अध्यायः 057
अर्जुनस्य भीष्मद्रोणादिभिः सह युद्धम् ॥ 1 ॥ अर्जुनेन कर्णस्य पराभवः ॥ 2 ॥
वैशम्पायन उवाच KK04-04-057-001
अश्वत्थामा ततस्तत्र कर्णं सम्प्रेक्ष्य वीर्यवान् । KK04-04-057-001a
उवाच स्मयमानोऽसौ सूतपुत्रमरिन्दमम् ॥ KK04-04-057-001c
कर्ण यस्त्वं सभामध्ये बह्वबद्धं विकत्थसे । KK04-04-057-002a
न मे युधि समोऽस्तीति तदिदं प्रत्युपस्थितम् ॥ KK04-04-057-002c
एषोऽन्तक इव क्रुद्धः सर्वभूतावमर्दनः । KK04-04-057-003a
सङ्ग्रामशिरसो मध्ये दृम्भते केसरी यथा ॥ KK04-04-057-003c
शूरोसि यदि सङ्ग्रामे दर्शयस्व सभां विना ॥ KK04-04-057-004ac
यद्यशक्तोसि सङ्ग्रामे पार्थेनाद्भुतकर्मणा । KK04-04-057-005a
पुनरेव सभां गत्वा धार्तराष्ट्रेण धीमता । KK04-04-057-005c
मातुलं परिगृह्याशु मन्त्रयस्व यथासुखम् ॥ KK04-04-057-005e
वैशम्पायन उवाच KK04-04-057-006
एवमुक्तस्तथा कर्णः क्रोधादुद्वृत्य लोचने । KK04-04-057-006a
द्रोणपुत्रमिदं वाक्यमुवाच कुरुसन्निधौ ॥ KK04-04-057-006c
नाहं बिभेमि बीभत्सोर्न कृष्णाद्देवकीसुतात् । KK04-04-057-007a
पाण्डवेभ्योपि सर्वेभ्यः क्षत्रधर्ममनुव्रतः ॥ KK04-04-057-007c
सत्वाधिकानां पुंसां तु धनुर्वेदोपजीविनाम् । KK04-04-057-008a
गर्जतां जायते दर्पः स्वरश्च न विषीदति ॥ KK04-04-057-008c
पश्यत्वाचार्यपुत्रो मामर्जुनेनातिरंहसा । KK04-04-057-009a
युध्यमानं सुसंयुक्तं जयो वै मय्यवस्थितः ॥ KK04-04-057-009c
वैशम्पायन उवाच KK04-04-057-010
ततः प्रहस्य बीभत्सुः कौन्तेयः श्वेतवाहनः । KK04-04-057-010a
दिव्यमस्त्रं विकुर्वाणः प्रत्ययाद्रथिसत्तमः ॥ KK04-04-057-010c
महात्मानं मन्दबुद्धिर्निश्वसन्धृतराष्ट्रजः । KK04-04-057-011a
उवाच स महाराज राजा दुर्योधनस्तदा ॥ KK04-04-057-011c
न विद्मो ह्यर्जुनं तत्र वसन्तं मत्स्यवेश्मनि । KK04-04-057-012a
तेनेदं कर्ण मत्स्यानामग्रहीष्म धनं बहु ॥ KK04-04-057-012c
एवं चेत्तर्हि गच्छामो विसृजन्तो धनं बहु । KK04-04-057-013a
अयशो नातिवर्तेत लोकयोरुभयोरपि ॥ KK04-04-057-013c
किं च युद्धात्परं नास्ति क्षत्रियाणां सुखावहम् । KK04-04-057-014a
तस्मात्पार्थेन सङ्ग्रामं कुर्महे न पलायनम् ॥ KK04-04-057-014c
एतावदुक्त्वा राजा वै ह्यभियानमियेष सः । KK04-04-057-015a
तथा दशसहस्राणि वीराणां हि धनुष्मताम् । KK04-04-057-015c
अभ्यद्रवंस्तदा पार्थं शलभा इव पावकम् ॥ KK04-04-057-015e
वर्मिता वाजिनस्तत्र सम्भृताश्च पदातिभिः । KK04-04-057-016a
भीमरूपाश्च मातङ्गास्तोमराङ्कुशपाणिभिः ॥ KK04-04-057-016c
