अध्यायः 056
अर्जुनेनोत्तरम् प्रति द्रोणकर्णादिरथानामसाधारणध्वजचिह्नप्रदर्शनपूर्वकं तत्तन्नामनिर्देशेन तत्तत्पराक्रमवर्णनम् ॥ 1 ॥
वैशम्पायन उवाच KK04-04-056-001
ततस्त्रीणि सहस्राणि रथानां च धनुष्मताम् । KK04-04-056-001a
घोराणि कुरुवीराणां पर्यकीर्यन्त भारत ॥ KK04-04-056-001c
कर्णो रथसहस्रेण प्रत्यगृह्णाद्धनञ्जयम् । KK04-04-056-002a
भीष्मः शान्तनवो धीमान्सहस्रेण पुरस्कृतः ॥ KK04-04-056-002c
तथा रथसहस्रेण भ्रातृभिः परिवारितः । KK04-04-056-003a
पश्चाद्दुर्योधनोऽतिष्ठद्यशसा च श्रिया ज्वलन् ॥ KK04-04-056-003c
अतिष्ठन्नवकाशेषु पादाताः सह वाजिभिः । KK04-04-056-004a
भीमरूपाश्च मातङ्गास्तोमराङ्कुशचोदिताः ॥ KK04-04-056-004c
तानि दृष्ट्वा ह्यनीकानि विततानि महात्मनाम् । KK04-04-056-005a
वैराटिमुत्तरं तं तु प्रत्यभाषत पाण्डवः ॥ KK04-04-056-005c
जाम्बूनदमयी वेदी ध्वजाग्रे यस्य दृश्यते । KK04-04-056-006a
शोणाश्चाश्वा रथे युक्ता द्रोण एष प्रकाशते ॥ KK04-04-056-006c
आचार्यो निपुणो धीमान्ब्रह्मविच्छूरसत्तमः । KK04-04-056-007a
आहवे चाप्रतिद्वन्द्वो दूरपाती महारथः ॥ KK04-04-056-007c
सुप्रसन्नो महावीरः कुरुष्वैनं प्रदक्षिणम् । KK04-04-056-008a
अत्रैव चाविरोधेन एष धर्मः सनातनः ॥ KK04-04-056-008c
यदि मे प्रहरेद्द्रोणः शरीरे मे प्रहृष्यतः । KK04-04-056-009a
ततोऽस्मिन्प्रहरिष्यामि नान्यथा बुद्धिरस्ति मे ॥ KK04-04-056-009c
भारताचार्यमुख्येन ब्राह्मणेन महात्मना । KK04-04-056-010a
तेन मे युध्यमानस्य मन्दं वाहय सारथे ॥ KK04-04-056-010c
ध्वजाग्रे सिंहलाङ्गूलो दिक्षु सर्वासु शोभते । KK04-04-056-011a
भारताचार्यपुत्रस्तु सोऽश्वत्थामा विराजते ॥ KK04-04-056-011c
ध्वजाग्रं दृश्यते यत्र बालसूर्यसमप्रभम् । KK04-04-056-012a
दुर्जयः सर्वसैन्यानां देवैरपि सवासवैः । KK04-04-056-012c
तेन मे युध्यमानस्य मन्दं वाहय सारथे ॥ KK04-04-056-012e
ध्वजाग्रे गोवृषो यस्य काञ्चनोऽभिविराजते । KK04-04-056-013a
आचार्यवरमुख्यस्तु कृप एष महारथः ॥ KK04-04-056-013c
द्रोणेन च समो वीर्ये पितुर्मे परमः सखा । KK04-04-056-014a
तेन मे युध्यमानस्य मन्दं वाहय सारथे ॥ KK04-04-056-014c
यस्य काञ्चनकम्बूभिर्हस्तिकक्ष्यापरिष्कृतः । KK04-04-056-015a
ध्वजः प्रकाशते दूराद्रथे विद्युद्गणोपमः ॥ KK04-04-056-015c
एष वैकर्तनः कर्णः प्रतिमानं धनुष्मताम् । KK04-04-056-016a
दृढवैरी सदाऽस्माकं नित्यं कटुकभाषणः ॥ KK04-04-056-016c
यस्याश्रयबलादेव धार्तराष्ट्रः ससौबलः । KK04-04-056-017a
अस्मान्निरस्य राज्याच्च पुनरद्यापि योत्स्यति ॥ KK04-04-056-017c
एष वै स्पर्धते नित्यं मया सह सुदुर्जयः । KK04-04-056-018a
जामदग्न्यस्य रामस्य शिष्यो ह्येष महारथः ॥ KK04-04-056-018c
सर्वास्त्रकुशलः कर्णः सर्वशस्त्रभृतांवरः । KK04-04-056-019a
युद्धेऽप्रतिमवीर्यश्च दृढवेधी पराक्रमी ॥ KK04-04-056-019c
अद्याहं युद्धमेतेन करिष्ये सूतबन्धुना । KK04-04-056-020a
द्रष्टा त्वमावयोर्युद्धं बलिवासवयोरिव ॥ KK04-04-056-020c
महारथेन शूरेण सूतपुत्रेण धन्विना । KK04-04-056-021a
तेन मे युध्यमानस्य शीघ्रं वाहय सारथे ॥ KK04-04-056-021c
यस्य चैव रथोपस्थे नागो मणिमयो ध्वजः । KK04-04-056-022a
एष दुर्योधनस्तत्र कौरवो यशसा वृतः ॥ KK04-04-056-022c
लब्धलक्षो दृढं वेधी लघुहस्तः प्रतापवान् । KK04-04-056-023a
तेन मे युध्यमानस्य शीघ्रं वाहय सारथे ॥ KK04-04-056-023c
यस्तु श्वेतावदातेन पञ्चतालेन केतुना । KK04-04-056-024a
वैडूर्यमयदण्डेन तालवृक्षेण राजते ॥ KK04-04-056-024c
हस्तावापी बृहद्धन्वा सेनां तिष्ठति हर्षयन् । KK04-04-056-025a
रामेण जामदग्न्येन द्वैरथेनाजितः पुरा ॥ KK04-04-056-025c
शीघ्रश्च लघुवेधी च लघुहस्तः प्रतापवान् । KK04-04-056-026a
एष शान्तनवो भीष्मः सर्वेषां नः पितामहः ॥ KK04-04-056-026c
ककुदः सर्वसैन्यानां सर्वशस्त्रभृतांवरः । KK04-04-056-027a
जयश्रियाऽवबद्धस्तु सुयोधनवशानुगः । KK04-04-056-027c
पश्चादेष प्रयातव्यो न मे विघ्नकरो भवेत् ॥ KK04-04-056-027e
इत्येतांस्त्वरितः पार्थः कथयित्वा तु चोत्तरे । KK04-04-056-028a
रूपतश्चिह्नतश्चैव युद्धाय त्वरते पुनः ॥ ॥ KK04-04-056-028c
इति श्रीमन्महाभारते विराटपर्वणि गोग्रहणपर्वणि षट्पञ्चाशोऽध्यायः ॥ 56 ॥
4-56-9 शरीरे प्रहरिष्यतः इति नान्यथा युद्धमस्ति मे इति च. ध. पाठः ॥ 9 ॥