अध्यायः 058
अर्जुनेन रणे विकर्णादिपराभवनपूर्वकं कर्णानुजहननम् ॥ 1 ॥ अर्जुनपराजितेन कर्णेन रणाङ्कणादपयानम् ॥ 2 ॥
वैशम्पायन उवाच KK04-04-058-001
तत्प्रभग्नं बलं सर्वं विपुलौघस्वनं तथा । KK04-04-058-001a
भीष्ममासाद्य सन्तस्थौ वेलामिव महोदधिः ॥ KK04-04-058-001c
तानि सर्वाणि गाङ्गेयः समाश्वास्य परन्तपः । KK04-04-058-002a
ततो व्यूह्य महाबाहुः समरेष्वपराजितः ॥ KK04-04-058-002c
रथनागाश्वकलिकं युयुजे युद्धकोविदः । KK04-04-058-003a
अभेद्यं परसैन्यानां शूरैरपि समीक्षितम् ॥ KK04-04-058-003c
आचार्यदुर्योधनसूतपुत्रैः कृपेण भीष्मेण च पालितानि । KK04-04-058-004a
अवध्यकल्पानि दुरासदानि रथाश्वमातङ्गसमाकुलानि च ॥ KK04-04-058-004c
तेषामनीकानि किरीटमाली व्यूढानि दृष्ट्वा विपुलध्वजानि । KK04-04-058-005a
गाण्डीवधन्वा द्विषतां निहन्ता वैराटिमामन्त्र्य ततोऽभ्युवाच ॥ KK04-04-058-005c
सुसङ्गृहीतैरथ रश्मिभिस्त्वं हयान्नियम्य प्रसमीक्ष्य यत्तः । KK04-04-058-006a
सम्प्रेषयाशु प्रतिवीरमेनं वैकर्तनं योधयितुं वृणोमि ॥ KK04-04-058-006c
यां हस्तिकक्ष्यां बहुधा विचित्रां स्तम्भे रथे पश्यसि दर्शनीयाम् । KK04-04-058-007a
विवर्तमानां ज्वलनप्रकाशां वैकर्तनस्यैतदनीकमग्र्यम् ॥ KK04-04-058-007c
एतेन शीघ्रं प्रतिपादयेमान् श्वेतान्हयान्काञ्चनजालकक्ष्यान् । KK04-04-058-008a
सर्वं जवं तत्र विदर्शयिष्ये ह्यासादयैतद्रथवीरवृन्दम् ॥ KK04-04-058-008c
गजो गजेनेव हि योद्धुकामो मया सदा काङ्क्षति सूतपुत्रः । KK04-04-058-009a
तमेव मां प्रापय सूतपुत्रं दुर्योधनोपाश्रयजातदर्पम् । KK04-04-058-009c
तं पातयिष्यामि रथस्य मध्ये सहस्रनेत्रोऽशनिनेव वृत्रम् ॥ KK04-04-058-009e
वैशम्पायन उवाच KK04-04-058-010
स तैर्हयैर्जातजवैर्बृहद्भिः पुत्रो विराटस्य हिरण्यकक्ष्यैः । KK04-04-058-010a
विध्वंसयंस्तद्रथिनामनीकं ततोऽवहत्पाण्डवमाजिमध्ये ॥ KK04-04-058-010c
तमापतन्तं परमेण तेजसा समीक्ष्य वैकर्तनमभ्यरक्षन् । KK04-04-058-011a
अभ्यद्रवंस्ते रथवीरवृन्दा व्याघ्रेण चाक्रान्तमिवर्षभं रणे ॥ KK04-04-058-011c
चित्राङ्गदश्चित्ररथश्च वीरः सङ्ग्रामजिद्दुःसहचित्रसेनौ । KK04-04-058-012a
विविंशतिर्दुर्मुखदुर्जयौ च विकर्णदुःशासनसौबलाश्च । KK04-04-058-012c
शोणो निषेधश्च तमन्वयुस्ते वैकर्तनं शीघ्रतरं युवानः ॥ KK04-04-058-012e
पुत्रा ययुस्ते सहसोदराश्च वैकर्तनं पार्थगतं समीक्ष्य । KK04-04-058-013a
प्रगृह्य चापानि महाबला रणे धनञ्जयं पर्यकिरञ्शरार्चिभिः ॥ KK04-04-058-013c
तेषां धनुर्ज्याकृतनैकतन्त्रीं प्रासोपवीणां शरसङ्घकोणाम् । KK04-04-058-014a