अधिष्ठिताः सुसंयत्तैर्हस्तिशिक्षाविशारदैः । KK04-04-057-017a
अभ्यद्रवन्सुसङ्क्रुद्धाश्चापहस्तोद्यतायुधाः ॥ KK04-04-057-017c
पञ्च चैनं रथोदग्रास्त्वरिताः पर्यवारयन् । KK04-04-057-018a
द्रोणो भीष्मश्च कर्णश्च कुरुराजश्च वीर्यवान् ॥ KK04-04-057-018c
अश्वत्थामा महाबाहुर्धनुर्वेदपरायणः । KK04-04-057-019a
इषूंश्च सम्यगस्यन्तो जीमूता इव वार्षिकाः ॥ KK04-04-057-019c
ते लाभमिव मन्वानाः प्रत्यगृह्णन्धनञ्जयम् । KK04-04-057-020a
शरौघानभिवर्षन्तो नादयन्तो दिशो दश ॥ KK04-04-057-020c
ततः प्रहस्य बीभत्सुः कौन्तेयः श्वेतवाहनः । KK04-04-057-021a
दिव्यमस्त्रं प्रकुर्वाणः प्रत्ययाद्रथिसत्तमान् ॥ KK04-04-057-021c
यथा रश्मिभिरादित्यः प्रच्छादयति मेदिनीम् । KK04-04-057-022a
तथा गाण्डीवनिर्मुक्तैः शरैराच्छादयद्दिशः ॥ KK04-04-057-022c
न रथानां न चाश्वानां न ध्वजानां न वर्मिणाम् । KK04-04-057-023a
अतिविद्धैः शितैर्बाणैरासीद्द्व्यङ्गुलिरन्तरम् ॥ KK04-04-057-023c
दैवयोगाद्धि पार्थस्य हयानामुत्तरस्य च । KK04-04-057-024a
शिक्षाबलोपपन्नत्वादस्त्राणां वै परिक्रमात् । KK04-04-057-024c
ध्वजगाण्डीवयोश्चापि दैव्या शक्त्या च मायया ॥ KK04-04-057-024e
इतस्ततश्च संयाने दूरे वाऽप्यथवाऽन्तिके । KK04-04-057-025a
दुर्गे विषमजाते वा स्थले निम्ने तथा क्षितौ । KK04-04-057-025c
न च रुध्येद्गतिस्तस्य रथस्य मनसो यथा ॥ KK04-04-057-025e
समरेषु तु विद्वांसस्तस्य तांस्तान्परिक्रमान् । KK04-04-057-026a
वीर्यमत्यद्भुतं दृष्ट्वा तथा पार्थस्य तद्बलम् । KK04-04-057-026c
त्रेसुरेवं परे भीताः पराङ्मुखरथा अपि । KK04-04-057-026e
कालाग्निमिव बीभत्सुं निर्दहन्तमिव प्रजाः । KK04-04-057-027a
नारयः प्रेक्षितुं शेकुर्ज्वलन्तमिव पावकम् ॥ KK04-04-057-027c
तानि भिन्नान्यनीकानि रेजुरर्जुनमार्गणैः । KK04-04-057-028a
तिग्मांशोश्च घनाभ्राणि व्याप्तानीव गभस्तिभिः ॥ KK04-04-057-028c
अशोकानां वनानीव सञ्चितैः कुसुमैः शुभैः । KK04-04-057-029a
पार्थः संरञ्जयामास रुधिरेणाकुलं बलम् ॥ KK04-04-057-029c
सहस्रशोऽर्जुनशरैश्छिन्नान्युच्चावचानि च । KK04-04-057-030a
छत्राणि च पताकाश्च खेऽभ्युवाह सदागतिः ॥ KK04-04-057-030c
ये ह्यर्जुनबलत्रस्ताः परिपेतुर्दिशो दश । KK04-04-057-031a
रथात्तं देशमुत्सृज्य पार्थच्छिन्नयुगा हयाः ॥ KK04-04-057-031c
निकृत्तपूर्वचरणास्ते निपेतुः शितैः शरैः । KK04-04-057-032a
शिरोभिः प्रथमं जग्मुर्मेदिनीं जघनैर्हयाः ॥ KK04-04-057-032c
चक्षुर्नासाविषाणेषु दन्तवेष्टेषु च द्विपान् । KK04-04-057-033a
