॥ KK04-04-059-085c
अथ गाण्डीवमुद्यम्य दिव्यं धनुरमर्षणः । KK04-04-059-086a
विचकर्ष रणे पार्थो बाहुभ्यां भरतर्षभः ॥ KK04-04-059-086c
तस्य बाणमयं वर्षे शलभानामिवाभवत् । KK04-04-059-087a
न च बाणान्तरे तस्य वायुः शक्नोति सर्पितुम् ॥ KK04-04-059-087c
अभीक्ष्णं सन्दधानस्य बाणानुत्सृजतस्तथा । KK04-04-059-088a
नान्तरं ददृशे किञ्चित्पार्थस्यापततोपि च ॥ KK04-04-059-088c
युद्धे तु कृतशीघ्रास्त्रे वर्तमाने सुदारुणे । KK04-04-059-089a
शीघ्राच्छीघ्रतरं पार्थः शरानन्यानुदैरयत् ॥ KK04-04-059-089c
ततः शरसहस्राणि शराणां नतपर्वणाम् । KK04-04-059-090a
युगपत्प्रापतंस्तत्र द्रोणस्य रथमन्तिकात् ॥ KK04-04-059-090c
विकीर्यमाणे द्रोणे तु शरैर्गाण्डीवधन्वना । KK04-04-059-091a
हाहाकारो महानासीत्सैन्यानां भरतर्षभ ॥ KK04-04-059-091c
पाण्डवस्य तु शीघ्रास्त्रं मघवा समपूजयत् । KK04-04-059-092a
गन्धर्वाप्सरसश्चैव ये च तत्र समागताः ॥ KK04-04-059-092c
द्रोणं युद्धार्णवे मग्नं दृष्ट्वा पुत्रः प्रतापवान् । KK04-04-059-093a
ततो वृन्देन महता रथिनां रथियूथपः । KK04-04-059-093c
आचार्यपुत्रस्तु शरैः पाण्डवं प्रत्यवारयत् ॥ KK04-04-059-093e
अश्वत्थामा तु तत्कर्म हृदयेन महात्मनः । KK04-04-059-094a
पूजयामास पार्थस्य कोपं चास्य तदाऽकरोत् ॥ KK04-04-059-094c
स मन्युवशमापन्नः पार्थमभ्यद्रवद्रणे । KK04-04-059-095a
किरञ्शरसहस्राणि पर्जन्य इव वृष्टिमान् ॥ KK04-04-059-095c
आवृत्य च महाबाहुर्यतो द्रोणस्ततोऽभवत् । KK04-04-059-096a
अन्तरं प्रददौ पार्थो द्रोणस्य व्यपसर्पितुम् ॥ KK04-04-059-096c
स तु लब्धान्तरस्तूर्णमपायाज्जवनैर्हयैः । KK04-04-059-097a
छिन्नवर्मध्वजरथो निकृत्तः परमेषुभिः ॥ KK04-04-059-097c
पराजिते तदा द्रोणे द्रोणपुत्रः समागतः । KK04-04-059-098a
सदण्ड इव रक्ताक्षः कृतान्तः समरे स्थितः ॥ ॥ KK04-04-059-098c

इति श्रीमन्महाभारते विराटपर्वणि गोग्रहणपर्वणि एकोनषष्टितमोऽध्यायः ॥ 59 ॥