कराग्रयन्त्रां स्थिरचापदण्डां वीणामुपावादयदाशु पार्थः ॥ KK04-04-058-014c
तस्मिंस्तु युद्धे तुमुले प्रवृत्ते पार्थं विकर्णोऽतिरथं रथेन । KK04-04-058-015a
विपाठवर्षेण कुरुप्रवीरो भीमेन भीमानुजमाससाद ॥ KK04-04-058-015c
ततो विकर्णस्य धनुर्विकृत्य जाम्बुनदेनोपहितं दृढज्यम् । KK04-04-058-016a
न्यपातयत्तद्ध्वजमस्य विद्ध्वा छिन्नध्वजः सोऽप्यपयाज्जवेन ॥ KK04-04-058-016c
तं शात्रवाणां गणबाधितारं कर्माणि कुर्वाणममानुषाणि । KK04-04-058-017a
शत्रुन्तपो वैरममृष्यमाणः समार्पयत्कूर्मनखेन पार्थम् ॥ KK04-04-058-017c
स तेन राज्ञाऽतिरथेन विद्धो विगाहमानो ध्वजिनीं पेरषाम् । KK04-04-058-018a
शत्रुन्तपं पञ्चभिराशु विद्ध्वा ततोऽस्य सूतं दशभिर्जघान ॥ KK04-04-058-018c
ततः स विद्धो भरतर्षभेण बाणेन कायावरणातिगेन । KK04-04-058-019a
गतासुराजौ निपपात राजन्नगो नगाग्रादिव वातरुग्णः ॥ KK04-04-058-019c
रथर्षभास्ते तु रथर्षभेण वीरा रणे वीरतरेण भग्नाः । KK04-04-058-020a
चकम्पिरे वातवशेन काले प्रकम्पितानीव महावनानि ॥ KK04-04-058-020c
हताश्च पार्थेन नरप्रवीरा भूमौ युवानः सुषुपुः सुवेषाः । KK04-04-058-021a
वसुप्रदा वासवतुल्यवीर्याः पराजिता वासवजेन सङ्ख्ये । KK04-04-058-021c
सुवर्णकार्ष्णायसवर्मनद्धा नागा यथा हैमवते प्रवृद्धाः ॥ KK04-04-058-021e
तथा स शत्रून्समरे विनिघ्नन् गाण्डीवधन्वा पुरुषप्रवीरः । KK04-04-058-022a
चचार सङ्ख्ये विदिशो दिशश्च दहन्निवाग्निर्वनमातपान्ते ॥ KK04-04-058-022c
सुजीर्णपर्णानि यथा वसन्ते विशातयित्वा तु रजो नुदन्खे । KK04-04-058-023a
तथा सपत्नान्विकिरन्किरीटी चचार सङ्ख्येऽतिरथो रथेन ॥ KK04-04-058-023c
शोणाश्ववाहस्य हयान्निहत्य वैकर्तनभ्रातुरदीनसत्वः । KK04-04-058-024a
एकेन सङ्ग्रामजितः शरेण शिरो जहाराथ किरीटमाली ॥ KK04-04-058-024c
तस्मिन्हते भ्रातरि सूतपुत्रो वैकर्तनो वीर्यमदप्रतापी । KK04-04-058-025a
प्रगृह्य दन्ताविव नागराजो महाबलः सिंहमिवाजगाम ॥ KK04-04-058-025c
स पाण्डवं द्वादशभिः पृषत्कैर्वैकर्तनः पार्थमुपाजघान । KK04-04-058-026a
विव्याध गात्रेषु हयांश्च सर्वान्विराटपुत्रं च शरैर्विजघ्ने ॥ KK04-04-058-026c
तमापतन्तं समरे किरीटी वैकर्तनं सर्वसमृद्धतेजाः । KK04-04-058-027a
प्रच्छादयामास महाधनुष्मान्न्यषेधयच्छत्रुगणांश्च वीरः ॥ KK04-04-058-027c
निहत्य कर्णस्य ततः किरीटी पुरश्चरांश्चापि च पृष्ठगोपान् । KK04-04-058-028a
समीपमभ्यागमदप्रमेयो वितत्य पक्षौ गरुडो यथोरगम् ॥ KK04-04-058-028c
तावुत्तमौ सर्वधनुर्धराणां महाबलौ सर्वसपत्नसाहौ । KK04-04-058-029a