मर्मस्वन्येषु चाहत्य तथा निघ्नन्गजोत्तमाः ॥ KK04-04-057-033c
कौरवाणां गजानां च शरीरैर्गतचेतसाम् । KK04-04-057-034a
क्षणेन संवृता भूमिर्मेघैरिव नभस्थलम् ॥ KK04-04-057-034c
अस्त्रैर्दिव्यैर्महाबाहुरर्जुनः प्रहसन्निव । KK04-04-057-035a
बडवामुखसम्भूतः कालाग्निरिव संवृतः ॥ KK04-04-057-035c
यथा युगान्तसमये सर्वं स्थावरजङ्गमम् । KK04-04-057-036a
कालपक्वमशेषेण धक्ष्येदुग्रशिखः शिखी ॥ KK04-04-057-036c
तद्वत्पार्थोऽस्त्रतेजोभिर्धनुषो निस्वनेन च । KK04-04-057-037a
दैवाद्वीर्याच्च बीभत्सुस्तस्मिन्दौर्योधने बले ॥ KK04-04-057-037c
रणे शक्तिममित्राणां प्रणीयोपनिनाय सः । KK04-04-057-038a
चेष्टां प्रायेण भूतानां रात्रिः प्राणभृतामिव ॥ KK04-04-057-038c
सोऽतीयात्सहसा शत्रून्सहसा तेऽभिपेदिरे । KK04-04-057-039a
शीघ्रादूरं दृढामोघमस्त्रमस्यातिमानुषम् । KK04-04-057-039c
दृष्ट्वा ते कौरवा भीता अतिमानुषविक्रमम् ॥ KK04-04-057-039e
खगपत्राभिसंवीतैः खाविष्टैः खगमैरिव । KK04-04-057-040a
अर्जुनस्य खमावव्रे लोहितप्राणपैः खगैः ॥ KK04-04-057-040c
अर्जुनेन विनिर्मुक्ताः शरा गाण्डीवधन्वना । KK04-04-057-041a
तार्क्ष्यवेगा इवाकाशे ससञ्जुः परमर्मसु ॥ KK04-04-057-041c
वर्माणि सारथिश्चैव हेमजालानि वाजिनाम् । KK04-04-057-042a
किरीटं सूर्यसङ्काशं वैयाघ्रमथ चर्म च ॥ KK04-04-057-042c
ततः सर्वाणि गात्राणि रथस्य द्विषतां शरैः । KK04-04-057-043a
नीहारेणेव भूतानि छन्नानीह चकाशिरे ॥ KK04-04-057-043c
सकृदेव न तं शेकुः कथमभ्यसितुं परे । KK04-04-057-044a
अनभ्यस्तः पुनस्तैर्हि रथः सोभिपपात तान् ॥ KK04-04-057-044c
तच्छरा द्विट्शरीरेषु यथा च न ससञ्जिरे । KK04-04-057-045a
द्विधाऽनीकेषु बीभत्सोर्न ससज्ज रथस्तथा ॥ KK04-04-057-045c
स तद्धि क्षोभयामास विगाह्यारिबलं रथी । KK04-04-057-046a
अनन्तवेगो भुजगः क्रीडन्निव महार्णवे ॥ KK04-04-057-046c
अस्यतो नित्यमत्यर्थं सर्वघोषाधिकस्तथा । KK04-04-057-047a
सन्नादः श्रूयते भूतैर्धनुषश्च किरीटिनः ॥ KK04-04-057-047c
सञ्च्छिन्नास्तत्र मातङ्गा बाणैरल्पान्तरान्तरैः । KK04-04-057-048a
संस्यूतास्तत्र दृश्यन्ते मेघा इव गभस्तिभिः ॥ KK04-04-057-048c
दिशोऽनुभ्रमतः सर्वा सव्यदक्षिणमस्यतः । KK04-04-057-049a
सततं दृश्यते युद्धे सायकासनमण्डलम् ॥ KK04-04-057-049c
पतन्त्यरूपेषु यथा चक्षूंषि न कदाचन । KK04-04-057-050a
नालक्ष्येषु शराः पेतुस्तस्य गाण्डीवधन्वनः ॥ KK04-04-057-050c
महागजसहस्रस्य युगपन्मृद्नतो वनम् । KK04-04-057-051a
कौन्तेयरथमार्गस्तु रणे घोरतरोऽभवत् ॥ KK04-04-057-051c
नूनं पार्थजयैषित्वाच्छक्रः सर्वामरैः सह । KK04-04-057-052a
हन्त्यस्मानिति मन्यन्ते पार्थेनैवार्दिताः परे ॥ KK04-04-057-052c
घ्नन्तमत्यर्थमहितान्सव्यसाचिनमाहवे । KK04-04-057-053a
कालमर्जुनरूपेण ग्रसन्तमिव च प्रजाः ॥ KK04-04-057-053c
कुरुसेनाशरीराणि पार्थेनानाहतान्यपि । KK04-04-057-054a
पेतुः पार्थहतानीव पार्थकर्मानुदर्शनात् ॥ KK04-04-057-054c
ओषधीनां शिरांसीव कालपक्तिसमन्वयात् । KK04-04-057-055a
अवनेमुः कुरूणां हि शिरांस्यर्जुनजाद्भयात् ॥ KK04-04-057-055c
चकार चार्जुनः क्रोधाद्विमुखान्रुषितानपि ॥ KK04-04-057-056ac
अर्जुनेनापि भिन्नानि बलाग्राणि पुनः क्वचित् । KK04-04-057-057a
चक्रुर्लोहितधाराभिर्धरणीं लोहितोत्तराम् ॥ KK04-04-057-057c
लोहितेनापि सम्पृक्तैः पांसुभिः पवनोद्धतैः । KK04-04-057-058a
तेनैव च समुद्धूतैः सूक्ष्मैर्लोहितबिन्दुभिः ॥ KK04-04-057-058c
लोहितार्द्रैः प्रहरणैः प्रभग्ना लोहितोक्षिताः । KK04-04-057-059a
लोहितेषु निमग्नास्ते निहताश्च किरीटिना ॥ KK04-04-057-059c
बभूवुर्लोहितास्तत्र भृशमादित्यरश्मयः । KK04-04-057-060a
आकाशं तत्क्षणेनासीत्सन्ध्याभ्रमिव लोहितम् ॥ KK04-04-057-060c
अप्यस्तं प्राप्य चादित्यो निवर्तेत न पाण्डवः । KK04-04-057-061a
निवर्तन्ते न जित्वारिं नित्यजल्पविचक्षणाः ॥ KK04-04-057-061c
तान्सर्वान्समरे शूरान्पौरुषे पर्यवस्थितान् । KK04-04-057-062a
दिव्यैरस्त्रैरमोघात्मा सर्वानार्च्छद्धनुर्धरान् ॥ KK04-04-057-062c
स तु द्रोणं त्रिसप्तत्या नाराचानां समार्पयत् । KK04-04-057-063a
अशीत्या शकुनिं चैव द्रौणिमप्याशु सप्तभिः ॥ KK04-04-057-063c
दुःसहं दशभिर्बाणैरर्जुनः समविध्यत । KK04-04-057-064a
दुश्शासनं द्वादशभिः कृपं शारद्वतं त्रिभिः । KK04-04-057-064c
भीष्मं शान्तनवं षष्ट्या प्रत्यविध्यत्स्तनान्तरे ॥ KK04-04-057-064e
स कर्णं कर्णिनाऽविध्यत्पीतेन निशितेन च । KK04-04-057-065a
वासविर्द्विषतां मध्ये विव्याध परमेषुणा ॥ KK04-04-057-065c
स कर्णं सतनुत्राणं निर्भिद्य निशितः शरः । KK04-04-057-066a
अगच्छद्दानयन्भूमिं चोदितो दृढधन्वना ॥ KK04-04-057-066c
ततोऽस्य वाहान्व्यहनच्चतुर्भिश्चतुरः क्षुरैः । KK04-04-057-067a
सारथेश्च शिरः कायादपाहरदरिन्दमः । KK04-04-057-067c
अर्धचन्द्रेण चिच्छेद चापं तस्य करे स्थितम् ॥ KK04-04-057-067e
तस्मिन्विद्धे महाभागे कर्णे सर्वास्त्रपारगे । KK04-04-057-068a
हताश्वसूते विरथे ततोऽनीकमभज्यत ॥ ॥ KK04-04-057-068c
इति श्रीमन्महाभारते विराटपर्वणि गोग्रहणपर्वणि सप्तपञ्चाशोऽध्यायः ॥ 57 ॥