कर्णं च पार्थं च निशम्य युद्धे दिदृक्षमाणाः कुरवोऽवतस्थुः ॥ KK04-04-058-029c
तं पाण्डवः स्पष्टमुदीर्णकोपं कृतागसं कर्णमुदीक्ष्य कोपात् । KK04-04-058-030a
क्षणेन साश्वं सरथं ससूतमन्तर्दधे मेघ इवातिवृष्ट्या ॥ KK04-04-058-030c
ततः सयुग्याः सरथाः सनागा योधा विनेदुर्भरतर्षभाणाम् । KK04-04-058-031a
अन्तर्हितं भीष्ममुखाः समीक्ष्य किरीटिना कर्णरथं पृषत्कैः ॥ KK04-04-058-031c
स चापि तानर्जुनबाहुमुक्ताञ्शराञ्शरौघैः प्रतिहत्य तूर्णम् । KK04-04-058-032a
बभौ महात्मा सधनुः सबाणः सविष्फुलिङ्गोऽग्निरिवाथ कर्णः ॥ KK04-04-058-032c
ततस्तु जज्ञे करतालघोषः सशङ्खभेरीपणवाकुलस्तु । KK04-04-058-033a
प्रक्ष्वेलितास्फोटितसिंहनादैर्वैकर्तनं पूजयतां कुरूणाम् ॥ KK04-04-058-033c
आधूतलाङ्गूलमहापताकं रथोत्तमं श्रेष्ठतमं कुरूणाम् । KK04-04-058-034a
ततः सगाण्डीवकृतप्रणादं किरीटिनं प्रेक्ष्य ननाद कर्णः ॥ KK04-04-058-034c
पार्थोपि वैकर्तनमर्दयित्वा साश्वं सकेतुं सरथं ससूतम् । KK04-04-058-035a
ननाद हर्षात्सहसा किरीटी पितामहं द्रोणकृपौ च दृष्ट्वा ॥ KK04-04-058-035c
सिषेच पार्थं बहुभिः शरौघैर्वैकर्तनः संयति तीक्ष्णवेगैः । KK04-04-058-036a
वैकर्तनश्चापि किरीटमाली प्रच्छादयामास शितैः शरौघैः ॥ KK04-04-058-036c
तयोरमोघान्सृजतोः शरौघानस्त्रज्ञयोरास महान्विमर्दः । KK04-04-058-037a
राहुप्रमुक्ताविव चन्द्रसूर्यौ क्षणान्तरेणानुददर्श लोकः ॥ KK04-04-058-037c
हतास्तु पार्थेन रथप्रवीरा भूमौ युवानः सुषुपुः सुकेशाः । KK04-04-058-038a
सुवर्णलोहायसवर्मगात्रा वृक्षा यथा हैमवते निकृत्ताः ॥ KK04-04-058-038c
तथा स शत्रून्समरे विनिघ्नन्गाण्डीवधन्वा व्यधमत्सपत्नान् । KK04-04-058-039a
चचार सङ्ख्ये विदिशो दिशश्च दहन्निवाग्निर्वनमातपान्ते ॥ KK04-04-058-039c
सुशीर्णपर्णानि यथा वसन्ते विधूनयन्वायुरिवाल्पसारान् । KK04-04-058-040a
तथा सपत्नान्विधमन्किरीटी चचार सङ्ख्येऽतिरथो रथेन ॥ KK04-04-058-040c
शत्रूनिवेन्द्रः समरे किरीटी विद्रावयंस्तद्रथवीरवृन्दम् । KK04-04-058-041a
प्राच्छादयच्चारुकिरीटमाली वरेषुभिः शत्रुगणाननेकान् ॥ KK04-04-058-041c
कर्णं तदोवाच किरीटमाली शूरः कुरूणां प्रवरोऽभिगर्जन् ॥ KK04-04-058-042ac
कर्ण यस्त्वं सभामध्ये बह्वबद्धं प्रभाषसे । KK04-04-058-043a
न मे युधि समोस्तीति तदिदं प्रत्युपस्थितम् ॥ KK04-04-058-043c
सभायां पौरुषं प्रोच्य धर्ममुत्सृज्य केवलम् । KK04-04-058-044a
कर्तुमिच्छसि यत्कर्म तन्मन्ये दुष्करं त्वया ॥ KK04-04-058-044c
यत्त्वया कथितं पूर्वं नास्ति मत्सम इत्यपि । KK04-04-058-045a
तत्सत्यं कुरु राधेय कुरुमध्ये मया सह ॥ KK04-04-058-045c
सभायां यस्तु पाञ्चालीं क्लिश्यमानां तदा त्वया । KK04-04-058-046a
दृष्टवानस्मि तस्याद्य फलमश्नुहि केवलम् ॥ KK04-04-058-046c
धर्मपाशनिबद्धेन यन्मया मर्षितं तव । KK04-04-058-047a
तस्य पापस्य राधेय फलं प्राप्नुहि दुर्मते ॥ KK04-04-058-047c
एहि कर्ण मया सार्धमिहाद्य कुरु वैशसम् । KK04-04-058-048a
प्रेक्षका कुरवः सन्तु सर्वे ते सहसैनिकाः ॥ KK04-04-058-048c
इदानीमेव तावत्त्वमपयातो रणान्मम । KK04-04-058-049a
कस्माज्जीवसि राधेय निहतस्त्वनुजस्तव ॥ KK04-04-058-049c
यो भ्रातरं पातयित्वा कस्त्यक्त्वा च रणाजिरम् । KK04-04-058-050a
त्वदन्यः पुरुषः सत्सु ब्रूयादेवं व्यवस्थितः ॥ KK04-04-058-050c
कर्ण उवाच KK04-04-058-051
ब्रवीषि वाचा यत्पार्थ कर्मणा तत्समाचर । KK04-04-058-051a
विशेषितो हि त्वं वाचा कर्मणाप्रतिमं भुवि ॥ KK04-04-058-051c
यत्त्वया मर्षितं पूर्वं तदशक्तेन मर्षितम् । KK04-04-058-052a
इति गृह्णीम ते पार्थ तमदृष्ट्वा पराक्रमम् ॥ KK04-04-058-052c
धर्मपाशनिबद्धेन यत्त्वया मर्षितं पुरा । KK04-04-058-053a
तथैव बद्धमात्मानमबद्ध इति मन्यसे ॥ KK04-04-058-053c
न हि तावद्वने वासो यथोक्तं चरितस्त्वया । KK04-04-058-054a
क्लिष्टस्त्वमर्थलोभात्तु समयं छेत्तुमिच्छसि ॥ KK04-04-058-054c
यदि चेन्द्रः स्वयं पार्थ तव युद्ध्येत कारणात् । KK04-04-058-055a
तथाऽपि न व्यथा काचिन्मम स्याद्विक्रमिष्यतः ॥ KK04-04-058-055c
अयं कौन्तेयकामस्ते नचिरात्समुपस्थितः । KK04-04-058-056a
योत्स्यसे हि मया सार्धमत्र पश्यामि ते बलम् ॥ KK04-04-058-056c
वैशम्पायन उवाच KK04-04-058-057
इति कर्णो ब्रुवन्नेव बीभत्सुमपराजितम् । KK04-04-058-057a
अभ्ययाद्विसृजन्बाणान्कायावरणभेदिनः ॥ KK04-04-058-057c
प्रतिजग्राह तान्पार्थः प्रीयमाणो महारथः ॥ KK04-04-058-058ac
शरवर्षेण महता पर्जन्य इव वृष्टिमान् । KK04-04-058-059a
अभीयाय हि बीभत्सुर्गाण्डीवं विक्षिपन्धनुः ॥ KK04-04-058-059c
जिघांसुः समरे कर्णं विससर्ज शरान्बहून् । KK04-04-058-060a
तान्कर्णः प्रतिजग्राह वायुवेगमिवाचलः ॥ KK04-04-058-060c
तयोर्दैवासुरसमः सन्निपातोऽभवन्महान् । KK04-04-058-061a
किरतोः शरजालानि कृत्स्नं व्योम निरन्तरम् ॥ KK04-04-058-061c
उत्पेतुर्मेघजालानि घोररूपाणि सर्वशः । KK04-04-058-062a
ववर्ष च रजो भौमं कर्णपार्थसमागमे ॥ KK04-04-058-062c
न स्म सूर्यः प्रतपति न च वाति समीरणः । KK04-04-058-063a
शरप्रच्छादितं व्योम छायाभूतमिवाभवत् ॥ KK04-04-058-063c
गाण्डीवस्य च निर्घोषः कर्णस्य धनुषस्तथा । KK04-04-058-064a
दह्यतामिव वेणूनामासीत्परमदारुणः ॥ KK04-04-058-064c
अर्जुनस्तु हयान्नागान्रथांश्च विनिपातयन् । KK04-04-058-065a
क्षोभयामास तत्सैन्यं कर्णं विव्याध चासकृत् ॥ KK04-04-058-065c
ततः पार्थो महाबाहुः कर्णस्य धनुरच्छिनत् । KK04-04-058-066a
छिन्नधन्वा ततः कर्णः शक्तिं चिक्षेप वेगवान् । KK04-04-058-066c
तां शक्तिं समरे पार्थश्चिच्छेद निशितैः शरैः ॥ KK04-04-058-066e
ततो निपेतुर्बहुशो राधेयस्य पदानुगाः । KK04-04-058-067a
तांश्च गाण्डीवनिर्मुक्तैः प्राहिणोद्यमसादनम् ॥ KK04-04-058-067c
अशेरतावृत्य महीं समग्रां पार्थेषुमार्गे निहता द्विपेन्द्राः । KK04-04-058-068a
हिरण्यकक्ष्याः शरजालचित्रा यथा नगाः पावकजालनद्धाः ॥ KK04-04-058-068c
तं शत्रुसेनाङ्गनिबर्हणानि कर्माणि कुर्वाणममानुषाणि । KK04-04-058-069a
वैकर्तनः पूर्वममृष्यमाणः समार्पयल्लक्ष्यमिवाशु पार्थम् ॥ KK04-04-058-069c
ततश्चतुर्भिस्तुरगान्विकृष्य विव्याध कर्णोऽथ धनञ्जयस्य । KK04-04-058-070a
षड्भिश्च सूतं दशभिर्हयांश्च षष्ट्या च पार्थं त्रिभिरस्य केतुम् ॥ KK04-04-058-070c
सविष्फुलिङ्गोज्ज्वलभीमघोषः कोपेन्धनः केतुशिखः शरार्चिः । KK04-04-058-071a
कर्णाग्निरस्त्रानिलभीमवातो बभौ दिधक्षन्निव पार्थकक्षम् ॥ KK04-04-058-071c
स्वनेमिशङ्खस्वनभीमघोषश्चलत्पताकोज्ज्वलभीमविद्युत् । KK04-04-058-072a
पार्थाम्बुदः शस्त्रशराम्बुधारः कर्णानलं संशमयाञ्चकार ॥ KK04-04-058-072c
तेनातिविद्धः समरे किरीटी प्रबोधितः सिंह इव प्रसुप्तः । KK04-04-058-073a
गाण्डीवधन्वा प्रवरः कुरूणां प्रतत्वरे कर्णवधाय जिष्णुः ॥ KK04-04-058-073c
स ब्राह्ममस्त्रं समरे किरीटी प्रादुश्चकाराद्भुतवीर्यकर्मा । KK04-04-058-074a
सन्तापयन्कर्णरथं शरौघैर्लोकानिमान्त्सूर्य इवांशुमाली ॥ KK04-04-058-074c
स हस्तिनेवाभिहतो गजेन्द्रः प्रगृह्य भल्लान्निशितान्निषङ्गात् । KK04-04-058-075a
आकर्णपूर्णे तु धनुर्विकृष्य विव्याध बाणैरथ सूतपुत्रम् ॥ KK04-04-058-075c
अथास्य बाहू सशिरो ललाटं ग्रीवामुरः स्कन्धभुजान्तरं च । KK04-04-058-076a
कर्णस्य पार्थो युधि निर्बिभेद वज्रैरिवाद्रिं भगवान्महेन्द्रः ॥ KK04-04-058-076c
स पार्थमुक्तानविषह्य बाणान् गजो गजेनेव जितस्तरस्वी । KK04-04-058-077a
विहाय सङ्ग्रामशिरोपयातो वैकर्तनः पार्थशराभितप्तः ॥ ॥ KK04-04-058-077c
इति श्रीमन्महाभारते विराटपर्वणि गोग्रहणपर्वणि अष्टपञ्चाशोऽध्यायः ॥ 58 ॥
4-58-23 वायुर्यथा खे आकाशे रजो नुदन् चरति तथेत्यध्याहारेण योजना ॥ 23 ॥ 4-58-30 कर्णमुदीक्ष्य हर्षादिति ध. पाठः ॥ 30 ॥